५।८८ महाभारतम् Click on words to see what they mean. वैशंपायन उवाच ।अथोपगम्य विदुरमपराह्णे जनार्दनः ।पितृष्वसारं गोविन्दः सोऽभ्यगच्छदरिंदमः ॥ १ ॥ सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् ।कण्ठे गृहीत्वा प्राक्रोशत्पृथा पार्थाननुस्मरन् ॥ २ ॥ तेषां सत्त्ववतां मध्ये गोविन्दं सहचारिणम् ।चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा ॥ ३ ॥ साब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् ।बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ॥ ४ ॥ ये ते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः ।परस्परस्य सुहृदः संमताः समचेतसः ॥ ५ ॥ निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः ।विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः ॥ ६ ॥ त्यक्त्वा प्रियसुखे पार्था रुदन्तीमपहाय माम् ।अहार्षुश्च वनं यान्तः समूलं हृदयं मम ॥ ७ ॥ अतदर्हा महात्मानः कथं केशव पाण्डवाः ।ऊषुर्महावने तात सिंहव्याघ्रगजाकुले ॥ ८ ॥ बाला विहीनाः पित्रा ते मया सततलालिताः ।अपश्यन्तः स्वपितरौ कथमूषुर्महावने ॥ ९ ॥ शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वैणवैरपि ।पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव ॥ १० ॥ ये स्म वारणशब्देन हयानां हेषितेन च ।रथनेमिनिनादैश्च व्यबोध्यन्त सदा गृहे ॥ ११ ॥ शङ्खभेरीनिनादेन वेणुवीणानुनादिना ।पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः ॥ १२ ॥ वस्त्रै रत्नैरलंकारैः पूजयन्तो द्विजन्मनः ।गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् ॥ १३ ॥ अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः ।प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः ॥ १४ ॥ ते नूनं निनदं श्रुत्वा श्वापदानां महावने ।न स्मोपयान्ति निद्रां वै अतदर्हा जनार्दन ॥ १५ ॥ भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः ।स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ॥ १६ ॥ बन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् ।महावने व्यबोध्यन्त श्वापदानां रुतेन ते ॥ १७ ॥ ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता ।कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ॥ १८ ॥ अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च ।भरतस्य दिलीपस्य शिबेरौशीनरस्य च ॥ १९ ॥ राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् ।शीलवृत्तोपसंपन्नो धर्मज्ञः सत्यसंगरः ॥ २० ॥ राजा सर्वगुणोपेतस्त्रैलोक्यस्यापि यो भवेत् ।अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः ॥ २१ ॥ श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः ।प्रियदर्शनो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ॥ २२ ॥ यः स नागायुतप्राणो वातरंहा वृकोदरः ।अमर्षी पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः ॥ २३ ॥ कीचकस्य च सज्ञातेर्यो हन्ता मधुसूदन ।शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ॥ २४ ॥ पराक्रमे शक्रसमो वायुवेगसमो जवे ।महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ॥ २५ ॥ क्रोधं बलममर्षं च यो निधाय परंतपः ।जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने ॥ २६ ॥ तेजोराशिं महात्मानं बलौघममितौजसम् ।भीमं प्रदर्शनेनापि भीमसेनं जनार्दन ।तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः ॥ २७ ॥ आस्ते परिघबाहुः स मध्यमः पाण्डवोऽच्युत ।अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा ।द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ॥ २८ ॥ क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः ।इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ॥ २९ ॥ तेजसादित्यसदृशो महर्षिप्रतिमो दमे ।क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः ॥ ३० ॥ आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन ।आहृतं येन वीर्येण कुरूणां सर्वराजसु ॥ ३१ ॥ यस्य बाहुबलं घोरं कौरवाः पर्युपासते ।स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः ॥ ३२ ॥ योऽपाश्रयः पाण्डवानां देवानामिव वासवः ।स ते भ्राता सखा चैव कथमद्य धनंजयः ॥ ३३ ॥ दयावान्सर्वभूतेषु ह्रीनिषेधो महास्त्रवित् ।मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे ॥ ३४ ॥ सहदेवो महेष्वासः शूरः समितिशोभनः ।भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा ॥ ३५ ॥ सदैव सहदेवस्य भ्रातरो मधुसूदन ।वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः ॥ ३६ ॥ ज्येष्ठापचायिनं वीरं सहदेवं युधां पतिम् ।शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे ॥ ३७ ॥ सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः ।भ्रातॄणां कृष्ण सर्वेषां प्रियः प्राणो बहिश्चरः ॥ ३८ ॥ चित्रयोधी च नकुलो महेष्वासो महाबलः ।कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः ॥ ३९ ॥ सुखोचितमदुःखार्हं सुकुमारं महारथम् ।अपि जातु महाबाहो पश्येयं नकुलं पुनः ॥ ४० ॥ पक्ष्मसंपातजे काले नकुलेन विनाकृता ।न लभामि सुखं वीर साद्य जीवामि पश्य माम् ॥ ४१ ॥ सर्वैः पुत्रैः प्रियतमा द्रौपदी मे जनार्दन ।कुलीना शीलसंपन्ना सर्वैः समुदिता गुणैः ॥ ४२ ॥ पुत्रलोकात्पतिलोकान्वृण्वाना सत्यवादिनी ।प्रियान्पुत्रान्परित्यज्य पाण्डवानन्वपद्यत ॥ ४३ ॥ महाभिजनसंपन्ना सर्वकामैः सुपूजिता ।ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत ॥ ४४ ॥ पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः ।उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी ॥ ४५ ॥ चतुर्दशमिमं वर्षं यन्नापश्यमरिंदम ।पुत्राधिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् ॥ ४६ ॥ न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम् ।द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम् ॥ ४७ ॥ न प्रियो मम कृष्णाय बीभत्सुर्न युधिष्ठिरः ।भीमसेनो यमौ वापि यदपश्यं सभागताम् ॥ ४८ ॥ न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम् ।यद्द्रौपदीं निवातस्थां श्वशुराणां समीपगाम् ॥ ४९ ॥ आनायितामनार्येण क्रोधलोभानुवर्तिना ।सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् ॥ ५० ॥ तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः ।कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा ॥ ५१ ॥ तस्यां संसदि सर्वस्यां क्षत्तारं पूजयाम्यहम् ।वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ॥ ५२ ॥ तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः ।क्षत्तुः शीलमलंकारो लोकान्विष्टभ्य तिष्ठति ॥ ५३ ॥ सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् ।नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत् ॥ ५४ ॥ पूर्वैराचरितं यत्तत्कुराजभिररिंदम ।अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् ॥ ५५ ॥ तन्मां दहति यत्कृष्णा सभायां कुरुसंनिधौ ।धार्तराष्ट्रैः परिक्लिष्टा यथा नकुशलं तथा ॥ ५६ ॥ निर्वासनं च नगरात्प्रव्रज्या च परंतप ।नानाविधानां दुःखानामावासोऽस्मि जनार्दन ।अज्ञातचर्या बालानामवरोधश्च केशव ॥ ५७ ॥ न स्म क्लेशतमं मे स्यात्पुत्रैः सह परंतप ।दुर्योधनेन निकृता वर्षमद्य चतुर्दशम् ॥ ५८ ॥ दुःखादपि सुखं न स्याद्यदि पुण्यफलक्षयः ।न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः ॥ ५९ ॥ तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् ।अस्माद्विमुक्तं संग्रामात्पश्येयं पाण्डवैः सह ।नैव शक्याः पराजेतुं सत्त्वं ह्येषां तथागतम् ॥ ६० ॥ पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् ।येनाहं कुन्तिभोजाय धनं धूर्तैरिवार्पिता ॥ ६१ ॥ बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तकाम् ।अददात्कुन्तिभोजाय सखा सख्ये महात्मने ॥ ६२ ॥ साहं पित्रा च निकृता श्वशुरैश्च परंतप ।अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम ॥ ६३ ॥ यन्मा वागब्रवीन्नक्तं सूतके सव्यसाचिनः ।पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् ॥ ६४ ॥ हत्वा कुरून्ग्रामजन्ये राज्यं प्राप्य धनंजयः ।भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति ॥ ६५ ॥ नाहं तामभ्यसूयामि नमो धर्माय वेधसे ।कृष्णाय महते नित्यं धर्मो धारयति प्रजाः ॥ ६६ ॥ धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति ।त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि ॥ ६७ ॥ न मां माधव वैधव्यं नार्थनाशो न वैरिता ।तथा शोकाय भवति यथा पुत्रैर्विनाभवः ॥ ६८ ॥ याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् ।धनंजयं न पश्यामि का शान्तिर्हृदयस्य मे ॥ ६९ ॥ इदं चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् ।धनंजयं च गोविन्द यमौ तं च वृकोदरम् ॥ ७० ॥ जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः ।अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन ॥ ७१ ॥ ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् ।भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ॥ ७२ ॥ पराश्रया वासुदेव या जीवामि धिगस्तु माम् ।वृत्तेः कृपणलब्धाया अप्रतिष्ठैव ज्यायसी ॥ ७३ ॥ अथो धनंजयं ब्रूया नित्योद्युक्तं वृकोदरम् ।यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥ ७४ ॥ अस्मिंश्चेदागते काले कालो वोऽतिक्रमिष्यति ।लोकसंभाविताः सन्तः सुनृशंसं करिष्यथ ॥ ७५ ॥ नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः ।काले हि समनुप्राप्ते त्यक्तव्यमपि जीवितम् ॥ ७६ ॥ माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतौ सदा ।विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ॥ ७७ ॥ विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ।मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ॥ ७८ ॥ गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ।अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर ॥ ७९ ॥ विदितौ हि तवात्यन्तं क्रुद्धाविव यथान्तकौ ।भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ॥ ८० ॥ तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता ।दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम् ॥ ८१ ॥ दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् ।पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् ॥ ८२ ॥ न हि वैरं समासाद्य प्रशाम्यति वृकोदरः ।सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति ।यावदन्तं न नयति शात्रवाञ्शत्रुकर्शनः ॥ ८३ ॥ न दुःखं राज्यहरणं न च द्यूते पराजयः ।प्रव्राजनं च पुत्राणां न मे तद्दुःखकारणम् ॥ ८४ ॥ यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता ।अशृणोत्परुषा वाचस्ततो दुःखतरं नु किम् ॥ ८५ ॥ स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा ।नाध्यगच्छत्तथा नाथं कृष्णा नाथवती सती ॥ ८६ ॥ यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन ।रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः ॥ ८७ ॥ साहमेवंविधं दुःखं सहेऽद्य पुरुषोत्तम ।भीमे जीवति दुर्धर्षे विजये चापलायिनि ॥ ८८ ॥ तत आश्वासयामास पुत्राधिभिरभिप्लुताम् ।पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् ॥ ८९ ॥ का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः ।शूरस्य राज्ञो दुहिता आजमीढकुलं गता ॥ ९० ॥ महाकुलीना भवती ह्रदाद्ध्रदमिवागता ।ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥ ९१ ॥ वीरसूर्वीरपत्नी च सर्वैः समुदिता गुणैः ।सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति ॥ ९२ ॥ निद्रातन्द्री क्रोधहर्षौ क्षुत्पिपासे हिमातपौ ।एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः ॥ ९३ ॥ त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः ।न ते स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः ॥ ९४ ॥ अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः ।उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् ॥ ९५ ॥ अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ॥ ९६ ॥ अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया ।आत्मानं च कुशलिनं निवेद्याहुरनामयम् ॥ ९७ ॥ अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् ।ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् ॥ ९८ ॥ एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् ।पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः ॥ ९९ ॥ यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन ।यथा यथा त्वं मन्येथाः कुर्याः कृष्ण तथा तथा ॥ १०० ॥ अविलोपेन धर्मस्य अनिकृत्या परंतप ।प्रभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च ॥ १०१ ॥ व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा ।त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् ॥ १०२ ॥ त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् ।यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति ॥ १०३ ॥ तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् ।प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति ॥ १०४ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha