वैशंपायन उवाच ।ततो विनशनं राजन्नाजगाम हलायुधः ।शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती ॥ १ ॥
यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती ।तस्मात्तदृषयो नित्यं प्राहुर्विनशनेति ह ॥ २ ॥
तच्चाप्युपस्पृश्य बलः सरस्वत्यां महाबलः ।सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे ॥ ३ ॥
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः ।क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः ॥ ४ ॥
तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर ।अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम् ॥ ५ ॥
तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः ।समेत्य सहिता राजन्यथाप्राप्तं यथासुखम् ॥ ६ ॥
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः ।पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः ॥ ७ ॥
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा ।सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे ॥ ८ ॥
तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः ।श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम् ॥ ९ ॥
छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् ।गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः ॥ १० ॥
विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः ।नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम् ॥ ११ ॥
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु ।अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा ॥ १२ ॥
भोजयित्वा द्विजान्कामैः संतर्प्य च महाधनैः ।प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः ॥ १३ ॥
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिंदमः ।गर्गस्रोतो महातीर्थमाजगामैककुण्डली ॥ १४ ॥
यत्र गर्गेण वृद्धेन तपसा भावितात्मना ।कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः ॥ १५ ॥
उत्पाता दारुणाश्चैव शुभाश्च जनमेजय ।सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना ।तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम् ॥ १६ ॥
तत्र गर्गं महाभागमृषयः सुव्रता नृप ।उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो ॥ १७ ॥
तत्र गत्वा महाराज बलः श्वेतानुलेपनः ।विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम् ॥ १८ ॥
उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय सः ।नीलवासास्ततोऽगच्छच्छङ्खतीर्थं महायशाः ॥ १९ ॥
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् ।श्वेतपर्वतसंकाशमृषिसंघैर्निषेवितम् ।सरस्वत्यास्तटे जातं नगं तालध्वजो बली ॥ २० ॥
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः ।पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः ॥ २१ ॥
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः ।व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते ॥ २२ ॥
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् ।अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ ॥ २३ ॥
एवं ख्यातो नरपते लोकेऽस्मिन्स वनस्पतिः ।तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम् ॥ २४ ॥
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम् ।ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च ॥ २५ ॥
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः ।पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः ॥ २६ ॥
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः ।आप्लुत्य सलिले चापि पूजयामास वै द्विजान् ॥ २७ ॥
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् ।ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम् ॥ २८ ॥
गत्वा चैव महाबाहुर्नातिदूरं महायशाः ।धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः ॥ २९ ॥
यत्र पन्नगराजस्य वासुकेः संनिवेशनम् ।महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् ।यत्रासन्नृषयः सिद्धाः सहस्राणि चतुर्दश ॥ ३० ॥
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् ।सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि ।पन्नगेभ्यो भयं तत्र विद्यते न स्म कौरव ॥ ३१ ॥
तत्रापि विधिवद्दत्त्वा विप्रेभ्यो रत्नसंचयान् ।प्रायात्प्राचीं दिशं राजन्दीप्यमानः स्वतेजसा ॥ ३२ ॥
आप्लुत्य बहुशो हृष्टस्तेषु तीर्थेषु लाङ्गली ।दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः ॥ ३३ ॥
तत्रस्थानृषिसंघांस्तानभिवाद्य हलायुधः ।ततो रामोऽगमत्तीर्थमृषिभिः सेवितं महत् ॥ ३४ ॥
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती ।ऋषीणां नैमिषेयाणामवेक्षार्थं महात्मनाम् ॥ ३५ ॥
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली ।बभूव विस्मितो राजन्बलः श्वेतानुलेपनः ॥ ३६ ॥
जनमेजय उवाच ।कस्मात्सरस्वती ब्रह्मन्निवृत्ता प्राङ्मुखी ततः ।व्याख्यातुमेतदिच्छामि सर्वमध्वर्युसत्तम ॥ ३७ ॥
कस्मिंश्च कारणे तत्र विस्मितो यदुनन्दनः ।विनिवृत्ता सरिच्छ्रेष्ठा कथमेतद्द्विजोत्तम ॥ ३८ ॥
वैशंपायन उवाच ।पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः ।वर्तमाने सुबहुले सत्रे द्वादशवार्षिके ।ऋषयो बहवो राजंस्तत्र संप्रतिपेदिरे ॥ ३९ ॥
उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि ।निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके ।आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात् ॥ ४० ॥
ऋषीणां बहुलत्वात्तु सरस्वत्या विशां पते ।तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा ॥ ४१ ॥
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः ।तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः ॥ ४२ ॥
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् ।स्वाध्यायेनापि महता बभूवुः पूरिता दिशः ॥ ४३ ॥
अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् ।अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः ॥ ४४ ॥
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः ।दन्तोलूखलिनश्चान्ये संप्रक्षालास्तथापरे ॥ ४५ ॥
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः ।नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः ॥ ४६ ॥
आसन्वै मुनयस्तत्र सरस्वत्याः समीपतः ।शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः ॥ ४७ ॥
ततः पश्चात्समापेतुरृषयः सत्रयाजिनः ।तेऽवकाशं न ददृशुः कुरुक्षेत्रे महाव्रताः ॥ ४८ ॥
ततो यज्ञोपवीतैस्ते तत्तीर्थं निर्मिमाय वै ।जुहुवुश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः ॥ ४९ ॥
ततस्तमृषिसंघातं निराशं चिन्तयान्वितम् ।दर्शयामास राजेन्द्र तेषामर्थे सरस्वती ॥ ५० ॥
ततः कुञ्जान्बहून्कृत्वा संनिवृत्ता सरिद्वरा ।ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय ॥ ५१ ॥
ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती ।भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा ॥ ५२ ॥
अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम् ।इत्यद्भुतं महच्चक्रे ततो राजन्महानदी ॥ ५३ ॥
एवं स कुञ्जो राजेन्द्र नैमिषेय इति स्मृतः ।कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः ॥ ५४ ॥
तत्र कुञ्जान्बहून्दृष्ट्वा संनिवृत्तां च तां नदीम् ।बभूव विस्मयस्तत्र रामस्याथ महात्मनः ॥ ५५ ॥
उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः ।दत्त्वा दायान्द्विजातिभ्यो भाण्डानि विविधानि च ।भक्ष्यं पेयं च विविधं ब्राह्मणान्प्रत्यपादयत् ॥ ५६ ॥
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः ।सरस्वतीतीर्थवरं नानाद्विजगणायुतम् ॥ ५७ ॥
बदरेङ्गुदकाश्मर्यप्लक्षाश्वत्थविभीतकैः ।पनसैश्च पलाशैश्च करीरैः पीलुभिस्तथा ॥ ५८ ॥
सरस्वतीतीररुहैर्बन्धनैः स्यन्दनैस्तथा ।परूषकवनैश्चैव बिल्वैराम्रातकैस्तथा ॥ ५९ ॥
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् ।कदलीवनभूयिष्ठमिष्टं कान्तं मनोरमम् ॥ ६० ॥
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि ।तथाश्मकुट्टैर्वानेयैर्मुनिभिर्बहुभिर्वृतम् ॥ ६१ ॥
स्वाध्यायघोषसंघुष्टं मृगयूथशताकुलम् ।अहिंस्रैर्धर्मपरमैर्नृभिरत्यन्तसेवितम् ॥ ६२ ॥
सप्तसारस्वतं तीर्थमाजगाम हलायुधः ।यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः ॥ ६३ ॥