७।१३ रामायणम् Click on words to see what they mean. अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् ।निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ १ ॥ ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः ।निद्रा मां बाधते राजन्कारयस्व ममालयम् ॥ २ ॥ विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।अकुर्वन्कुम्भकर्णस्य कैलाससममालयम् ॥ ३ ॥ विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ।दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ॥ ४ ॥ स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ।वैदूर्यकृतशोभं च किङ्किणीजालकं तथा ॥ ५ ॥ दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ।सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहामिव ॥ ६ ॥ तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः ।बहून्यब्दसहस्राणि शयानो नावबुध्यते ॥ ७ ॥ निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।देवर्षियक्षगन्धर्वान्बाधते स्म स नित्यशः ॥ ८ ॥ उद्यानानि विचित्राणि नन्दनादीनि यानि च ।तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः ॥ ९ ॥ नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् ।नगान्वज्र इव सृष्टो विध्वंसयति नित्यशः ॥ १० ॥ तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ।कुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः ॥ ११ ॥ सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस्तदा ।लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम् ॥ १२ ॥ स गत्वा नगरीं लङ्कामाससाद विभीषणम् ।मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥ १३ ॥ पृष्ट्वा च कुशलं राज्ञो ज्ञातीनपि च बान्धवान् ।सभायां दर्शयामास तमासीनं दशाननम् ॥ १४ ॥ स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा ।जयेन चाभिसंपूज्य तूष्णीमासीन्मुहूर्तकम् ॥ १५ ॥ तस्योपनीते पर्यङ्के वरास्तरणसंवृते ।उपविश्य दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥ १६ ॥ राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् ।उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च ॥ १७ ॥ साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहः ।साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥ १८ ॥ दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः ।देवानां तु समुद्योगस्त्वत्तो राजञ्श्रुतश्च मे ॥ १९ ॥ निराकृतश्च बहुशस्त्वयाहं राक्षसाधिप ।अपराद्धा हि बाल्याच्च रक्षणीयाः स्वबान्धवाः ॥ २० ॥ अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः ॥ २१ ॥ तत्र देवो मया दृष्टः सह देव्योमया प्रभुः ।सव्यं चक्षुर्मया चैव तत्र देव्यां निपातितम् ॥ २२ ॥ का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।रूपं ह्यनुपमं कृत्वा तत्र क्रीडति पार्वती ॥ २३ ॥ ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम् ।रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम् ॥ २४ ॥ ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् ।पूर्णं वर्षशतान्यष्टौ समवाप महाव्रतम् ॥ २५ ॥ समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः ।प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ॥ २६ ॥ प्रीतोऽस्मि तव धर्मज्ञ तपसानेन सुव्रत ।मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप ॥ २७ ॥ तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम् ।व्रतं सुदुश्चरं ह्येतन्मयैवोत्पादितं पुरा ॥ २८ ॥ तत्सखित्वं मया सार्धं रोचयस्व धनेश्वर ।तपसा निर्जितत्वाद्धि सखा भव ममानघ ॥ २९ ॥ देव्या दग्धं प्रभावेन यच्च साव्यं तवेक्षणम् ।एकाक्षि पिङ्गलेत्येव नाम स्थास्यति शाश्वतम् ॥ ३० ॥ एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात् ।आगम्य च श्रुतोऽयं मे तव पापविनिश्चयः ॥ ३१ ॥ तदधर्मिष्ठसंयोगान्निवर्त कुलदूषण ।चिन्त्यते हि वधोपायः सर्षिसंघैः सुरैस्तव ॥ ३२ ॥ एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः ।हस्तान्दन्तांश संपीड्य वाक्यमेतदुवाच ह ॥ ३३ ॥ विज्ञातं ते मया दूत वाक्यं यत्त्वं प्रभाषसे ।नैव त्वमसि नैवासौ भ्रात्रा येनासि प्रेषितः ॥ ३४ ॥ हितं न स ममैतद्धि ब्रवीति धनरक्षकः ।महेश्वरसखित्वं तु मूढ श्रावयसे किल ॥ ३५ ॥ न हन्तव्यो गुरुर्ज्येष्ठो ममायमिति मन्यते ।तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥ ३६ ॥ त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ।एतन्मुहूर्तमेषोऽहं तस्यैकस्य कृते च वै ।चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥ ३७ ॥ एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् ।ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥ ३८ ॥ ततः कृतस्वस्त्ययनो रथमारुह्य रावणः ।त्रैलोक्यविजयाकाङ्क्षी ययौ तत्र धनेश्वरः ॥ ३९ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha