५।४७ महाभारतम् Click on words to see what they mean. धृतराष्ट्र उवाच ।पृच्छामि त्वां संजय राजमध्ये किमब्रवीद्वाक्यमदीनसत्त्वः ।धनंजयस्तात युधां प्रणेता दुरात्मनां जीवितच्छिन्महात्मा ॥ १ ॥ संजय उवाच ।दुर्योधनो वाचमिमां शृणोतु यदब्रवीदर्जुनो योत्स्यमानः ।युधिष्ठिरस्यानुमते महात्मा धनंजयः शृण्वतः केशवस्य ॥ २ ॥ अन्वत्रस्तो बाहुवीर्यं विदान उपह्वरे वासुदेवस्य धीरः ।अवोचन्मां योत्स्यमानः किरीटी मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ॥ ३ ॥ ये वै राजानः पाण्डवायोधनाय समानीताः शृण्वतां चापि तेषाम् ।यथा समग्रं वचनं मयोक्तं सहामात्यं श्रावयेथा नृपं तम् ॥ ४ ॥ यथा नूनं देवराजस्य देवाः शुश्रूषन्ते वज्रहस्तस्य सर्वे ।तथाशृण्वन्पाण्डवाः सृञ्जयाश्च किरीटिना वाचमुक्तां समर्थाम् ॥ ५ ॥ इत्यब्रवीदर्जुनो योत्स्यमानो गाण्डीवधन्वा लोहितपद्मनेत्रः ।न चेद्राज्यं मुञ्चति धार्तराष्ट्रो युधिष्ठिरस्याजमीढस्य राज्ञः ।अस्ति नूनं कर्म कृतं पुरस्तादनिर्विष्टं पापकं धार्तराष्ट्रैः ॥ ६ ॥ येषां युद्धं भीमसेनार्जुनाभ्यां तथाश्विभ्यां वासुदेवेन चैव ।शैनेयेन ध्रुवमात्तायुधेन धृष्टद्युम्नेनाथ शिखण्डिना च ।युधिष्ठिरेणेन्द्रकल्पेन चैव योऽपध्यानान्निर्दहेद्गां दिवं च ॥ ७ ॥ तैश्चेद्युद्धं मन्यते धार्तराष्ट्रो निर्वृत्तोऽर्थः सकलः पाण्डवानाम् ।मा तत्कार्षीः पाण्डवार्थाय हेतोरुपैहि युद्धं यदि मन्यसे त्वम् ॥ ८ ॥ यां तां वने दुःखशय्यामुवास प्रव्राजितः पाण्डवो धर्मचारी ।आशिष्यते दुःखतरामनर्थामन्त्यां शय्यां धार्तराष्ट्रः परासुः ॥ ९ ॥ ह्रिया ज्ञानेन तपसा दमेन क्रोधेनाथो धर्मगुप्त्या धनेन ।अन्यायवृत्तः कुरुपाण्डवेयानध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ॥ १० ॥ मायोपधः प्रणिधानार्जवाभ्यां तपोदमाभ्यां धर्मगुप्त्या बलेन ।सत्यं ब्रुवन्प्रीतियुक्त्यानृतेन तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ॥ ११ ॥ यदा ज्येष्ठः पाण्डवः संशितात्मा क्रोधं यत्तं वर्षपूगान्सुघोरम् ।अवस्रष्टा कुरुषूद्वृत्तचेतास्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ १२ ॥ कृष्णवर्त्मेव ज्वलितः समिद्धो यथा दहेत्कक्षमग्निर्निदाघे ।एवं दग्धा धार्तराष्ट्रस्य सेनां युधिष्ठिरः क्रोधदीप्तोऽनुवीक्ष्य ॥ १३ ॥ यदा द्रष्टा भीमसेनं रणस्थं गदाहस्तं क्रोधविषं वमन्तम् ।दुर्मर्षणं पाण्डवं भीमवेगं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ १४ ॥ महासिंहो गाव इव प्रविश्य गदापाणिर्धार्तराष्ट्रानुपेत्य ।यदा भीमो भीमरूपो निहन्ता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ १५ ॥ महाभये वीतभयः कृतास्त्रः समागमे शत्रुबलावमर्दी ।सकृद्रथेन प्रतियाद्रथौघान्पदातिसंघान्गदयाभिनिघ्नन् ॥ १६ ॥ सैन्याननेकांस्तरसा विमृद्नन्यदा क्षेप्ता धार्तराष्ट्रस्य सैन्यम् ।छिन्दन्वनं परशुनेव शूरस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ १७ ॥ तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रः समीक्ष्य ।पक्वं सस्यं वैद्युतेनेव दग्धं परासिक्तं विपुलं स्वं बलौघम् ॥ १८ ॥ हतप्रवीरं विमुखं भयार्तं पराङ्मुखं प्रायशोऽधृष्टयोधम् ।शस्त्रार्चिषा भीमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ १९ ॥ उपासङ्गादुद्धरन्दक्षिणेन परःशतान्नकुलश्चित्रयोधी ।यदा रथाग्र्यो रथिनः प्रचेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २० ॥ सुखोचितो दुःखशय्यां वनेषु दीर्घं कालं नकुलो यामशेत ।आशीविषः क्रुद्ध इव श्वसन्भृशं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २१ ॥ त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धर्मराजेन वीराः ।रथैः शुभ्रैः सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ॥ २२ ॥ शिशून्कृतास्त्रानशिशुप्रकाशान्यदा द्रष्टा कौरवः पञ्च शूरान् ।त्यक्त्वा प्राणान्केकयानाद्रवन्तस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २३ ॥ यदा गतोद्वाहमकूजनाक्षं सुवर्णतारं रथमाततायी ।दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ॥ २४ ॥ महाभये संप्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम् ।सर्वां दिशं संपतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २५ ॥ ह्रीनिषेधो निपुणः सत्यवादी महाबलः सर्वधर्मोपपन्नः ।गान्धारिमार्च्छंस्तुमुले क्षिप्रकारी क्षेप्ता जनान्सहदेवस्तरस्वी ॥ २६ ॥ यदा द्रष्टा द्रौपदेयान्महेषूञ्शूरान्कृतास्त्रान्रथयुद्धकोविदान् ।आशीविषान्घोरविषानिवायतस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २७ ॥ यदाभिमन्युः परवीरघाती शरैः परान्मेघ इवाभिवर्षन् ।विगाहिता कृष्णसमः कृतास्त्रस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २८ ॥ यदा द्रष्टा बालमबालवीर्यं द्विषच्चमूं मृत्युमिवापतन्तम् ।सौभद्रमिन्द्रप्रतिमं कृतास्त्रं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ २९ ॥ प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंहसमानवीर्याः ।यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३० ॥ वृद्धौ विराटद्रुपदौ महारथौ पृथक्चमूभ्यामभिवर्तमानौ ।यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३१ ॥ यदा कृतास्त्रो द्रुपदः प्रचिन्वञ्शिरांसि यूनां समरे रथस्थः ।क्रुद्धः शरैश्छेत्स्यति चापमुक्तैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३२ ॥ यदा विराटः परवीरघाती मर्मान्तरे शत्रुचमूं प्रवेष्टा ।मत्स्यैः सार्धमनृशंसरूपैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३३ ॥ ज्येष्ठं मात्स्यानामनृशंसरूपं विराटपुत्रं रथिनं पुरस्तात् ।यदा द्रष्टा दंशितं पाण्डवार्थे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३४ ॥ रणे हते कौरवाणां प्रवीरे शिखण्डिना सत्तमे शंतनूजे ।न जातु नः शत्रवो धारयेयुरसंशयं सत्यमेतद्ब्रवीमि ॥ ३५ ॥ यदा शिखण्डी रथिनः प्रचिन्वन्भीष्मं रथेनाभियाता वरूथी ।दिव्यैर्हयैरवमृद्नन्रथौघांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३६ ॥ यदा द्रष्टा सृञ्जयानामनीके धृष्टद्युम्नं प्रमुखे रोचमानम् ।अस्त्रं यस्मै गुह्यमुवाच धीमान्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ॥ ३७ ॥ यदा स सेनापतिरप्रमेयः पराभवन्निषुभिर्धार्तराष्ट्रान् ।द्रोणं रणे शत्रुसहोऽभियाता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ३८ ॥ ह्रीमान्मनीषी बलवान्मनस्वी स लक्ष्मीवान्सोमकानां प्रबर्हः ।न जातु तं शत्रवोऽन्ये सहेरन्येषां स स्यादग्रणीर्वृष्णिसिंहः ॥ ३९ ॥ ब्रूयाच्च मा प्रवृणीष्वेति लोके युद्धेऽद्वितीयं सचिवं रथस्थम् ।शिनेर्नप्तारं प्रवृणीम सात्यकिं महाबलं वीतभयं कृतास्त्रम् ॥ ४० ॥ यदा शिनीनामधिपो मयोक्तः शरैः परान्मेघ इव प्रवर्षन् ।प्रच्छादयिष्यञ्शरजालेन योधांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ४१ ॥ यदा धृतिं कुरुते योत्स्यमानः स दीर्घबाहुर्दृढधन्वा महात्मा ।सिंहस्येव गन्धमाघ्राय गावः संवेष्टन्ते शत्रवोऽस्माद्यथाग्नेः ॥ ४२ ॥ स दीर्घबाहुर्दृढधन्वा महात्मा भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् ।अस्त्रे कृती निपुणः क्षिप्रहस्तो दिवि स्थितः सूर्य इवाभिभाति ॥ ४३ ॥ चित्रः सूक्ष्मः सुकृतो यादवस्य अस्त्रे योगो वृष्णिसिंहस्य भूयान् ।यथाविधं योगमाहुः प्रशस्तं सर्वैर्गुणैः सात्यकिस्तैरुपेतः ॥ ४४ ॥ हिरण्मयं श्वेतहयैश्चतुर्भिर्यदा युक्तं स्यन्दनं माधवस्य ।द्रष्टा युद्धे सात्यकेर्वै सुयोधनस्तदा तप्स्यत्यकृतात्मा स मन्दः ॥ ४५ ॥ यदा रथं हेममणिप्रकाशं श्वेताश्वयुक्तं वानरकेतुमुग्रम् ।द्रष्टा रणे संयतं केशवेन तदा तप्स्यत्यकृतात्मा स मन्दः ॥ ४६ ॥ यदा मौर्व्यास्तलनिष्पेषमुग्रं महाशब्दं वज्रनिष्पेषतुल्यम् ।विधूयमानस्य महारणे मया गाण्डीवस्य श्रोष्यति मन्दबुद्धिः ॥ ४७ ॥ तदा मूढो धृतराष्ट्रस्य पुत्रस्तप्ता युद्धे दुर्मतिर्दुःसहायः ।दृष्ट्वा सैन्यं बाणवर्षान्धकारं प्रभज्यन्तं गोकुलवद्रणाग्रे ॥ ४८ ॥ बलाहकादुच्चरन्तीव विद्युत्सहस्रघ्नी द्विषतां संगमेषु ।अस्थिच्छिदो मर्मभिदो वमेच्छरांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ४९ ॥ यदा द्रष्टा ज्यामुखाद्बाणसंघान्गाण्डीवमुक्तान्पततः शिताग्रान् ।नागान्हयान्वर्मिणश्चाददानांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५० ॥ यदा मन्दः परबाणान्विमुक्तान्ममेषुभिर्ह्रियमाणान्प्रतीपम् ।तिर्यग्विद्वांश्छिद्यमानान्क्षुरप्रैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५१ ॥ यदा विपाठा मद्भुजविप्रमुक्ता द्विजाः फलानीव महीरुहाग्रात् ।प्रच्छेत्तार उत्तमाङ्गानि यूनां तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५२ ॥ यदा द्रष्टा पततः स्यन्दनेभ्यो महागजेभ्योऽश्वगतांश्च योधान् ।शरैर्हतान्पातितांश्चैव रङ्गे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५३ ॥ पदातिसंघान्रथसंघान्समन्ताद्व्यात्ताननः काल इवाततेषुः ।प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ॥ ५४ ॥ सर्वा दिशः संपतता रथेन रजोध्वस्तं गाण्डिवेनापकृत्तम् ।यदा द्रष्टा स्वबलं संप्रमूढं तदा पश्चात्तप्स्यति मन्दबुद्धिः ॥ ५५ ॥ कांदिग्भूतं छिन्नगात्रं विसंज्ञं दुर्योधनो द्रक्ष्यति सर्वसैन्यम् ।हताश्ववीराग्र्यनरेन्द्रनागं पिपासितं श्रान्तपत्रं भयार्तम् ॥ ५६ ॥ आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसंघम् ।प्रजापतेः कर्म यथार्धनिष्ठितं तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः ॥ ५७ ॥ यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्खं पाञ्चजन्यं हयांश्च ।तूणावक्षय्यौ देवदत्तं च मां च द्रष्टा युद्धे धार्तराष्ट्रः समेतान् ॥ ५८ ॥ उद्वर्तयन्दस्युसंघान्समेतान्प्रवर्तयन्युगमन्यद्युगान्ते ।यदा धक्ष्याम्यग्निवत्कौरवेयांस्तदा तप्ता धृतराष्ट्रः सपुत्रः ॥ ५९ ॥ सहभ्राता सहपुत्रः ससैन्यो भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः ।दर्पस्यान्ते विहिते वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ॥ ६० ॥ पूर्वाह्णे मां कृतजप्यं कदाचिद्विप्रः प्रोवाचोदकान्ते मनोज्ञम् ।कर्तव्यं ते दुष्करं कर्म पार्थ योद्धव्यं ते शत्रुभिः सव्यसाचिन् ॥ ६१ ॥ इन्द्रो वा ते हरिवान्वज्रहस्तः पुरस्ताद्यातु समरेऽरीन्विनिघ्नन् ।सुग्रीवयुक्तेन रथेन वा ते पश्चात्कृष्णो रक्षतु वासुदेवः ॥ ६२ ॥ वव्रे चाहं वज्रहस्तान्महेन्द्रादस्मिन्युद्धे वासुदेवं सहायम् ।स मे लब्धो दस्युवधाय कृष्णो मन्ये चैतद्विहितं दैवतैर्मे ॥ ६३ ॥ अयुध्यमानो मनसापि यस्य जयं कृष्णः पुरुषस्याभिनन्देत् ।ध्रुवं सर्वान्सोऽभ्यतीयादमित्रान्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता ॥ ६४ ॥ स बाहुभ्यां सागरमुत्तितीर्षेन्महोदधिं सलिलस्याप्रमेयम् ।तेजस्विनं कृष्णमत्यन्तशूरं युद्धेन यो वासुदेवं जिगीषेत् ॥ ६५ ॥ गिरिं य इच्छेत तलेन भेत्तुं शिलोच्चयं श्वेतमतिप्रमाणम् ।तस्यैव पाणिः सनखो विशीर्येन्न चापि किंचित्स गिरेस्तु कुर्यात् ॥ ६६ ॥ अग्निं समिद्धं शमयेद्भुजाभ्यां चन्द्रं च सूर्यं च निवारयेत ।हरेद्देवानाममृतं प्रसह्य युद्धेन यो वासुदेवं जिगीषेत् ॥ ६७ ॥ यो रुक्मिणीमेकरथेन भोज्यामुत्साद्य राज्ञां विषयं प्रसह्य ।उवाह भार्यां यशसा ज्वलन्तीं यस्यां जज्ञे रौक्मिणेयो महात्मा ॥ ६८ ॥ अयं गान्धारांस्तरसा संप्रमथ्य जित्वा पुत्रान्नग्नजितः समग्रान् ।बद्धं मुमोच विनदन्तं प्रसह्य सुदर्शनीयं देवतानां ललामम् ॥ ६९ ॥ अयं कवाटे निजघान पाण्ड्यं तथा कलिङ्गान्दन्तकूरे ममर्द ।अनेन दग्धा वर्षपूगान्विनाथा वाराणसी नगरी संबभूव ॥ ७० ॥ यं स्म युद्धे मन्यतेऽन्यैरजेयमेकलव्यं नाम निषादराजम् ।वेगेनेव शैलमभिहत्य जम्भः शेते स कृष्णेन हतः परासुः ॥ ७१ ॥ तथोग्रसेनस्य सुतं प्रदुष्टं वृष्ण्यन्धकानां मध्यगां तपन्तम् ।अपातयद्बलदेवद्वितीयो हत्वा ददौ चोग्रसेनाय राज्यम् ॥ ७२ ॥ अयं सौभं योधयामास खस्थं विभीषणं मायया शाल्वराजम् ।सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं दोर्भ्यां क एनं विषहेत मर्त्यः ॥ ७३ ॥ प्राग्ज्योतिषं नाम बभूव दुर्गं पुरं घोरमसुराणामसह्यम् ।महाबलो नरकस्तत्र भौमो जहारादित्या मणिकुण्डले शुभे ॥ ७४ ॥ न तं देवाः सह शक्रेण सेहिरे समागता आहरणाय भीताः ।दृष्ट्वा च ते विक्रमं केशवस्य बलं तथैवास्त्रमवारणीयम् ॥ ७५ ॥ जानन्तोऽस्य प्रकृतिं केशवस्य न्ययोजयन्दस्युवधाय कृष्णम् ।स तत्कर्म प्रतिशुश्राव दुष्करमैश्वर्यवान्सिद्धिषु वासुदेवः ॥ ७६ ॥ निर्मोचने षट्सहस्राणि हत्वा संछिद्य पाशान्सहसा क्षुरान्तान् ।मुरं हत्वा विनिहत्यौघराक्षसं निर्मोचनं चापि जगाम वीरः ॥ ७७ ॥ तत्रैव तेनास्य बभूव युद्धं महाबलेनातिबलस्य विष्णोः ।शेते स कृष्णेन हतः परासुर्वातेनेव मथितः कर्णिकारः ॥ ७८ ॥ आहृत्य कृष्णो मणिकुण्डले ते हत्वा च भौमं नरकं मुरं च ।श्रिया वृतो यशसा चैव धीमान्प्रत्याजगामाप्रतिमप्रभावः ॥ ७९ ॥ तस्मै वरानददंस्तत्र देवा दृष्ट्वा भीमं कर्म रणे कृतं तत् ।श्रमश्च ते युध्यमानस्य न स्यादाकाशे वा अप्सु चैव क्रमः स्यात् ॥ ८० ॥ शस्त्राणि गात्रे च न ते क्रमेरन्नित्येव कृष्णश्च ततः कृतार्थः ।एवंरूपे वासुदेवेऽप्रमेये महाबले गुणसंपत्सदैव ॥ ८१ ॥ तमसह्यं विष्णुमनन्तवीर्यमाशंसते धार्तराष्ट्रो बलेन ।यदा ह्येनं तर्कयते दुरात्मा तच्चाप्ययं सहतेऽस्मान्समीक्ष्य ॥ ८२ ॥ पर्यागतं मम कृष्णस्य चैव यो मन्यते कलहं संप्रयुज्य ।शक्यं हर्तुं पाण्डवानां ममत्वं तद्वेदिता संयुगं तत्र गत्वा ॥ ८३ ॥ नमस्कृत्वा शांतनवाय राज्ञे द्रोणायाथो सहपुत्राय चैव ।शारद्वतायाप्रतिद्वन्द्विने च योत्स्याम्यहं राज्यमभीप्समानः ॥ ८४ ॥ धर्मेणास्त्रं नियतं तस्य मन्ये यो योत्स्यते पाण्डवैर्धर्मचारी ।मिथ्याग्लहे निर्जिता वै नृशंसैः संवत्सरान्द्वादश पाण्डुपुत्राः ॥ ८५ ॥ अवाप्य कृच्छ्रं विहितं ह्यरण्ये दीर्घं कालं चैकमज्ञातचर्याम् ।ते ह्यकस्माज्जीवितं पाण्डवानां न मृष्यन्ते धार्तराष्ट्राः पदस्थाः ॥ ८६ ॥ ते चेदस्मान्युध्यमानाञ्जयेयुर्देवैरपीन्द्रप्रमुखैः सहायैः ।धर्मादधर्मश्चरितो गरीयानिति ध्रुवं नास्ति कृतं न साधु ॥ ८७ ॥ न चेदिमं पुरुषं कर्मबद्धं न चेदस्मान्मन्यतेऽसौ विशिष्टान् ।आशंसेऽहं वासुदेवद्वितीयो दुर्योधनं सानुबन्धं निहन्तुम् ॥ ८८ ॥ न चेदिदं कर्म नरेषु बद्धं न विद्यते पुरुषस्य स्वकर्म ।इदं च तच्चापि समीक्ष्य नूनं पराजयो धार्तराष्ट्रस्य साधुः ॥ ८९ ॥ प्रत्यक्षं वः कुरवो यद्ब्रवीमि युध्यमाना धार्तराष्ट्रा न सन्ति ।अन्यत्र युद्धात्कुरवः परीप्सन्न युध्यतां शेष इहास्ति कश्चित् ॥ ९० ॥ हत्वा त्वहं धार्तराष्ट्रान्सकर्णान्राज्यं कुरूणामवजेता समग्रम् ।यद्वः कार्यं तत्कुरुध्वं यथास्वमिष्टान्दारानात्मजांश्चोपभुङ्क्त ॥ ९१ ॥ अप्येवं नो ब्राह्मणाः सन्ति वृद्धा बहुश्रुताः शीलवन्तः कुलीनाः ।सांवत्सरा ज्योतिषि चापि युक्ता नक्षत्रयोगेषु च निश्चयज्ञाः ॥ ९२ ॥ उच्चावचं दैवयुक्तं रहस्यं दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः ।क्षयं महान्तं कुरुसृञ्जयानां निवेदयन्ते पाण्डवानां जयं च ॥ ९३ ॥ तथा हि नो मन्यतेऽजातशत्रुः संसिद्धार्थो द्विषतां निग्रहाय ।जनार्दनश्चाप्यपरोक्षविद्यो न संशयं पश्यति वृष्णिसिंहः ॥ ९४ ॥ अहं च जानामि भविष्यरूपं पश्यामि बुद्ध्या स्वयमप्रमत्तः ।दृष्टिश्च मे न व्यथते पुराणी युध्यमाना धार्तराष्ट्रा न सन्ति ॥ ९५ ॥ अनालब्धं जृम्भति गाण्डिवं धनुरनालब्धा कम्पति मे धनुर्ज्या ।बाणाश्च मे तूणमुखाद्विसृज्य मुहुर्मुहुर्गन्तुमुशन्ति चैव ॥ ९६ ॥ सैक्यः कोशान्निःसरति प्रसन्नो हित्वेव जीर्णामुरगस्त्वचं स्वाम् ।ध्वजे वाचो रौद्ररूपा वदन्ति कदा रथो योक्ष्यते ते किरीटिन् ॥ ९७ ॥ गोमायुसंघाश्च वदन्ति रात्रौ रक्षांस्यथो निष्पतन्त्यन्तरिक्षात् ।मृगाः शृगालाः शितिकण्ठाश्च काका गृध्रा बडाश्चैव तरक्षवश्च ॥ ९८ ॥ सुपर्णपाताश्च पतन्ति पश्चाद्दृष्ट्वा रथं श्वेतहयप्रयुक्तम् ।अहं ह्येकः पार्थिवान्सर्वयोधाञ्शरान्वर्षन्मृत्युलोकं नयेयम् ॥ ९९ ॥ समाददानः पृथगस्त्रमार्गान्यथाग्निरिद्धो गहनं निदाघे ।स्थूणाकर्णं पाशुपतं च घोरं तथा ब्रह्मास्त्रं यच्च शक्रो विवेद ॥ १०० ॥ वधे धृतो वेगवतः प्रमुञ्चन्नाहं प्रजाः किंचिदिवावशिष्ये ।शान्तिं लप्स्ये परमो ह्येष भावः स्थिरो मम ब्रूहि गावल्गणे तान् ॥ १०१ ॥ नित्यं पुनः सचिवैर्यैरवोचद्देवानपीन्द्रप्रमुखान्सहायान् ।तैर्मन्यते कलहं संप्रयुज्य स धार्तराष्ट्रः पश्यत मोहमस्य ॥ १०२ ॥ वृद्धो भीष्मः शांतनवः कृपश्च द्रोणः सपुत्रो विदुरश्च धीमान् ।एते सर्वे यद्वदन्ते तदस्तु आयुष्मन्तः कुरवः सन्तु सर्वे ॥ १०३ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha