Click on words to see what they mean.

संजय उवाच ।ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् ।महता शरवर्षेण प्रत्यगृह्णादभीतवत् ॥ १ ॥
ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले ।जिघृक्षति महासिंहे गजानामिव यूथपम् ॥ २ ॥
दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः ।युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत् ॥ ३ ॥
तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम् ।विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव ॥ ४ ॥
ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः ।अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः ॥ ५ ॥
स शीघ्रतरमादाय धनुरन्यत्प्रतापवान् ।द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः ॥ ६ ॥
ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे ।वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत् ॥ ७ ॥
संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् ।चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह ॥ ८ ॥
वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे ।विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् ॥ ९ ॥
द्रोणस्तु शरवर्षेण छाद्यमानो महारथः ।वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी ॥ १० ॥
ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च ।षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् ॥ ११ ॥
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् ।साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् ॥ १२ ॥
स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे ।ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् ॥ १३ ॥
हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी ।अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः ॥ १४ ॥
तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः ।पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् ॥ १५ ॥
स सत्यजितमालक्ष्य तथोदीर्णं महाहवे ।अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः ॥ १६ ॥
तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे ।अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः ॥ १७ ॥
पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः ।युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् ॥ १८ ॥
ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा ।व्यधमत्तान्यनीकानि तूलराशिमिवानिलः ॥ १९ ॥
निर्दहन्तमनीकानि तानि तानि पुनः पुनः ।द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत ॥ २० ॥
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः ।षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम् ॥ २१ ॥
तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम् ।क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः ॥ २२ ॥
मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि ।पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः ॥ २३ ॥
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् ।दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः ॥ २४ ॥
उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः ।ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे ॥ २५ ॥
नागानश्वान्पदातींश्च रथिनो गजसादिनः ।रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ॥ २६ ॥
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये ।अश्मवर्षमिवावर्षत्परेषां भयमादधत् ॥ २७ ॥
सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव ।बली शूरो महेष्वासो मित्राणामभयंकरः ॥ २८ ॥
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् ।दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः ॥ २९ ॥
द्रोणस्तु पाण्डवानीके चकार कदनं महत् ।यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः ॥ ३० ॥
स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः ।महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् ॥ ३१ ॥
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् ।गजवाजिमहाग्राहामसिमीनां दुरासदाम् ॥ ३२ ॥
वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् ।चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम् ॥ ३३ ॥
शरौघिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम् ।रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् ।मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् ॥ ३४ ॥
उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम् ।वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् ॥ ३५ ॥
हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् ।क्रूरां शरीरसंघाटां सादिनक्रां दुरत्ययाम् ।द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् ॥ ३६ ॥
क्रव्यादगणसंघुष्टां श्वशृगालगणायुताम् ।निषेवितां महारौद्रैः पिशिताशैः समन्ततः ॥ ३७ ॥
तं दहन्तमनीकानि रथोदारं कृतान्तवत् ।सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः ॥ ३८ ॥
तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः ।राजानो राजपुत्राश्च समन्तात्पर्यवारयन् ॥ ३९ ॥
ततो द्रोणः सत्यसंधः प्रभिन्न इव कुञ्जरः ।अभ्यतीत्य रथानीकं दृढसेनमपातयत् ॥ ४० ॥
ततो राजानमासाद्य प्रहरन्तमभीतवत् ।अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् ॥ ४१ ॥
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः ।त्राता ह्यभवदन्येषां न त्रातव्यः कथंचन ॥ ४२ ॥
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।वसुदानं च भल्लेन प्रेषयद्यमसादनम् ॥ ४३ ॥
अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् ।क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् ॥ ४४ ॥
युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् ।विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥ ४५ ॥
ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः ।अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् ॥ ४६ ॥
तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत् ।स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् ॥ ४७ ॥
तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे ।हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् ॥ ४८ ॥
तांस्तथा भृशसंक्रुद्धान्पाञ्चालान्मत्स्यकेकयान् ।सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली ॥ ४९ ॥
सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ ।वार्धक्षेमिं चित्रसेनं सेनाबिन्दुं सुवर्चसम् ॥ ५० ॥
एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् ।सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः ॥ ५१ ॥
तावकास्तु महाराज जयं लब्ध्वा महाहवे ।पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः ॥ ५२ ॥
ते दानवा इवेन्द्रेण वध्यमाना महात्मना ।पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत ॥ ५३ ॥
« »