संजय उवाच ।तयोः संवदतोरेव कृष्णदारुकयोस्तदा ।सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत ॥ १ ॥
पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः ।वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् ॥ २ ॥
नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः ।कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ॥ ३ ॥
मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः ।आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः ॥ ४ ॥
एवमेतानि सर्वाणि तथान्यान्यपि भारत ।वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः ॥ ५ ॥
स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् ।पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् ॥ ६ ॥
प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे ।उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः ॥ ७ ॥
ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम् ।स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ॥ ८ ॥
भद्रासने सूपविष्टः परिधायाम्बरं लघु ।सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः ॥ ९ ॥
उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः ।आप्लुतः साधिवासेन जलेन च सुगन्धिना ॥ १० ॥
हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः ।स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ॥ ११ ॥
जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः ।ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् ॥ १२ ॥
समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा ।मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः ॥ १३ ॥
द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः ।तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान् ॥ १४ ॥
दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च ।सहस्रानुचरान्सौरानष्टौ दशशतानि च ॥ १५ ॥
अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः ।तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः ॥ १६ ॥
प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः ।अलंकृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ॥ १७ ॥
तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः ।हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् ॥ १८ ॥
स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् ।माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् ॥ १९ ॥
पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा ।स्वलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ॥ २० ॥
मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् ।दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः ॥ २१ ॥
ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः ।सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम् ॥ २२ ॥
परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् ।विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ॥ २३ ॥
तत्र तस्योपविष्टस्य भूषणानि महात्मनः ।उपजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः ॥ २४ ॥
युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः ।रूपमासीन्महाराज द्विषतां शोकवर्धनम् ॥ २५ ॥
पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः ।दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः ॥ २६ ॥
संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः ।उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः ॥ २७ ॥
ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान् ।नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् ॥ २८ ॥
ह्रादेन गजघण्टानां शङ्खानां निनदेन च ।नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी ॥ २९ ॥
ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः ।शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् ॥ ३० ॥
कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा ।अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै ।न्यवेदयद्धृषीकेशमुपयातं महात्मने ॥ ३१ ॥
सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम् ।अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम् ॥ ३२ ॥
ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने ।सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः ॥ ३३ ॥