तां कथां कौशिको रामे निवेद्य मधुराक्षरम् ।पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥ १ ॥
अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः ।सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥ २ ॥
वैदर्भदुहिता राम केशिनी नाम नामतः ।ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥ ३ ॥
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।द्वितीया सगरस्यासीत्पत्नी सुमतिसंज्ञिता ॥ ४ ॥
ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस्तपः ।हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥ ५ ॥
अथ वर्ष शते पूर्णे तपसाराधितो मुनिः ।सगराय वरं प्रादाद्भृगुः सत्यवतां वरः ॥ ६ ॥
अपत्यलाभः सुमहान्भविष्यति तवानघ ।कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥ ७ ॥
एका जनयिता तात पुत्रं वंशकरं तव ।षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥ ८ ॥
भाषमाणं नरव्याघ्रं राजपत्न्यौ प्रसाद्य तम् ।ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ ९ ॥
एकः कस्याः सुतो ब्रह्मन्का बहूञ्जनयिष्यति ।श्रोतुमिच्छावहे ब्रह्मन्सत्यमस्तु वचस्तव ॥ १० ॥
तयोस्तद्वचनं श्रुत्वा भृगुः परम धार्मिकः ।उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥ ११ ॥
एको वंशकरो वास्तु बहवो वा महाबलाः ।कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥ १२ ॥
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन ।पुत्रं वंशकरं राम जग्राह नृपसंनिधौ ॥ १३ ॥
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा ।महोत्साहान्कीर्तिमतो जग्राह सुमतिः सुतान् ॥ १४ ॥
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च ।जगाम स्वपुरं राजा सभार्या रघुनन्दन ॥ १५ ॥
अथ काले गते तस्मिञ्ज्येष्ठा पुत्रं व्यजायत ।असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥ १६ ॥
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।षष्टिः पुत्रसहस्राणि तुम्बभेदाद्विनिःसृताः ॥ १७ ॥
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान्समवर्धयन् ।कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥ १८ ॥
अथ दीर्घेण कालेन रूपयौवनशालिनः ।षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥ १९ ॥
स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः ।बालान्गृहीत्वा तु जले सरय्वा रघुनन्दन ।प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान्निरीक्ष्य वै ॥ २० ॥
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् ॥ २१ ॥
तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ।संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ॥ २२ ॥
ततः कालेन महता मतिः समभिजायत ।सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ॥ २३ ॥
स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा ।यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥ २४ ॥