७।५९ रामायणम् Click on words to see what they mean. अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम् ॥ १ ॥ शूलस्य च बलं ब्रह्मन्के च पूर्वं निपातिताः ।अनेन शूलमुखेन द्वन्द्वयुद्धमुपागताः ॥ २ ॥ तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनः ।प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ॥ ३ ॥ असंख्येयानि कर्माणि यान्यस्य पुरुषर्षभ ।इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे ॥ ४ ॥ अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।मान्धाता इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ५ ॥ स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।सुरलोकमथो जेतुमुद्योगमकरोन्नृपः ॥ ६ ॥ इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम् ।मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥ ७ ॥ अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः ।वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ॥ ८ ॥ तस्य पापमभिप्रायं विदित्वा पाकशासनः ।सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ ९ ॥ राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ ।अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥ १० ॥ यदि वीर समग्रा ते मेदिनी निखिला वशे ।देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ ११ ॥ इन्द्रमेवं ब्रुवाणं तु मान्धाता वाक्यमब्रवीत् ।क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ॥ १२ ॥ तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।मधुपुत्रो मधुवने नाज्ञां ते कुरुतेऽनघ ॥ १३ ॥ तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ॥ १४ ॥ आमन्त्र्य तु सहस्राक्षं ह्रिया किंचिदवाङ्मुखः ।पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ १५ ॥ स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः ।आजगाम मधोः पुत्रं वशे कर्तुमनिन्दितः ॥ १६ ॥ स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः ।दूतं संप्रेषयामास सकाशं लवणस्य सः ॥ १७ ॥ स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ १८ ॥ चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥ १९ ॥ ततः प्रहस्य लवणः शूलं जग्राह पाणिना ।वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥ २० ॥ तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् ।भस्मीकृत्य नृपं भूयो लवणस्यागमत्करम् ॥ २१ ॥ एवं स राजा सुमहान्हतः सबलवाहनः ।शूलस्य च बलं वीर अप्रमेयमनुत्तमम् ॥ २२ ॥ श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ २३ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha