नारायणाथर्वशिरउपनिषत्

मायातत्कार्यमखिलं यद्बोधाद्यात्यपह्नवम् ।त्रिपन्नारायणाख्यं तत्कलये स्वात्ममात्रतः ॥
ॐ सह नाववत्विति शान्तिः ॥
ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ॥ नारायणात्प्राणो जायते मनः सर्वेन्द्रियाणि च ॥ खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ नारायणाद्ब्रह्मा जायते ॥ नारायणाद्रुद्रो जायते ॥ नारायणादिन्द्रो जायते ॥ नारायणात्प्रजापतिः प्रजायते ॥ नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च्छन्दांसि ॥ नारायणादेव समुत्पद्यन्ते ॥ नारायणात्प्रवर्तन्ते ॥ नारायणे प्रलीयन्ते ॥ एतदृग्वेदशिरोऽधीते ॥ १ ॥ अथ नित्यो नारायणः ॥ ब्रह्मा नारायणः ॥ शिवश्च नारायणः ॥ शक्रश्च नारायणः ॥ कालश्च नारायणः ॥ दिशश्च नारायणः ॥ विदिशश्च नारायणः ॥ ऊर्ध्वं च नारायणः ॥ अधश्च नारायणः ॥ अन्तर्बहिश्च नारायणः ॥ नारायण एवेदं सर्वं यद्भूतं यच्च भव्यम् ॥ निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चित् ॥ य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ॥ य एतद्यजुर्वेदशिरोऽधीते ॥ २ ॥ ॐमित्यग्रे व्याहरेत् ॥ नम इति पश्चात् ॥ नारायणायेत्युपरिष्टात् ॥ ॐमित्येकाक्षरम् ॥ नम इति द्वे अक्षरे ॥ नारायणायेति पञ्चाक्षराणि ॥ एतद्वै नारायणस्याष्टाक्षरं पदम् ॥ यो ह वै नारायणस्याष्टाक्षरं पदमध्येति । अनपब्रुवः सर्वमायुरेति ॥ विन्दते प्राजापत्यं रायस्पोषं गौपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति ॥ एतत्सामवेदशिरोऽधीते ॥ ३ ॥ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् ॥ अकार उकारो मकार इति ॥ ता अनेकधा समभवत्तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ॥ ॐ नमो नारायणायेति मंत्रोपासको वैकुण्ठभुवनं गमिष्यति ॥ तदिदं पुण्डरीकं विज्ञानघनं ॥ तस्मात्तडिदाभमात्रम् ॥ ब्रह्मण्यो देवकीपुत्रोब्रह्मण्यो मधुसूदनः ॥ ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युत इति ॥ सर्वभूतस्थमेकं वै नारायणं कारणपुरुषमकारणं परं ब्रह्म ओम् ॥ एतदथर्वशिरो योऽधीते ॥ ४ ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ तत्सायंप्रातरधीयानोऽपापो भवति ॥ मध्यंदिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते ॥ सर्ववेदपारायणपुण्यं लभते ॥ नारायणसायुज्यमवाप्नोति ॥ श्रीमन्नारायणसायुज्यमवाप्नोति य एवं वेद ॥ ५ ॥
ॐ सह नाववत्विति शान्तिः ॥
॥ इति नारायणाथर्वशिरउपनिषत्समाप्ता ॥ १८ ॥

Settings