संजय उवाच ।श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् ।यथा वायुः समासाद्य तूलराशिं समन्ततः ॥ १ ॥
प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह ।शाल्वाः संशप्तकाश्चैव नारायणबलं च यत् ॥ २ ॥
सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतंजयः ।सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत ॥ ३ ॥
त्रिगर्तराजः समरे भ्रातृभिः परिवारितः ।पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि ॥ ४ ॥
ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे ।अभ्यद्रवन्त समरे वार्योघा इव सागरम् ॥ ५ ॥
ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः ।अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ॥ ६ ॥
ते वध्यमानाः समरे नाजहुः पाण्डवं तदा ।दह्यमाना यथा राजञ्शलभा इव पावकम् ॥ ७ ॥
सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् ।मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः ॥ ८ ॥
मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः ।शत्रुंजयश्च विंशत्या सुशर्मा नवभिः शरैः ॥ ९ ॥
शत्रुंजयं च राजानं हत्वा तत्र शिलाशितैः ।सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् ।त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम् ॥ १० ॥
अथेतरान्महाराज यतमानान्महारथान् ।पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत् ॥ ११ ॥
सत्यसेनस्तु संक्रुद्धस्तोमरं व्यसृजन्महत् ।समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च ॥ १२ ॥
स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः ।अयस्मयो महाचण्डो जगाम धरणीं तदा ॥ १३ ॥
माधवस्य तु विद्धस्य तोमरेण महारणे ।प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशां पते ॥ १४ ॥
स प्रतोदं पुनर्गृह्य रश्मींश्चैव महायशाः ।वाहयामास तानश्वान्सत्यसेनरथं प्रति ॥ १५ ॥
विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनंजयः ।सत्यसेनं शरैस्तीक्ष्णैर्दारयित्वा महाबलः ॥ १६ ॥
ततः सुनिशितैर्बाणै राज्ञस्तस्य महच्छिरः ।कुण्डलोपचितं कायाच्चकर्त पृतनान्तरे ॥ १७ ॥
तं निहत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत् ।वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष ॥ १८ ॥
ततः शरशतैर्भूयः संशप्तकगणान्वशी ।पातयामास संक्रुद्धः शतशोऽथ सहस्रशः ॥ १९ ॥
ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः ।मित्रदेवस्य चिच्छेद क्षुरप्रेण महायशाः ।सुशर्माणं च संक्रुद्धो जत्रुदेशे समार्दयत् ॥ २० ॥
ततः संशप्तकाः सर्वे परिवार्य धनंजयम् ।शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश ॥ २१ ॥
अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः ।ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः ।ततः शरसहस्राणि प्रादुरासन्विशां पते ॥ २२ ॥
ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे ।रथानां सपताकानां तूणीराणां शरैः सह ॥ २३ ॥
अक्षाणामथ योक्त्राणां चक्राणां रश्मिभिः सह ।कूबराणां वरूथानां पृषत्कानां च संयुगे ॥ २४ ॥
अश्मनां पततां चैव प्रासानामृष्टिभिः सह ।गदानां परिघाणां च शक्तीनां तोमरैः सह ॥ २५ ॥
शतघ्नीनां सचक्राणां भुजानामूरुभिः सह ।कण्ठसूत्राङ्गदानां च केयूराणां च मारिष ॥ २६ ॥
हाराणामथ निष्काणां तनुत्राणां च भारत ।छत्राणां व्यजनानां च शिरसां मुकुटैः सह ।अश्रूयत महाञ्शब्दस्तत्र तत्र विशां पते ॥ २७ ॥
सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च ।शिरांस्युर्व्यामदृश्यन्त तारागण इवाम्बरे ॥ २८ ॥
सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च ।शरीराणि व्यदृश्यन्त हतानां च महीतले ।गन्धर्वनगराकारं घोरमायोधनं तदा ॥ २९ ॥
निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः ।हस्तिभिः पतितैश्चैव तुरगैश्चाभवन्मही ।अगम्यमार्गा समरे विशीर्णैरिव पर्वतैः ॥ ३० ॥
नासीच्चक्रपथश्चैव पाण्डवस्य महात्मनः ।निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चामितं महत् ॥ ३१ ॥
आ तुम्बादवसीदन्ति रथचक्राणि मारिष ।रणे विचरतस्तस्य तस्मिँल्लोहितकर्दमे ॥ ३२ ॥
सीदमानानि चक्राणि समूहुस्तुरगा भृशम् ।श्रमेण महता युक्ता मनोमारुतरंहसः ॥ ३३ ॥
वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना ।प्रायशो विमुखं सर्वं नावतिष्ठत संयुगे ॥ ३४ ॥
ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् ।रराज स महाराज विधूमोऽग्निरिव ज्वलन् ॥ ३५ ॥
युधिष्ठिरं महाराज विसृजन्तं शरान्बहून् ।स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत् ॥ ३६ ॥
तमापतन्तं सहसा तव पुत्रं महाबलम् ।धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३७ ॥
स च तं प्रतिविव्याध नवभिर्निशितैः शरैः ।सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत् ॥ ३८ ॥
ततो युधिष्ठिरो राजा हेमपुङ्खाञ्शिलीमुखान् ।दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् ॥ ३९ ॥
चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः ।पञ्चमेन शिरः कायात्सारथेस्तु समाक्षिपत् ॥ ४० ॥
षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् ।अष्टमेन तथा खड्गं पातयामास भूतले ।पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम् ॥ ४१ ॥
हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव ।उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत ॥ ४२ ॥
तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः ।अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम् ॥ ४३ ॥
अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् ।अभ्ययुः समरे राजंस्ततो युद्धमवर्तत ॥ ४४ ॥
अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे ।क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन्महीपते ।यदभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह ॥ ४५ ॥
नरा नरैः समाजग्मुर्वारणा वरवारणैः ।रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः ॥ ४६ ॥
द्वंद्वान्यासन्महाराज प्रेक्षणीयानि संयुगे ।विस्मापनान्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च ॥ ४७ ॥
अयुध्यन्त महावेगाः परस्परवधैषिणः ।अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः ।न हि ते समरं चक्रुः पृष्ठतो वै कथंचन ॥ ४८ ॥
मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम् ।तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥ ४९ ॥
रथी नागं समासाद्य विचरन्रणमूर्धनि ।प्रेषयामास कालाय शरैः संनतपर्वभिः ॥ ५० ॥
नागा हयान्समासाद्य विक्षिपन्तो बहूनथ ।द्रावयामासुरत्युग्रास्तत्र तत्र तदा तदा ॥ ५१ ॥
विद्राव्य च बहूनश्वान्नागा राजन्बलोत्कटाः ।विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् ॥ ५२ ॥
साश्वारोहांश्च तुरगान्विषाणैर्बिभिदू रणे ।अपरांश्चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तथा ॥ ५३ ॥
पादातैराहता नागा विवरेषु समन्ततः ।चक्रुरार्तस्वरं घोरं व्यद्रवन्त दिशो दश ॥ ५४ ॥
पदातीनां तु सहसा प्रद्रुतानां महामृधे ।उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे ॥ ५५ ॥
निमित्तं मन्यमानास्तु परिणम्य महागजाः ।जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च ॥ ५६ ॥
प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे ।निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः ॥ ५७ ॥
निगृह्य च गदाः केचित्पार्श्वस्थैर्भृशदारुणैः ।रथाश्वसादिभिस्तत्र संभिन्ना न्यपतन्भुवि ॥ ५८ ॥
सरथं सादिनं तत्र अपरे तु महागजाः ।भूमावमृद्नन्वेगेन सवर्माणं पताकिनम् ॥ ५९ ॥
रथं नागाः समासाद्य धुरि गृह्य च मारिष ।व्याक्षिपन्सहसा तत्र घोररूपे महामृधे ॥ ६० ॥
नाराचैर्निहतश्चापि निपपात महागजः ।पर्वतस्येव शिखरं वज्रभग्नं महीतले ॥ ६१ ॥
योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि ।केशेष्वन्योन्यमाक्षिप्य चिच्छिदुर्बिभिदुः सह ॥ ६२ ॥
उद्यम्य च भुजावन्यो निक्षिप्य च महीतले ।पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः ॥ ६३ ॥
मृतमन्यो महाराज पद्भ्यां ताडितवांस्तदा ।जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत् ॥ ६४ ॥
मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत ।तथा केशग्रहश्चोग्रो बाहुयुद्धं च केवलम् ॥ ६५ ॥
समासक्तस्य चान्येन अविज्ञातस्तथापरः ।जहार समरे प्राणान्नानाशस्त्रैरनेकधा ॥ ६६ ॥
संसक्तेषु च योधेषु वर्तमाने च संकुले ।कबन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः ॥ ६७ ॥
लोहितैः सिच्यमानानि शस्त्राणि कवचानि च ।महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे ॥ ६८ ॥
एवमेतन्महायुद्धं दारुणं भृशसंकुलम् ।उन्मत्तरङ्गप्रतिमं शब्देनापूरयज्जगत् ॥ ६९ ॥
नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः ।योद्धव्यमिति युध्यन्ते राजानो जयगृद्धिनः ॥ ७० ॥
स्वान्स्वे जघ्नुर्महाराज परांश्चैव समागतान् ।उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत ॥ ७१ ॥
रथैर्भग्नैर्महाराज वारणैश्च निपातितैः ।हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः ॥ ७२ ॥
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ।क्षणेनासीन्महाराज क्षतजौघप्रवर्तिनी ॥ ७३ ॥
पाञ्चालानवधीत्कर्णस्त्रिगर्तांश्च धनंजयः ।भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः ॥ ७४ ॥
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः ।अपराह्णे महाराज काङ्क्षन्त्योर्विपुलं जयम् ॥ ७५ ॥