Click on words to see what they mean.

संजय उवाच ।ततः क्रुद्धा महाराज सौबलस्य पदानुगाः ।त्यक्त्वा जीवितमाक्रन्दे पाण्डवान्पर्यवारयन् ॥ १ ॥
तानर्जुनः प्रत्यगृह्णात्सहदेवजये धृतः ।भीमसेनश्च तेजस्वी क्रुद्धाशीविषदर्शनः ॥ २ ॥
शक्त्यृष्टिप्रासहस्तानां सहदेवं जिघांसताम् ।संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः ॥ ३ ॥
प्रगृहीतायुधान्बाहून्योधानामभिधावताम् ।भल्लैश्चिच्छेद बीभत्सुः शिरांस्यपि हयानपि ॥ ४ ॥
ते हताः प्रत्यपद्यन्त वसुधां विगतासवः ।त्वरिता लोकवीरेण प्रहताः सव्यसाचिना ॥ ५ ॥
ततो दुर्योधनो राजा दृष्ट्वा स्वबलसंक्षयम् ।हतशेषान्समानीय क्रुद्धो रथशतान्विभो ॥ ६ ॥
कुञ्जरांश्च हयांश्चैव पादातांश्च परंतप ।उवाच सहितान्सर्वान्धार्तराष्ट्र इदं वचः ॥ ७ ॥
समासाद्य रणे सर्वान्पाण्डवान्ससुहृद्गणान् ।पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत ॥ ८ ॥
तस्य ते शिरसा गृह्य वचनं युद्धदुर्मदाः ।प्रत्युद्ययू रणे पार्थांस्तव पुत्रस्य शासनात् ॥ ९ ॥
तानभ्यापततः शीघ्रं हतशेषान्महारणे ।शरैराशीविषाकारैः पाण्डवाः समवाकिरन् ॥ १० ॥
तत्सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः ।अवध्यत रणं प्राप्य त्रातारं नाभ्यविन्दत ।प्रतिष्ठमानं तु भयान्नावतिष्ठत दंशितम् ॥ ११ ॥
अश्वैर्विपरिधावद्भिः सैन्येन रजसा वृते ।न प्राज्ञायन्त समरे दिशश्च प्रदिशस्तथा ॥ १२ ॥
ततस्तु पाण्डवानीकान्निःसृत्य बहवो जनाः ।अभ्यघ्नंस्तावकान्युद्धे मुहूर्तादिव भारत ।ततो निःशेषमभवत्तत्सैन्यं तव भारत ॥ १३ ॥
अक्षौहिण्यः समेतास्तु तव पुत्रस्य भारत ।एकादश हता युद्धे ताः प्रभो पाण्डुसृञ्जयैः ॥ १४ ॥
तेषु राजसहस्रेषु तावकेषु महात्मसु ।एको दुर्योधनो राजन्नदृश्यत भृशं क्षतः ॥ १५ ॥
ततो वीक्ष्य दिशः सर्वा दृष्ट्वा शून्यां च मेदिनीम् ।विहीनः सर्वयोधैश्च पाण्डवान्वीक्ष्य संयुगे ॥ १६ ॥
मुदितान्सर्वसिद्धार्थान्नर्दमानान्समन्ततः ।बाणशब्दरवांश्चैव श्रुत्वा तेषां महात्मनाम् ॥ १७ ॥
दुर्योधनो महाराज कश्मलेनाभिसंवृतः ।अपयाने मनश्चक्रे विहीनबलवाहनः ॥ १८ ॥
धृतराष्ट्र उवाच ।निहते मामके सैन्ये निःशेषे शिबिरे कृते ।पाण्डवानां बलं सूत किं नु शेषमभूत्तदा ।एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि संजय ॥ १९ ॥
यच्च दुर्योधनो मन्दः कृतवांस्तनयो मम ।बलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः ॥ २० ॥
संजय उवाच ।रथानां द्वे सहस्रे तु सप्त नागशतानि च ।पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः ॥ २१ ॥
एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् ।परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः ॥ २२ ॥
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः ।नापश्यत्समरे कंचित्सहायं रथिनां वरः ॥ २३ ॥
नर्दमानान्परांश्चैव स्वबलस्य च संक्षयम् ।हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥ २४ ॥
एकादशचमूभर्ता पुत्रो दुर्योधनस्तव ।गदामादाय तेजस्वी पदातिः प्रस्थितो ह्रदम् ॥ २५ ॥
नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः ।सस्मार वचनं क्षत्तुर्धर्मशीलस्य धीमतः ॥ २६ ॥
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ।महद्वैशसमस्माकं क्षत्रियाणां च संयुगे ॥ २७ ॥
एवं विचिन्तयानस्तु प्रविविक्षुर्ह्रदं नृपः ।दुःखसंतप्तहृदयो दृष्ट्वा राजन्बलक्षयम् ॥ २८ ॥
पाण्डवाश्च महाराज धृष्टद्युम्नपुरोगमाः ।अभ्यधावन्त संक्रुद्धास्तव राजन्बलं प्रति ॥ २९ ॥
शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् ।संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः ॥ ३० ॥
तान्हत्वा निशितैर्बाणैः सामात्यान्सह बन्धुभिः ।रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत ॥ ३१ ॥
सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे ।महावनमिव छिन्नमभवत्तावकं बलम् ॥ ३२ ॥
अनेकशतसाहस्रे बले दुर्योधनस्य ह ।नान्यो महारथो राजञ्जीवमानो व्यदृश्यत ॥ ३३ ॥
द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः ।कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् ॥ ३४ ॥
धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् ।किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता ॥ ३५ ॥
धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः ।उद्यम्य निशितं खड्गं हन्तुं मामुद्यतस्तदा ॥ ३६ ॥
तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ।मुच्यतां संजयो जीवन्न हन्तव्यः कथंचन ॥ ३७ ॥
द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः ।ततो मामब्रवीन्मुक्त्वा स्वस्ति संजय साधय ॥ ३८ ॥
अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः ।प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः ॥ ३९ ॥
क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् ।एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् ॥ ४० ॥
स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् ।उपप्रैक्षत मां दृष्ट्वा तदा दीनमवस्थितम् ॥ ४१ ॥
तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे ।मुहूर्तं नाशकं वक्तुं किंचिद्दुःखपरिप्लुतः ॥ ४२ ॥
ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा ।द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे ॥ ४३ ॥
मुहूर्तमिव च ध्यात्वा प्रतिलभ्य च चेतनाम् ।भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः ॥ ४४ ॥
तस्मै तदहमाचक्षं सर्वं प्रत्यक्षदर्शिवान् ।भ्रातॄंश्च निहतान्सर्वान्सैन्यं च विनिपातितम् ॥ ४५ ॥
त्रयः किल रथाः शिष्टास्तावकानां नराधिप ।इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् ॥ ४६ ॥
स दीर्घमिव निःश्वस्य विप्रेक्ष्य च पुनः पुनः ।अंसे मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत ॥ ४७ ॥
त्वदन्यो नेह संग्रामे कश्चिज्जीवति संजय ।द्वितीयं नेह पश्यामि ससहायाश्च पाण्डवाः ॥ ४८ ॥
ब्रूयाः संजय राजानं प्रज्ञाचक्षुषमीश्वरम् ।दुर्योधनस्तव सुतः प्रविष्टो ह्रदमित्युत ॥ ४९ ॥
सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च ।पाण्डवैश्च हृते राज्ये को नु जीवति मादृशः ॥ ५० ॥
आचक्षेथाः सर्वमिदं मां च मुक्तं महाहवात् ।अस्मिंस्तोयह्रदे सुप्तं जीवन्तं भृशविक्षतम् ॥ ५१ ॥
एवमुक्त्वा महाराज प्राविशत्तं ह्रदं नृपः ।अस्तम्भयत तोयं च मायया मनुजाधिपः ॥ ५२ ॥
तस्मिन्ह्रदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् ।अपश्यं सहितानेकस्तं देशं समुपेयुषः ॥ ५३ ॥
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् ।भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् ॥ ५४ ॥
ते सर्वे मामभिप्रेक्ष्य तूर्णमश्वानचोदयन् ।उपयाय च मामूचुर्दिष्ट्या जीवसि संजय ॥ ५५ ॥
अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् ।कच्चिद्दुर्योधनो राजा स नो जीवति संजय ॥ ५६ ॥
आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् ।तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् ।ह्रदं चैवाहमाचष्ट यं प्रविष्टो नराधिपः ॥ ५७ ॥
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम ।तं ह्रदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् ॥ ५८ ॥
अहो धिङ्न स जानाति जीवतोऽस्मान्नराधिपः ।पर्याप्ता हि वयं तेन सह योधयितुं परान् ॥ ५९ ॥
ते तु तत्र चिरं कालं विलप्य च महारथाः ।प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे ॥ ६० ॥
ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् ।सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः ॥ ६१ ॥
तत्र गुल्माः परित्रस्ताः सूर्ये चास्तमिते सति ।सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम् ॥ ६२ ॥
ततो वृद्धा महाराज योषितां रक्षणो नराः ।राजदारानुपादाय प्रययुर्नगरं प्रति ॥ ६३ ॥
तत्र विक्रोशतीनां च रुदतीनां च सर्वशः ।प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसंक्षयम् ॥ ६४ ॥
ततस्ता योषितो राजन्क्रन्दन्त्यो वै मुहुर्मुहुः ।कुरर्य इव शब्देन नादयन्त्यो महीतलम् ॥ ६५ ॥
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत ।लुलुवुश्च तदा केशान्क्रोशन्त्यस्तत्र तत्र ह ॥ ६६ ॥
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च ।क्रोशन्त्यस्तत्र रुरुदुः क्रन्दमाना विशां पते ॥ ६७ ॥
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः ।राजदारानुपादाय प्रययुर्नगरं प्रति ॥ ६८ ॥
वेत्रजर्झरहस्ताश्च द्वाराध्यक्षा विशां पते ।शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च ।समादाय ययुस्तूर्णं नगरं दाररक्षिणः ॥ ६९ ॥
आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे जनाः ।स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति ॥ ७० ॥
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु ।ददृशुस्ता महाराज जना यान्तीः पुरं प्रति ॥ ७१ ॥
ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः ।प्रययुर्नगरं तूर्णं हतस्वजनबान्धवाः ॥ ७२ ॥
आ गोपालाविपालेभ्यो द्रवन्तो नगरं प्रति ।ययुर्मनुष्याः संभ्रान्ता भीमसेनभयार्दिताः ॥ ७३ ॥
अपि चैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् ।प्रेक्षमाणास्तदान्योन्यमाधावन्नगरं प्रति ॥ ७४ ॥
तस्मिंस्तदा वर्तमाने विद्रवे भृशदारुणे ।युयुत्सुः शोकसंमूढः प्राप्तकालमचिन्तयत् ॥ ७५ ॥
जितो दुर्योधनः संख्ये पाण्डवैर्भीमविक्रमैः ।एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः ।हताश्च कुरवः सर्वे भीष्मद्रोणपुरःसराः ॥ ७६ ॥
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया ।विद्रुतानि च सर्वाणि शिबिराणि समन्ततः ॥ ७७ ॥
दुर्योधनस्य सचिवा ये केचिदवशेषिताः ।राजदारानुपादाय व्यधावन्नगरं प्रति ॥ ७८ ॥
प्राप्तकालमहं मन्ये प्रवेशं तैः सहाभिभो ।युधिष्ठिरमनुज्ञाप्य भीमसेनं तथैव च ॥ ७९ ॥
एतमर्थं महाबाहुरुभयोः स न्यवेदयत् ।तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता ।परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् ॥ ८० ॥
ततः स रथमास्थाय द्रुतमश्वानचोदयत् ।असंभावितवांश्चापि राजदारान्पुरं प्रति ॥ ८१ ॥
तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे ।प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः ॥ ८२ ॥
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् ।राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् ॥ ८३ ॥
तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् ।अस्मिन्कुरुक्षये वृत्ते दिष्ट्या त्वं पुत्र जीवसि ॥ ८४ ॥
विना राज्ञः प्रवेशाद्वै किमसि त्वमिहागतः ।एतन्मे कारणं सर्वं विस्तरेण निवेदय ॥ ८५ ॥
युयुत्सुरुवाच ।निहते शकुनौ तात सज्ञातिसुतबान्धवे ।हतशेषपरीवारो राजा दुर्योधनस्ततः ।स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥ ८६ ॥
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् ।भयव्याकुलितं सर्वं प्राद्रवन्नगरं प्रति ॥ ८७ ॥
ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वशः ।वाहनेषु समारोप्य स्त्र्यध्यक्षाः प्राद्रवन्भयात् ॥ ८८ ॥
ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् ।प्रविष्टो हास्तिनपुरं रक्षँल्लोकाद्धि वाच्यताम् ॥ ८९ ॥
एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् ।प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् ।अपूजयदमेयात्मा युयुत्सुं वाक्यकोविदम् ॥ ९० ॥
प्राप्तकालमिदं सर्वं भवतो भरतक्षये ।अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् ॥ ९१ ॥
एतावदुक्त्वा वचनं विदुरः सर्वधर्मवित् ।युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् ।युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा ॥ ९२ ॥
« »