मनीषापञ्चकम्

जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भतेया ब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी ।सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे-च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितंसर्वं चैतदविद्यया त्रिगुणया शेषं मया कल्पितम् ।इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मलेचाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो-र्नित्यं ब्रह्म निरन्तरं विसृशता निर्व्याजशान्तात्मना ।भूतं भाति च दुष्कृतं प्रदहता संविन्मये पावकेप्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ ३ ॥
या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यतेयद्भासा हृदयाक्षदेहविषया भान्ति स्वतोऽचेतनाः ।तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय-न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ ४ ॥
यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निर्वृतायच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः ।यस्मिन्नित्यसुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मवि-द्यः कश्चित्स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥ ५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छकरभगवतः कृतौ मनीषापञ्चकं संपूर्णम् ॥

Settings