२।४ रामायणम् Click on words to see what they mean. गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः ।मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ॥ १ ॥ श्व एव पुष्यो भविता श्वोऽभिषेच्येत मे सुतः ।रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ २ ॥ अथान्तर्गृहमाविश्य राजा दशरथस्तदा ।सूतमाज्ञापयामास रामं पुनरिहानय ॥ ३ ॥ प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ ।रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥ ४ ॥ द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः ।श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥ ५ ॥ प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् ।यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः ॥ ६ ॥ तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति ।श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥ ७ ॥ इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः ।प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥ ८ ॥ तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ।प्रवेशयामास गृहं विविक्षुः प्रियमुत्तमम् ॥ ९ ॥ प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः ।ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः ॥ १० ॥ प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥ ११ ॥ राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः ।अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः ॥ १२ ॥ जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि ।दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥ १३ ॥ अनुभूतानि चेष्टानि मया वीर सुखानि च ।देवर्षि पितृविप्राणामनृणोऽस्मि तथात्मनः ॥ १४ ॥ न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात् ।अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ १५ ॥ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् ।अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥ १६ ॥ अपि चाद्याशुभान्राम स्वप्नान्पश्यामि दारुणान् ।सनिर्घाता महोल्काश्च पतन्तीह महास्वनाः ॥ १७ ॥ अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः ।आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥ १८ ॥ प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।राजा वा मृत्युमाप्नोति घोरां वापदमृच्छति ॥ १९ ॥ तद्यावदेव मे चेतो न विमुह्यति राघव ।तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥ २० ॥ अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसुम् ।श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥ २१ ॥ तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् ।श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥ २२ ॥ तस्मात्त्वयाद्य व्रतिना निशेयं नियतात्मना ।सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ २३ ॥ सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥ २४ ॥ विप्रोषितश्च भरतो यावदेव पुरादितः ।तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ २५ ॥ कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥ २६ ॥ किं तु चित्तं मनुष्याणामनित्यमिति मे मतिः ।सतां च धर्मनित्यानां कृतशोभि च राघव ॥ २७ ॥ इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने ।व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥ २८ ॥ प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने ।तस्मिन्क्षणे विनिर्गत्य मातुरन्तःपुरं ययौ ॥ २९ ॥ तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् ।वाग्यतां देवतागारे ददर्श याचतीं श्रियम् ॥ ३० ॥ प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा ।सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ ३१ ॥ तस्मिन्काले हि कौसल्या तस्थावामीलितेक्षणा ।सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ॥ ३२ ॥ श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् ।प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥ ३३ ॥ तथा सनियमामेव सोऽभिगम्याभिवाद्य च ।उवाच वचनं रामो हर्षयंस्तामिदं तदा ॥ ३४ ॥ अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।भविता श्वोऽभिषेको मे यथा मे शासनं पितुः ॥ ३५ ॥ सीतयाप्युपवस्तव्या रजनीयं मया सह ।एवमृत्विगुपाध्यायैः सह मामुक्तवान्पिता ॥ ३६ ॥ यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने ।तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय ॥ ३७ ॥ एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् ।हर्षबाष्पकलं वाक्यमिदं राममभाषत ॥ ३८ ॥ वत्स राम चिरं जीव हतास्ते परिपन्थिनः ।ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥ ३९ ॥ कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक ।येन त्वया दशरथो गुणैराराधितः पिता ॥ ४० ॥ अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे ।येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥ ४१ ॥ इत्येवमुक्तो मात्रेदं रामो भारतमब्रवीत् ।प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव ॥ ४२ ॥ लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् ।द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥ ४३ ॥ सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान्राज्यफलानि च ।जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥ ४४ ॥ इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥ ४५ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha