६।८१ महाभारतम् Click on words to see what they mean. संजय उवाच ।स तुद्यमानस्तु शरैर्धनंजयः पदा हतो नाग इव श्वसन्बली ।बाणेन बाणेन महारथानां चिच्छेद चापानि रणे प्रसह्य ॥ १ ॥ संछिद्य चापानि च तानि राज्ञां तेषां रणे वीर्यवतां क्षणेन ।विव्याध बाणैर्युगपन्महात्मा निःशेषतां तेष्वथ मन्यमानः ॥ २ ॥ निपेतुराजौ रुधिरप्रदिग्धास्ते ताडिताः शक्रसुतेन राजन् ।विभिन्नगात्राः पतितोत्तमाङ्गा गतासवश्छिन्नतनुत्रकायाः ॥ ३ ॥ महीं गताः पार्थबलाभिभूता विचित्ररूपा युगपद्विनेशुः ।दृष्ट्वा हतांस्तान्युधि राजपुत्रांस्त्रिगर्तराजः प्रययौ क्षणेन ॥ ४ ॥ तेषां रथानामथ पृष्ठगोपा द्वात्रिंशदन्येऽब्यपतन्त पार्थम् ।तथैव ते संपरिवार्य पार्थं विकृष्य चापानि महारवाणि ।अवीवृषन्बाणमहौघवृष्ट्या यथा गिरिं तोयधरा जलौघैः ॥ ५ ॥ संपीड्यमानस्तु शरौघवृष्ट्या धनंजयस्तान्युधि जातरोषः ।षष्ट्या शरैः संयति तैलधौतैर्जघान तानप्यथ पृष्ठगोपान् ॥ ६ ॥ षष्टिं रथांस्तानवजित्य संख्ये धनंजयः प्रीतमना यशस्वी ।अथात्वरद्भीष्मवधाय जिष्णुर्बलानि राज्ञां समरे निहत्य ॥ ७ ॥ त्रिगर्तराजो निहतान्समीक्ष्य महारथांस्तानथ बन्धुवर्गान् ।रणे पुरस्कृत्य नराधिपांस्ताञ्जगाम पार्थं त्वरितो वधाय ॥ ८ ॥ अभिद्रुतं चास्त्रभृतां वरिष्ठं धनंजयं वीक्ष्य शिखण्डिमुख्याः ।अभ्युद्ययुस्ते शितशस्त्रहस्ता रिरक्षिषन्तो रथमर्जुनस्य ॥ ९ ॥ पार्थोऽपि तानापततः समीक्ष्य त्रिगर्तराज्ञा सहितान्नृवीरान् ।विध्वंसयित्वा समरे धनुष्मान्गाण्डीवमुक्तैर्निशितैः पृषत्कैः ।भीष्मं यियासुर्युधि संददर्श दुर्योधनं सैन्धवादींश्च राज्ञः ॥ १० ॥ आवारयिष्णूनभिसंप्रयाय मुहूर्तमायोध्य बलेन वीरः ।उत्सृज्य राजानमनन्तवीर्यो जयद्रथादींश्च नृपान्महौजाः ।ययौ ततो भीमबलो मनस्वी गाङ्गेयमाजौ शरचापपाणिः ॥ ११ ॥ युधिष्ठिरश्चोग्रबलो महात्मा समाययौ त्वरितो जातकोपः ।मद्राधिपं समभित्यज्य संख्ये स्वभागमाप्तं तमनन्तकीर्तिः ।सार्धं स माद्रीसुतभीमसेनैर्भीष्मं ययौ शांतनवं रणाय ॥ १२ ॥ तैः संप्रयुक्तः स महारथाग्र्यैर्गङ्गासुतः समरे चित्रयोधी ।न विव्यथे शांतनवो महात्मा समागतैः पाण्डुसुतैः समस्तैः ॥ १३ ॥ अथैत्य राजा युधि सत्यसंधो जयद्रथोऽत्युग्रबलो मनस्वी ।चिच्छेद चापानि महारथानां प्रसह्य तेषां धनुषा वरेण ॥ १४ ॥ युधिष्ठिरं भीमसेनं यमौ च पार्थं तथा युधि संजातकोपः ।दुर्योधनः क्रोधविषो महात्मा जघान बाणैरनलप्रकाशैः ॥ १५ ॥ कृपेण शल्येन शलेन चैव तथा विभो चित्रसेनेन चाजौ ।विद्धाः शरैस्तेऽतिविवृद्धकोपैर्देवा यथा दैत्यगणैः समेतैः ॥ १६ ॥ छिन्नायुधं शांतनवेन राजा शिखण्डिनं प्रेक्ष्य च जातकोपः ।अजातशत्रुः समरे महात्मा शिखण्डिनं क्रुद्ध उवाच वाक्यम् ॥ १७ ॥ उक्त्वा तथा त्वं पितुरग्रतो मामहं हनिष्यामि महाव्रतं तम् ।भीष्मं शरौघैर्विमलार्कवर्णैः सत्यं वदामीति कृता प्रतिज्ञा ॥ १८ ॥ त्वया न चैनां सफलां करोषि देवव्रतं यन्न निहंसि युद्धे ।मिथ्याप्रतिज्ञो भव मा नृवीर रक्षस्व धर्मं च कुलं यशश्च ॥ १९ ॥ प्रेक्षस्व भीष्मं युधि भीमवेगं सर्वांस्तपन्तं मम सैन्यसंघान् ।शरौघजालैरतितिग्मतेजैः कालं यथा मृत्युकृतं क्षणेन ॥ २० ॥ निकृत्तचापः समरानपेक्षः पराजितः शांतनवेन राज्ञा ।विहाय बन्धूनथ सोदरांश्च क्व यास्यसे नानुरूपं तवेदम् ॥ २१ ॥ दृष्ट्वा हि भीष्मं तमनन्तवीर्यं भग्नं च सैन्यं द्रवमाणमेवम् ।भीतोऽसि नूनं द्रुपदस्य पुत्र तथा हि ते मुखवर्णोऽप्रहृष्टः ॥ २२ ॥ आज्ञायमानेऽपि धनंजयेन महाहवे संप्रसक्ते नृवीर ।कथं हि भीष्मात्प्रथितः पृथिव्यां भयं त्वमद्य प्रकरोषि वीर ॥ २३ ॥ स धर्मराजस्य वचो निशम्य रूक्षाक्षरं विप्रलापानुबद्धम् ।प्रत्यादेशं मन्यमानो महात्मा प्रतत्वरे भीष्मवधाय राजन् ॥ २४ ॥ तमापतन्तं महता जवेन शिखण्डिनं भीष्ममभिद्रवन्तम् ।आवारयामास हि शल्य एनं शस्त्रेण घोरेण सुदुर्जयेन ॥ २५ ॥ स चापि दृष्ट्वा समुदीर्यमाणमस्त्रं युगान्ताग्निसमप्रभावम् ।नासौ व्यमुह्यद्द्रुपदस्य पुत्रो राजन्महेन्द्रप्रतिमप्रभावः ॥ २६ ॥ तस्थौ च तत्रैव महाधनुष्माञ्शरैस्तदस्त्रं प्रतिबाधमानः ।अथाददे वारुणमन्यदस्त्रं शिखण्ड्यथोग्रं प्रतिघाताय तस्य ।तदस्त्रमस्त्रेण विदार्यमाणं खस्थाः सुरा ददृशुः पार्थिवाश्च ॥ २७ ॥ भीष्मस्तु राजन्समरे महात्मा धनुः सुचित्रं ध्वजमेव चापि ।छित्त्वानदत्पाण्डुसुतस्य वीरो युधिष्ठिरस्याजमीढस्य राज्ञः ॥ २८ ॥ ततः समुत्सृज्य धनुः सबाणं युधिष्ठिरं वीक्ष्य भयाभिभूतम् ।गदां प्रगृह्याभिपपात संख्ये जयद्रथं भीमसेनः पदातिः ॥ २९ ॥ तमापतन्तं महता जवेन जयद्रथः सगदं भीमसेनम् ।विव्याध घोरैर्यमदण्डकल्पैः शितैः शरैः पञ्चशतैः समन्तात् ॥ ३० ॥ अचिन्तयित्वा स शरांस्तरस्वी वृकोदरः क्रोधपरीतचेताः ।जघान वाहान्समरे समस्तानारट्टजान्सिन्धुराजस्य संख्ये ॥ ३१ ॥ ततोऽभिवीक्ष्याप्रतिमप्रभावस्तवात्मजस्त्वरमाणो रथेन ।अभ्याययौ भीमसेनं निहन्तुं समुद्यतास्त्रः सुरराजकल्पः ॥ ३२ ॥ भीमोऽप्यथैनं सहसा विनद्य प्रत्युद्ययौ गदया तर्जमानः ।समुद्यतां तां यमदण्डकल्पां दृष्ट्वा गदां ते कुरवः समन्तात् ॥ ३३ ॥ विहाय सर्वे तव पुत्रमुग्रं पातं गदायाः परिहर्तुकामाः ।अपक्रान्तास्तुमुले संविमर्दे सुदारुणे भारत मोहनीये ॥ ३४ ॥ अमूढचेतास्त्वथ चित्रसेनो महागदामापतन्तीं निरीक्ष्य ।रथं समुत्सृज्य पदातिराजौ प्रगृह्य खड्गं विमलं च चर्म ।अवप्लुतः सिंह इवाचलाग्राज्जगाम चान्यं भुवि भूमिदेशम् ॥ ३५ ॥ गदापि सा प्राप्य रथं सुचित्रं साश्वं ससूतं विनिहत्य संख्ये ।जगाम भूमिं ज्वलिता महोल्का भ्रष्टाम्बराद्गामिव संपतन्ती ॥ ३६ ॥ आश्चर्यभूतं सुमहत्त्वदीया दृष्ट्वैव तद्भारत संप्रहृष्टाः ।सर्वे विनेदुः सहिताः समन्तात्पुपूजिरे तव पुत्रं ससैन्याः ॥ ३७ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha