संजय उवाच ।तत्प्रभग्नं बलं दृष्ट्वा मद्रराजः प्रतापवान् ।उवाच सारथिं तूर्णं चोदयाश्वान्महाजवान् ॥ १ ॥
एष तिष्ठति वै राजा पाण्डुपुत्रो युधिष्ठिरः ।छत्रेण ध्रियमाणेन पाण्डुरेण विराजता ॥ २ ॥
अत्र मां प्रापय क्षिप्रं पश्य मे सारथे बलम् ।न समर्था हि मे पार्थाः स्थातुमद्य पुरो युधि ॥ ३ ॥
एवमुक्तस्ततः प्रायान्मद्रराजस्य सारथिः ।यत्र राजा सत्यसंधो धर्मराजो युधिष्ठिरः ॥ ४ ॥
आपतन्तं च सहसा पाण्डवानां महद्बलम् ।दधारैको रणे शल्यो वेलेवोद्धृतमर्णवम् ॥ ५ ॥
पाण्डवानां बलौघस्तु शल्यमासाद्य मारिष ।व्यतिष्ठत तदा युद्धे सिन्धोर्वेग इवाचलम् ॥ ६ ॥
मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम् ।कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनम् ॥ ७ ॥
तेषु राजन्निवृत्तेषु व्यूढानीकेषु भागशः ।प्रावर्तत महारौद्रः संग्रामः शोणितोदकः ।समार्छच्चित्रसेनेन नकुलो युद्धदुर्मदः ॥ ८ ॥
तौ परस्परमासाद्य चित्रकार्मुकधारिणौ ।मेघाविव यथोद्वृत्तौ दक्षिणोत्तरवर्षिणौ ॥ ९ ॥
शरतोयैः सिषिचतुस्तौ परस्परमाहवे ।नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा ॥ १० ॥
उभौ कृतास्त्रौ बलिनौ रथचर्याविशारदौ ।परस्परवधे यत्तौ छिद्रान्वेषणतत्परौ ॥ ११ ॥
चित्रसेनस्तु भल्लेन पीतेन निशितेन च ।नकुलस्य महाराज मुष्टिदेशेऽच्छिनद्धनुः ॥ १२ ॥
अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः ।त्रिभिः शरैरसंभ्रान्तो ललाटे वै समर्पयत् ॥ १३ ॥
हयांश्चास्य शरैस्तीक्ष्णैः प्रेषयामास मृत्यवे ।तथा ध्वजं सारथिं च त्रिभिस्त्रिभिरपातयत् ॥ १४ ॥
स शत्रुभुजनिर्मुक्तैर्ललाटस्थैस्त्रिभिः शरैः ।नकुलः शुशुभे राजंस्त्रिशृङ्ग इव पर्वतः ॥ १५ ॥
स छिन्नधन्वा विरथः खड्गमादाय चर्म च ।रथादवातरद्वीरः शैलाग्रादिव केसरी ॥ १६ ॥
पद्भ्यामापततस्तस्य शरवृष्टिमवासृजत् ।नकुलोऽप्यग्रसत्तां वै चर्मणा लघुविक्रमः ॥ १७ ॥
चित्रसेनरथं प्राप्य चित्रयोधी जितश्रमः ।आरुरोह महाबाहुः सर्वसैन्यस्य पश्यतः ॥ १८ ॥
सकुण्डलं समुकुटं सुनसं स्वायतेक्षणम् ।चित्रसेनशिरः कायादपाहरत पाण्डवः ।स पपात रथोपस्थाद्दिवाकरसमप्रभः ॥ १९ ॥
चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः ।साधुवादस्वनांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥ २० ॥
विशस्तं भ्रातरं दृष्ट्वा कर्णपुत्रौ महारथौ ।सुषेणः सत्यसेनश्च मुञ्चन्तौ निशिताञ्शरान् ॥ २१ ॥
ततोऽभ्यधावतां तूर्णं पाण्डवं रथिनां वरम् ।जिघांसन्तौ यथा नागं व्याघ्रौ राजन्महावने ॥ २२ ॥
तावभ्यधावतां तीक्ष्णौ द्वावप्येनं महारथम् ।शरौघान्सम्यगस्यन्तौ जीमूतौ सलिलं यथा ॥ २३ ॥
स शरैः सर्वतो विद्धः प्रहृष्ट इव पाण्डवः ।अन्यत्कार्मुकमादाय रथमारुह्य वीर्यवान् ।अतिष्ठत रणे वीरः क्रुद्धरूप इवान्तकः ॥ २४ ॥
तस्य तौ भ्रातरौ राजञ्शरैः संनतपर्वभिः ।रथं विशकलीकर्तुं समारब्धौ विशां पते ॥ २५ ॥
ततः प्रहस्य नकुलश्चतुर्भिश्चतुरो रणे ।जघान निशितैस्तीक्ष्णैः सत्यसेनस्य वाजिनः ॥ २६ ॥
ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम् ।धनुश्चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः ॥ २७ ॥
अथान्यं रथमास्थाय धनुरादाय चापरम् ।सत्यसेनः सुषेणश्च पाण्डवं पर्यधावताम् ॥ २८ ॥
अविध्यत्तावसंभ्रान्तौ माद्रीपुत्रः प्रतापवान् ।द्वाभ्यां द्वाभ्यां महाराज शराभ्यां रणमूर्धनि ॥ २९ ॥
सुषेणस्तु ततः क्रुद्धः पाण्डवस्य महद्धनुः ।चिच्छेद प्रहसन्युद्धे क्षुरप्रेण महारथः ॥ ३० ॥
अथान्यद्धनुरादाय नकुलः क्रोधमूर्छितः ।सुषेणं पञ्चभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥ ३१ ॥
सत्यसेनस्य च धनुर्हस्तावापं च मारिष ।चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर्जनाः ॥ ३२ ॥
अथान्यद्धनुरादाय वेगघ्नं भारसाधनम् ।शरैः संछादयामास समन्तात्पाण्डुनन्दनम् ॥ ३३ ॥
संनिवार्य तु तान्बाणान्नकुलः परवीरहा ।सत्यसेनं सुषेणं च द्वाभ्यां द्वाभ्यामविध्यत ॥ ३४ ॥
तावेनं प्रत्यविध्येतां पृथक्पृथगजिह्मगैः ।सारथिं चास्य राजेन्द्र शरैर्विव्यधतुः शितैः ॥ ३५ ॥
सत्यसेनो रथेषां तु नकुलस्य धनुस्तथा ।पृथक्शराभ्यां चिच्छेद कृतहस्तः प्रतापवान् ॥ ३६ ॥
स रथेऽतिरथस्तिष्ठन्रथशक्तिं परामृशत् ।स्वर्णदण्डामकुण्ठाग्रां तैलधौतां सुनिर्मलाम् ॥ ३७ ॥
लेलिहानामिव विभो नागकन्यां महाविषाम् ।समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे ॥ ३८ ॥
सा तस्य हृदयं संख्ये बिभेद शतधा नृप ।स पपात रथाद्भूमौ गतसत्त्वोऽल्पचेतनः ॥ ३९ ॥
भ्रातरं निहतं दृष्ट्वा सुषेणः क्रोधमूर्छितः ।अभ्यवर्षच्छरैस्तूर्णं पदातिं पाण्डुनन्दनम् ॥ ४० ॥
नकुलं विरथं दृष्ट्वा द्रौपदेयो महाबलः ।सुतसोमोऽभिदुद्राव परीप्सन्पितरं रणे ॥ ४१ ॥
ततोऽधिरुह्य नकुलः सुतसोमस्य तं रथम् ।शुशुभे भरतश्रेष्ठो गिरिस्थ इव केसरी ।सोऽन्यत्कार्मुकमादाय सुषेणं समयोधयत् ॥ ४२ ॥
तावुभौ शरवर्षाभ्यां समासाद्य परस्परम् ।परस्परवधे यत्नं चक्रतुः सुमहारथौ ॥ ४३ ॥
सुषेणस्तु ततः क्रुद्धः पाण्डवं विशिखैस्त्रिभिः ।सुतसोमं च विंशत्या बाह्वोरुरसि चार्पयत् ॥ ४४ ॥
ततः क्रुद्धो महाराज नकुलः परवीरहा ।शरैस्तस्य दिशः सर्वाश्छादयामास वीर्यवान् ॥ ४५ ॥
ततो गृहीत्वा तीक्ष्णाग्रमर्धचन्द्रं सुतेजनम् ।स वेगयुक्तं चिक्षेप कर्णपुत्रस्य संयुगे ॥ ४६ ॥
तस्य तेन शिरः कायाज्जहार नृपसत्तम ।पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥ ४७ ॥
स हतः प्रापतद्राजन्नकुलेन महात्मना ।नदीवेगादिवारुग्णस्तीरजः पादपो महान् ॥ ४८ ॥
कर्णपुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम् ।प्रदुद्राव भयात्सेना तावकी भरतर्षभ ॥ ४९ ॥
तां तु सेनां महाराज मद्रराजः प्रतापवान् ।अपालयद्रणे शूरः सेनापतिररिंदमः ॥ ५० ॥
विभीस्तस्थौ महाराज व्यवस्थाप्य च वाहिनीम् ।सिंहनादं भृशं कृत्वा धनुःशब्दं च दारुणम् ॥ ५१ ॥
तावकाः समरे राजन्रक्षिता दृढधन्वना ।प्रत्युद्ययुररातींस्ते समन्ताद्विगतव्यथाः ॥ ५२ ॥
मद्रराजं महेष्वासं परिवार्य समन्ततः ।स्थिता राजन्महासेना योद्धुकामाः समन्ततः ॥ ५३ ॥
सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।युधिष्ठिरं पुरस्कृत्य ह्रीनिषेधमरिंदमम् ॥ ५४ ॥
परिवार्य रणे वीराः सिंहनादं प्रचक्रिरे ।बाणशब्दरवांश्चोग्रान्क्ष्वेडांश्च विविधान्दधुः ॥ ५५ ॥
तथैव तावकाः सर्वे मद्राधिपतिमञ्जसा ।परिवार्य सुसंरब्धाः पुनर्युद्धमरोचयन् ॥ ५६ ॥
ततः प्रववृते युद्धं भीरूणां भयवर्धनम् ।तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् ॥ ५७ ॥
यथा देवासुरं युद्धं पूर्वमासीद्विशां पते ।अभीतानां तथा राजन्यमराष्ट्रविवर्धनम् ॥ ५८ ॥
ततः कपिध्वजो राजन्हत्वा संशप्तकान्रणे ।अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः ॥ ५९ ॥
तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरोगमाः ।अभ्यधावन्त तां सेनां विसृजन्तः शिताञ्शरान् ॥ ६० ॥
पाण्डवैरवकीर्णानां संमोहः समजायत ।न च जज्ञुरनीकानि दिशो वा प्रदिशस्तथा ॥ ६१ ॥
आपूर्यमाणा निशितैः शरैः पाण्डवचोदितैः ।हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः ।कौरव्यवध्यत चमूः पाण्डुपुत्रैर्महारथैः ॥ ६२ ॥
तथैव पाण्डवी सेना शरै राजन्समन्ततः ।रणेऽहन्यत पुत्रैस्ते शतशोऽथ सहस्रशः ॥ ६३ ॥
ते सेने भृशसंतप्ते वध्यमाने परस्परम् ।व्याकुले समपद्येतां वर्षासु सरिताविव ॥ ६४ ॥
आविवेश ततस्तीव्रं तावकानां महद्भयम् ।पाण्डवानां च राजेन्द्र तथाभूते महाहवे ॥ ६५ ॥