प्रौढानुभूतिः

प्रौढप्रौढनिजानुभूतिगलितद्वैतेन्द्रजालो गुरु-र्गूढं गूढमघौघदुष्टकुधियां स्पष्टं सुधीशालिनाम् ।स्वान्ते सम्यगिहानुभूतमपि सच्छिष्यावबोधाय त-त्सत्यं संस्मृतवान्समस्तजगतां नैजं निजालोकनात् ॥
द्वैतं मय्यखिलं समुत्थितमिदं मिथ्या मनःकल्पितंतोयं तोयविवर्जिते मरुतले भ्रान्त्यैव सिद्धं न हि ।यद्येवं खलु दृश्यमेतदखिलं नाहं न वा तन्ममप्रौढानन्दचिदेकसन्मयवपुः शुद्धोऽस्म्यखण्डोऽस्म्यहम् ॥
देहो नाहमचेतनोऽयमनिशं कुड्यादिवन्निश्चितोनाहं प्राणमयोऽपि वा दृतिधृतो वायुर्यथा निश्चितः ।सोऽहं नापि मनोमयः कपिचलः कार्पण्यदुष्टो न वाबुद्धिर्बुद्धकुवृत्तिकेव कुहना नाज्ञानमन्धंतमः ॥ ३ ॥
नाहं खादिरपि स्फुटं मरुतलभ्राजत्पयःसाम्यत-स्तेभ्यो नित्यविलक्षणोऽखिलदृशिः सौरप्रकाशो यथा ।दृश्यैः सङ्गविवर्जितो गगनवत्संपूर्णरूपोऽस्म्यहंवस्तुस्थित्यनुरोधतस्त्वहमिदं वीच्यादि सिन्धुर्यथा ॥ ४ ॥
निर्द्वैतोऽस्म्यहमस्मि निर्मलचिदाकाशोऽस्मि पूर्णोऽस्म्यहंनिर्देहोऽस्मि निरिन्द्रियोऽस्मि नितरां निष्प्राणवर्गोऽस्म्यहम् ।निर्मुक्ताशुभमानसोऽस्मि विगलद्विज्ञानकोशोऽस्म्यहंनिर्मायोऽस्मि निरन्तरोऽस्मि विपुलप्रौढप्रकाशोऽस्म्यहम् ॥
मत्तोऽन्यन्न हि किंचिदस्ति यदि चिद्भास्यं ततस्तन्मृषागुञ्जावह्निवदेव सर्वकलनाधिष्ठानभूतोऽस्म्यहम् ।सर्वस्यापि दृगस्म्यहं समरसः शान्तोऽस्म्यपापोऽस्म्यहंपूर्णोऽस्मि द्वयवर्जितोऽस्मि विपुलाकाशोऽस्मि नित्योऽस्म्यहम् ॥
मय्यस्मिन्परमार्थके श्रुतिशिरोवेद्ये स्वतो भासनेका वा विप्रतिपत्तिरेतदखिलं भात्येव यत्संनिधेः ।सौरालोकवशात्प्रतीतमखिलं पश्यन्न तस्मिञ्जनःसंदिग्धोऽस्त्यत एव केवलशिवः कोऽपि प्रकाशोऽस्म्यहम् ॥
नित्यस्फूर्तिमयोऽस्मि निर्मलसदाकाशोऽस्मि शान्तोऽस्म्यहंनित्यानन्दमयोऽस्मि निर्गतमहामोहान्धकारोऽस्म्यहम् ।विज्ञातं परमार्थतत्त्वमखिलं नैजं निरस्ताशुभंमुक्तप्राप्यमपास्तभेदकलनाकैवल्यसंज्ञोऽस्म्यहम् ॥ ८ ॥
स्वाप्नद्वैतवदेव जाग्रतमपि द्वैतं मनोमात्रकंमिथ्येत्येव विहाय सच्चिदमलस्वान्तैकरूपोऽस्म्यहम् ।यद्वा वेद्यमशेषमेतदनिशं मद्रूपमेवेत्यपिज्ञात्वा त्यक्तमरुन्महोदधिरिव प्रौढो गभीरोऽस्म्यहम् ॥
गन्तव्यं किमिहास्ति सर्वपरिपूर्णस्याप्यखण्डाकृतेःकर्तव्यं किमिहास्ति निष्क्रियतनोर्मोक्षैकरूपस्य मे ।निद्वैतस्य न हेयमन्यदपि वा नो वाप्युपेयान्तरंशान्तोऽद्यास्मि विमुक्ततोयविमलो मेघो यथा निर्मलः ॥
किं नः प्राप्तमितः पुरा किमधुना लब्धं विचारादिनायस्मात्तत्सुखरूपमेव सततं जाज्वल्यमानोऽस्म्यहम् ।किं वापेक्ष्यमिहापि मय्यतितरां मिथ्याविचारादिकंद्वैताद्वैतविवर्जिते समरसे मौनं परं संमतम् ॥ ११ ॥
श्रोतव्यं च किमस्ति पूर्णसुदृशो मिथ्यापरोक्षस्य मेमन्तव्यं च न मेऽस्ति किंचिदपि वा निःसंशयज्योतिषः ।ध्यातृध्येयविभेदहानिवपुषो न ध्येयमस्त्येव मेसर्वात्मैकमहारसस्य सततं नो वा समाधिर्मम ॥ १२ ॥
आत्मानात्मविवेचनापि मम नो विद्वत्कृता रोचते-ऽनात्मा नास्ति यदस्ति गोचरवपुः को वा विवेक्तुं क्षमी ।मिथ्यावादविचारचिन्तनमहो कुर्वन्त्यदृष्टात्मकाभ्रान्ता एव न पारगा दृढधियस्तूष्णीं शिलावत्स्थिताः ॥
वस्तुस्थित्यनुरोधतस्त्वहमहो कश्चित्पदार्थो न चा-प्येवं कोऽपि विभामि संततदृशी वाड्यानसागोचरः ।निष्पापोऽस्म्यभयोऽस्म्यहं विगतदुःशङ्काकलङ्कोऽस्म्यहंसंशान्तानुपमानशीतलमहःप्रौढप्रकाशोऽस्म्यहम् ॥ १४ ॥
योऽहं पूर्वमितः प्रशान्तकलनाशुद्धोऽस्मि बुद्धोऽस्म्यहंयस्मान्मत्त इदं समुत्थितमभूदेतन्मया धार्यते ।मय्येव प्रलयं प्रयाति निरधिष्ठानाय तस्मै सदासत्यानन्दचिदात्मकाय विपुलप्रज्ञाय मह्यं नमः ॥ १५ ॥
सत्ताचित्सुखरूपमस्ति सततं नाहं च न त्वं मृषानेदं वापि जगत्प्रदृष्टमखिलं नास्तीति जानीहि भोयत्प्रोक्तं करुणावशात्त्वयि मया तत्सत्यमेतत्स्फुटंश्रद्धत्स्वानघ शुद्धबुद्धिरसि चेन्मात्रास्तु ते संशयः ॥
स्वारस्यैकसुबोधचारुमनसे प्रौढानुभूतिस्त्वियंदातव्या न तु मोहदुग्धकुधिये दुष्टान्तरङ्गाय च ।येयं रम्यविदर्पितोत्तमशिरः प्राप्ता चकास्ति स्वयंसा चेन्मर्कटहस्तदेशपतिता किं राजते केतकी ॥ १७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रौढानुभूतिः संपूर्णा ॥

Settings