निर्वाणषट्कम्

मनोबुद्ध्यहंकारचित्तानि नाहंन कर्णे न जिह्वा न च घ्राणनेत्रे ।न च व्योम भूमिर्न तेजो न वायु-श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १ ॥
न च प्राणसंज्ञो न वै पञ्चवायु-र्न वा सप्तधातुर्न वा पञ्चकोशः ।न वाक्पाणिपादौ न चोपस्थपायूचिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २ ॥
न मे द्वेषरागौ न मे लोभमोहौमदो नैव मे नैव मात्सर्यभावः ।न धर्मो न चार्थो न कामो न मोक्ष-श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ३ ॥
न पुण्यं न पापं न सौख्यं न दुःखंन मन्त्रो न तीर्थं न वेदा न यज्ञाः ।अहं भोजनं नैव भोज्यं न भोक्ताचिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ४ ॥
न मृत्युर्न शङ्का न मे जातिभेदःपिता नैव मे नैव माता च जन्म ।न बन्धुर्न मित्रं गुरुर्नैव शिष्य-श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ५ ॥
अहं निर्विकल्पो निराकाररूपोविभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।न चासंगतं नैव मुक्तिर्न बन्ध-श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ निर्वाणषट्कं संपूर्णम् ॥

Settings