२।१०० रामायणम् Click on words to see what they mean. आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः ।उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ १ ॥ साधु राघव मा भूत्ते बुद्धिरेवं निरर्थका ।प्राकृतस्य नरस्येव आर्य बुद्धेस्तपस्विनः ॥ २ ॥ कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।यदेको जायते जन्तुरेक एव विनश्यति ॥ ३ ॥ तस्मान्माता पिता चेति राम सज्जेत यो नरः ।उन्मत्त इव स ज्ञेयो नास्ति काचिद्धि कस्यचित् ॥ ४ ॥ यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्वचिद्वसेत् ।उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥ ५ ॥ एवमेव मनुष्याणां पिता माता गृहं वसु ।आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ॥ ६ ॥ पित्र्यं राज्यं समुत्सृज्य स नार्हति नरोत्तम ।आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ॥ ७ ॥ समृद्धायामयोध्यायामात्मानमभिषेचय ।एकवेणीधरा हि त्वां नगरी संप्रतीक्षते ॥ ८ ॥ राजभोगाननुभवन्महार्हान्पार्थिवात्मज ।विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ ९ ॥ न ते कश्चिद्दशरतःस्त्वं च तस्य न कश्चन ।अन्यो राजा त्वमन्यश्च तस्मात्कुरु यदुच्यते ॥ १० ॥ गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।प्रवृत्तिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे ॥ ११ ॥ अर्थधर्मपरा ये ये तांस्ताञ्शोचामि नेतरान् ।ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ १२ ॥ अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः ।अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ १३ ॥ यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् ॥ १४ ॥ दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः ।यजस्व देहि दीक्षस्व तपस्तप्यस्व संत्यज ॥ १५ ॥ स नास्ति परमित्येव कुरु बुद्धिं महामते ।प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ १६ ॥ सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ १७ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha