Click on words to see what they mean.

संजय उवाच ।अथ त्विदानीं तुमुले विमर्दे द्विषद्भिरेको बहुभिः समावृतः ।महाभये सारथिमित्युवाच भीमश्चमूं वारयन्धार्तराष्ट्रीम् ।त्वं सारथे याहि जवेन वाहैर्नयाम्येतान्धार्तराष्ट्रान्यमाय ॥ १ ॥
संचोदितो भीमसेनेन चैवं स सारथिः पुत्रबलं त्वदीयम् ।प्रायात्ततः सारथिरुग्रवेगो यतो भीमस्तद्बलं गन्तुमैच्छत् ॥ २ ॥
ततोऽपरे नागरथाश्वपत्तिभिः प्रत्युद्ययुः कुरवस्तं समन्तात् ।भीमस्य वाहाग्र्यमुदारवेगं समन्ततो बाणगणैर्निजघ्नुः ॥ ३ ॥
ततः शरानापततो महात्मा चिच्छेद बाणैस्तपनीयपुङ्खैः ।ते वै निपेतुस्तपनीयपुङ्खा द्विधा त्रिधा भीमशरैर्निकृत्ताः ॥ ४ ॥
ततो राजन्नागरथाश्वयूनां भीमाहतानां तव राजमध्ये ।घोरो निनादः प्रबभौ नरेन्द्र वज्राहतानामिव पर्वतानाम् ॥ ५ ॥
ते वध्यमानाश्च नरेन्द्रमुख्या निर्भिन्ना वै भीमसेनप्रवेकैः ।भीमं समन्तात्समरेऽध्यरोहन्वृक्षं शकुन्ता इव पुष्पहेतोः ॥ ६ ॥
ततोऽभिपातं तव सैन्यमध्ये प्रादुश्चक्रे वेगमिवात्तवेगः ।यथान्तकाले क्षपयन्दिधक्षुर्भूतान्तकृत्काल इवात्तदण्डः ॥ ७ ॥
तस्यातिवेगस्य रणेऽतिवेगं नाशक्नुवन्धारयितुं त्वदीयाः ।व्यात्ताननस्यापततो यथैव कालस्य काले हरतः प्रजा वै ॥ ८ ॥
ततो बलं भारत भारतानां प्रदह्यमानं समरे महात्मन् ।भीतं दिशोऽकीर्यत भीमनुन्नं महानिलेनाभ्रगणो यथैव ॥ ९ ॥
ततो धीमान्सारथिमब्रवीद्बली स भीमसेनः पुनरेव हृष्टः ।सूताभिजानीहि परान्स्वकान्वा रथान्ध्वजांश्चापततः समेतान् ।युध्यन्नहं नाभिजानामि किंचिन्मा सैन्यं स्वं छादयिष्ये पृषत्कैः ॥ १० ॥
अरीन्विशोकाभिनिरीक्ष्य सर्वतो मनस्तु चिन्ता प्रदुनोति मे भृशम् ।राजातुरो नागमद्यत्किरीटी बहूनि दुःखान्यभिजातोऽस्मि सूत ॥ ११ ॥
एतद्दुःखं सारथे धर्मराजो यन्मां हित्वा यातवाञ्शत्रुमध्ये ।नैनं जीवन्नापि जानाम्यजीवन्बीभत्सुं वा तन्ममाद्यातिदुःखम् ॥ १२ ॥
सोऽहं द्विषत्सैन्यमुदग्रकल्पं विनाशयिष्ये परमप्रतीतः ।एतान्निहत्याजिमध्ये समेतान्प्रीतो भविष्यामि सह त्वयाद्य ॥ १३ ॥
सर्वांस्तूणीरान्मार्गणान्वान्ववेक्ष्य किं शिष्टं स्यात्सायकानां रथे मे ।का वा जातिः किं प्रमाणं च तेषां ज्ञात्वा व्यक्तं तन्ममाचक्ष्व सूत ॥ १४ ॥
विशोक उवाच ।षण्मार्गणानामयुतानि वीर क्षुराश्च भल्लाश्च तथायुताख्याः ।नाराचानां द्वे सहस्रे तु वीर त्रीण्येव च प्रदराणां च पार्थ ॥ १५ ॥
अस्त्यायुधं पाण्डवेयावशिष्टं न यद्वहेच्छकटं षड्गवीयम् ।एतद्विद्वन्मुञ्च सहस्रशोऽपि गदासिबाहुद्रविणं च तेऽस्ति ॥ १६ ॥
भीम उवाच ।सूताद्येमं पश्य भीमप्रमुक्तैः संभिन्दद्भिः पार्थिवानाशुवेगैः ।उग्रैर्बाणैराहवं घोररूपं नष्टादित्यं मृत्युलोकेन तुल्यम् ॥ १७ ॥
अद्यैव तद्विदितं पार्थिवानां भविष्यति आकुमारं च सूत ।निमग्नो वा समरे भीमसेन एकः कुरून्वा समरे विजेता ॥ १८ ॥
सर्वे संख्ये कुरवो निष्पतन्तु मां वा लोकाः कीर्तयन्त्वाकुमारम् ।सर्वानेकस्तानहं पातयिष्ये ते वा सर्वे भीमसेनं तुदन्तु ॥ १९ ॥
आशास्तारः कर्म चाप्युत्तमं वा तन्मे देवाः केवलं साधयन्तु ।आयात्विहाद्यार्जुनः शत्रुघाती शक्रस्तूर्णं यज्ञ इवोपहूतः ॥ २० ॥
ईक्षस्वैतां भारतीं दीर्यमाणामेते कस्माद्विद्रवन्ते नरेन्द्राः ।व्यक्तं धीमान्सव्यसाची नराग्र्यः सैन्यं ह्येतच्छादयत्याशु बाणैः ॥ २१ ॥
पश्य ध्वजांश्च द्रवतो विशोक नागान्हयान्पत्तिसंघांश्च संख्ये ।रथान्विशीर्णाञ्शरशक्तिताडितान्पश्यस्वैतान्रथिनश्चैव सूत ॥ २२ ॥
आपूर्यते कौरवी चाप्यभीक्ष्णं सेना ह्यसौ सुभृशं हन्यमाना ।धनंजयस्याशनितुल्यवेगैर्ग्रस्ता शरैर्बर्हिसुवर्णवाजैः ॥ २३ ॥
एते द्रवन्ति स्म रथाश्वनागाः पदातिसंघानवमर्दयन्तः ।संमुह्यमानाः कौरवाः सर्व एव द्रवन्ति नागा इव दावभीताः ।हाहाकृताश्चैव रणे विशोक मुञ्चन्ति नादान्विपुलान्गजेन्द्राः ॥ २४ ॥
विशोक उवाच ।सर्वे कामाः पाण्डव ते समृद्धाः कपिध्वजो दृश्यते हस्तिसैन्ये ।नीलाद्धनाद्विद्युतमुच्चरन्तीं तथापश्यं विस्फुरद्वै धनुस्तत् ॥ २५ ॥
कपिर्ह्यसौ वीक्ष्यते सर्वतो वै ध्वजाग्रमारुह्य धनंजयस्य ।दिवाकराभो मणिरेष दिव्यो विभ्राजते चैव किरीटसंस्थः ॥ २६ ॥
पार्श्वे भीमं पाण्डुराभ्रप्रकाशं पश्येमं त्वं देवदत्तं सुघोषम् ।अभीशुहस्तस्य जनार्दनस्य विगाहमानस्य चमूं परेषाम् ॥ २७ ॥
रविप्रभं वज्रनाभं क्षुरान्तं पार्श्वे स्थितं पश्य जनार्दनस्य ।चक्रं यशो वर्धयत्केशवस्य सदार्चितं यदुभिः पश्य वीर ॥ २८ ॥
भीम उवाच ।ददामि ते ग्रामवरांश्चतुर्दश प्रियाख्याने सारथे सुप्रसन्नः ।दसीशतं चापि रथांश्च विंशतिं यदर्जुनं वेदयसे विशोक ॥ २९ ॥
« »