Click on words to see what they mean.

संजय उवाच ।व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा ।अब्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः ॥ १ ॥
राज्ञस्तु मतमाज्ञाय समनह्यत सा चमूः ।अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे ॥ २ ॥
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः ।हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः ॥ ३ ॥
वादित्राणां च निनदः प्रादुरासीद्विशां पते ।बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम् ॥ ४ ॥
ततो बलानि सर्वाणि सेनाशिष्टानि भारत ।संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम् ॥ ५ ॥
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः ।प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः ॥ ६ ॥
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः ।कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः ॥ ७ ॥
अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा ।न न एकेन योद्धव्यं कथंचिदपि पाण्डवैः ॥ ८ ॥
यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् ।स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः ।अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः ॥ ९ ॥
एवं ते समयं कृत्वा सर्वे तत्र महारथाः ।मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान् ॥ १० ॥
तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे ।अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः ॥ ११ ॥
तद्बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम् ।समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम् ॥ १२ ॥
धृतराष्ट्र उवाच ।द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम् ।पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ॥ १३ ॥
कथं रणे हतः शल्यो धर्मराजेन संजय ।भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ॥ १४ ॥
संजय उवाच ।क्षयं मनुष्यदेहानां रथनागाश्वसंक्षयम् ।शृणु राजन्स्थिरो भूत्वा संग्रामं शंसतो मम ॥ १५ ॥
आशा बलवती राजन्पुत्राणां तेऽभवत्तदा ।हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते ।शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ॥ १६ ॥
तामाशां हृदये कृत्वा समाश्वास्य च भारत ।मद्रराजं च समरे समाश्रित्य महारथम् ।नाथवन्तमथात्मानममन्यत सुतस्तव ॥ १७ ॥
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे ।तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम् ॥ १८ ॥
तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् ।व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् ॥ १९ ॥
प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान् ।विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् ॥ २० ॥
रथप्रवरमास्थाय सैन्धवाश्वं महारथः ।तस्य सीता महाराज रथस्थाशोभयद्रथम् ॥ २१ ॥
स तेन संवृतो वीरो रथेनामित्रकर्शनः ।तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ॥ २२ ॥
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः ।मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः ॥ २३ ॥
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः ।गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह ॥ २४ ॥
अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः ।दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुंगवैः ॥ २५ ॥
हयानीकेन महता सौबलश्चापि संवृतः ।प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ॥ २६ ॥
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिंदमाः ।त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन् ॥ २७ ॥
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः ।शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे ॥ २८ ॥
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः ।शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ ॥ २९ ॥
हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा ।संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे ॥ ३० ॥
गौतमं भीमसेनो वै सोमकाश्च महारथाः ।अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि ॥ ३१ ॥
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथौ ।ससैन्यौ सहसेनौ तावुपतस्थतुराहवे ॥ ३२ ॥
तथैवायुतशो योधास्तावकाः पाण्डवान्रणे ।अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः ॥ ३३ ॥
धृतराष्ट्र उवाच ।हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे ।कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे ॥ ३४ ॥
सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय ।मामकानां परेषां च किं शिष्टमभवद्बलम् ॥ ३५ ॥
संजय उवाच ।यथा वयं परे राजन्युद्धाय समवस्थिताः ।यावच्चासीद्बलं शिष्टं संग्रामे तन्निबोध मे ॥ ३६ ॥
एकादश सहस्राणि रथानां भरतर्षभ ।दश दन्तिसहस्राणि सप्त चैव शतानि च ॥ ३७ ॥
पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ ।नरकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् ॥ ३८ ॥
रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः ।दश चाश्वसहस्राणि पत्तिकोटी च भारत ॥ ३९ ॥
एतद्बलं पाण्डवानामभवच्छेषमाहवे ।एत एव समाजग्मुर्युद्धाय भरतर्षभ ॥ ४० ॥
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः ।पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः ॥ ४१ ॥
तथैव पाण्डवाः शूराः समरे जितकाशिनः ।उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ॥ ४२ ॥
एवमेते बलौघेन परस्परवधैषिणः ।उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो ॥ ४३ ॥
ततः प्रववृते युद्धं घोररूपं भयानकम् ।तावकानां परेषां च निघ्नतामितरेतरम् ॥ ४४ ॥
« »