४।४४ रामायणम् Click on words to see what they mean. तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः ।शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे ॥ १ ॥ रामः प्रस्रवणे तस्मिन्न्यवसत्सहलक्ष्मणः ।प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः ॥ २ ॥ उत्तरां तु दिशं रम्यां गिरिराजसमावृताम् ।प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा ॥ ३ ॥ पूर्वां दिशं प्रति ययौ विनतो हरियूथपः ॥ ४ ॥ ताराङ्गदादि सहितः प्लवगः पवनात्मजः ।अगस्त्यचरितामाशां दक्षिणां हरियूथपः ॥ ५ ॥ पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः ।प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम् ॥ ६ ॥ ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् ।कपिसेना पतीन्मुख्यान्मुमोद सुखितः सुखम् ॥ ७ ॥ एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः ।स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे ॥ ८ ॥ नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः ।क्ष्वेलन्तो धावमानाश्च ययुः प्लवगसत्तमाः ।आनयिष्यामहे सीतां हनिष्यामश्च रावणम् ॥ ९ ॥ अहमेको हनिष्यामि प्राप्तं रावणमाहवे ।ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥ १० ॥ वेपमानं श्रमेणाद्य भवद्भिः स्थीयतामिति ।एक एवाहरिष्यामि पातालादपि जानकीम् ॥ ११ ॥ विधमिष्याम्यहं वृक्षान्दारयिष्याम्यहं गिरीन् ।धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥ १२ ॥ अहं योजनसंख्यायाः प्लविता नात्र संशयः ।शतं योजनसंख्यायाः शतं समधिकं ह्यहम् ॥ १३ ॥ भूतले सागरे वापि शैलेषु च वनेषु च ।पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥ १४ ॥ इत्येकैकं तदा तत्र वानरा बलदर्पिताः ।ऊचुश्च वचनं तस्मिन्हरिराजस्य संनिधौ ॥ १५ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha