संजय उवाच ।अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः ।अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ।विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः ॥ १ ॥
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ।शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् ।निवारयितुमप्याजौ त्वदीयाः कुरुपुंगवाः ॥ २ ॥
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः ।क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ॥ ३ ॥
यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान् ।सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ॥ ४ ॥
रथिनं च रथात्तूर्णं हयपृष्ठाच्च सादिनम् ।गजारोहांश्च सगजान्पातयामास फाल्गुनिः ॥ ५ ॥
तस्य तत्कुर्वतः कर्म महत्संख्येऽद्भुतं नृपाः ।पूजयां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ॥ ६ ॥
तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत ।तूलराशिमिवाधूय मारुतः सर्वतोदिशम् ॥ ७ ॥
तेन विद्राव्यमाणानि तव सैन्यानि भारत ।त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः ॥ ८ ॥
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः ।अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ॥ ९ ॥
न चैनं तावकाः सर्वे विषेहुररिघातिनम् ।प्रदीप्तं पावकं यद्वत्पतंगाः कालचोदिताः ॥ १० ॥
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः ।अदृश्यत महेष्वासः सवज्र इव वज्रभृत् ॥ ११ ॥
हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः ।तोयदेषु यथा राजन्भ्राजमानाः शतह्रदाः ॥ १२ ॥
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे ।वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ॥ १३ ॥
तथैव चरतस्तस्य सौभद्रस्य महात्मनः ।रथेन मेघघोषेण ददृशुर्नान्तरं जनाः ॥ १४ ॥
मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् ।सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च ॥ १५ ॥
मण्डलीकृतमेवास्य धनुः पश्याम मारिष ।सूर्यमण्डलसंकाशं तपतस्तव वाहिनीम् ॥ १६ ॥
तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः ।द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ॥ १७ ॥
तेनार्दिता महाराज भारती सा महाचमूः ।बभ्राम तत्र तत्रैव योषिन्मदवशादिव ॥ १८ ॥
द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान् ।नन्दयामास सुहृदो मयं जित्वेव वासवः ॥ १९ ॥
तेन विद्राव्यमाणानि तव सैन्यानि संयुगे ।चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् ॥ २० ॥
तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष ।मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि ।दुर्योधनस्तदा राजा आर्श्यशृङ्गिमभाषत ॥ २१ ॥
एष कार्ष्णिर्महेष्वासो द्वितीय इव फल्गुनः ।चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ॥ २२ ॥
तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् ।ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् ॥ २३ ॥
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे ।वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः ॥ २४ ॥
स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् ।प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् ।नर्दमानो महानादं प्रावृषीव बलाहकः ॥ २५ ॥
तस्य शब्देन महता पाण्डवानां महद्बलम् ।प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः ॥ २६ ॥
बहवश्च नरा राजंस्तस्य नादेन भीषिताः ।प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ॥ २७ ॥
कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः ।नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ॥ २८ ॥
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनिं रणे ।नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम् ॥ २९ ॥
सा वध्यमाना समरे पाण्डवानां महाचमूः ।प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम् ॥ ३० ॥
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष ।रक्षसा घोररूपेण वध्यमानस्य संयुगे ॥ ३१ ॥
ततः शरसहस्रैस्तां पाण्डवानां महाचमूम् ।व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम् ॥ ३२ ॥
सा वध्यमाना च तथा पाण्डवानामनीकिनी ।रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ॥ ३३ ॥
तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा ।ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान् ॥ ३४ ॥
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः ।राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् ॥ ३५ ॥
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः ।यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ॥ ३६ ॥
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः ।सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ॥ ३७ ॥
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः ।मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ ३८ ॥
विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः ।आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ॥ ३९ ॥
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे ।विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः ॥ ४० ॥
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव ।अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ॥ ४१ ॥
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष ।प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ॥ ४२ ॥
प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः ।चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ॥ ४३ ॥
एकैकं च त्रिभिर्बाणैराजघान स्मयन्निव ।अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ॥ ४४ ॥
त्वरमाणश्च संक्रुद्धो हयांस्तेषां महात्मनाम् ।जघान राक्षसः क्रुद्धः सारथींश्च महाबलः ॥ ४५ ॥
बिभेद च सुसंहृष्टः पुनश्चैनान्सुसंशितैः ।शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ॥ ४६ ॥
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः ।अभिदुद्राव वेगेन हन्तुकामो निशाचरः ॥ ४७ ॥
तानर्दितान्रणे तेन राक्षसेन दुरात्मना ।दृष्ट्वार्जुनसुतः संख्ये राक्षसं समुपाद्रवत् ॥ ४८ ॥
तयोः समभवद्युद्धं वृत्रवासवयोरिव ।ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः ॥ ४९ ॥
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् ।महाबलौ महाराज क्रोधसंरक्तलोचनौ ।परस्परमवेक्षेतां कालानलसमौ युधि ॥ ५० ॥
तयोः समागमो घोरो बभूव कटुकोदयः ।यथा देवासुरे युद्धे शक्रशम्बरयोरिव ॥ ५१ ॥