मीनाक्षीस्तोत्रम्

श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चितेश्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके ।श्रीवाणीगिरिजानुताङ्घ्रिकिमले श्रीशांभवि श्रीशिवेमध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥ १ ॥
चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजितेआर्तालीवरदे नताभयकरे वक्षोजभारान्विते ।विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहेमातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥ २ ॥
कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चितेकोकाकारकुचद्वयोपरिलसत्प्रालम्बहाराञ्चिते ।शिञ्जन्नूपुरपादसारसमणीश्रीपादुकालंकृतेमद्दारिद्र्यभुजंगगारुडखगे मां पाहि मीनाम्बिके ॥ ३ ॥
ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनान्तस्थितेपाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाञ्चिते ।बाले बालकुरङ्गलोलनयने बालार्ककोट्युज्ज्वलेमुद्राराधितदैवते मुनिसुते मां पाहि मीनाम्बिके ॥ ४ ॥
गन्धर्वामरयक्षपन्नगनुते गङ्गाधरालिङ्गितेगायत्रीगरुडासने कमलजे सुश्यामले सुस्थिते ।खातीते खलदारुपावकशिखे खद्योतकोट्युज्ज्वलेमन्त्राराधितदैवते मुनिसुते मां पाहि मीनाम्बिके ॥ ५ ॥
नादे नारदतुम्बुराद्यविनुते नादान्तनादात्मिकेनित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे ।कान्ते कामकले कदम्बनिलये कामेश्वराङ्कस्थितेमद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनाम्बिके ॥ ६ ॥
वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरेताम्बूलारुणपल्लवाधरयुते ताटङ्कहारान्विते ।श्यामे चन्द्रकलावतंसकलिते कस्तूरिकाफालिकेपूर्णे पूर्णकलाभिरामवदने मां पाहि मीनाम्बिके ॥ ७ ॥
शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयीनित्यानन्दमयी निरञ्जनमयी तत्त्वंमयी चिन्मयी ।तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयीसर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिके ॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभग- वत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मीनाक्षीस्तोत्रं संपूर्णम् ॥

Settings