मीनाक्षीपञ्चरत्नम्

उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलांविम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालंकृताम् ।विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवांमीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥
मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभांशिञ्जन्नूपुरकिंकिणीमणिधरां पद्मप्रभाभासुराम् ।सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितांमीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥
श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलांश्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायकीम् ।श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनींमीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥
श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलांश्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकांमीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥
नानायोगिमुनीन्द्रहृन्निवसतीं नानार्थसिद्धिप्रदांनानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकांमीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ ॥ मीनाक्षीपञ्चरत्नं संपूर्णम् ॥

Settings