युधिष्ठिर उवाच ।कां नु वाचं संजय मे शृणोषि युद्धैषिणीं येन युद्धाद्बिभेषि ।अयुद्धं वै तात युद्धाद्गरीयः कस्तल्लब्ध्वा जातु युध्येत सूत ॥ १ ॥
अकुर्वतश्चेत्पुरुषस्य संजय सिध्येत्संकल्पो मनसा यं यमिच्छेत् ।न कर्म कुर्याद्विदितं ममैतदन्यत्र युद्धाद्बहु यल्लघीयः ॥ २ ॥
कुतो युद्धं जातु नरः प्रजानन्को दैवशप्तोऽभिवृणीत युद्धम् ।सुखैषिणः कर्म कुर्वन्ति पार्था धर्मादहीनं यच्च लोकस्य पथ्यम् ॥ ३ ॥
कर्मोदयं सुखमाशंसमानः कृच्छ्रोपायं तत्त्वतः कर्म दुःखम् ।सुखप्रेप्सुर्विजिघांसुश्च दुःखं य इन्द्रियाणां प्रीतिवशानुगामी ।कामाभिध्या स्वशरीरं दुनोति यया प्रयुक्तोऽनुकरोति दुःखम् ॥ ४ ॥
यथेध्यमानस्य समिद्धतेजसो भूयो बलं वर्धते पावकस्य ।कामार्थलाभेन तथैव भूयो न तृप्यते सर्पिषेवाग्निरिद्धः ।संपश्येमं भोगचयं महान्तं सहास्माभिर्धृतराष्ट्रस्य राज्ञः ॥ ५ ॥
नाश्रेयसामीश्वरो विग्रहाणां नाश्रेयसां गीतशब्दं शृणोति ।नाश्रेयसः सेवते माल्यगन्धान्न चाप्यश्रेयांस्यनुलेपनानि ॥ ६ ॥
नाश्रेयसः प्रावरानध्यवस्ते कथं त्वस्मान्संप्रणुदेत्कुरुभ्यः ।अत्रैव च स्यादवधूय एष कामः शरीरे हृदयं दुनोति ॥ ७ ॥
स्वयं राजा विषमस्थः परेषु सामस्थ्यमन्विच्छति तन्न साधु ।यथात्मनः पश्यति वृत्तमेव तथा परेषामपि सोऽभ्युपैति ॥ ८ ॥
आसन्नमग्निं तु निदाघकाले गम्भीरकक्षे गहने विसृज्य ।यथा वृद्धं वायुवशेन शोचेत्क्षेमं मुमुक्षुः शिशिरव्यपाये ॥ ९ ॥
प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा लालप्यते संजय कस्य हेतोः ।प्रगृह्य दुर्बुद्धिमनार्जवे रतं पुत्रं मन्दं मूढममन्त्रिणं तु ॥ १० ॥
अनाप्तः सन्नाप्ततमस्य वाचं सुयोधनो विदुरस्यावमन्य ।सुतस्य राजा धृतराष्ट्रः प्रियैषी संबुध्यमानो विशतेऽधर्ममेव ॥ ११ ॥
मेधाविनं ह्यर्थकामं कुरूणां बहुश्रुतं वाग्मिनं शीलवन्तम् ।सूत राजा धृतराष्ट्रः कुरुभ्यो न सोऽस्मरद्विदुरं पुत्रकाम्यात् ॥ १२ ॥
मानघ्नस्य आत्मकामस्य चेर्ष्योः संरम्भिणश्चार्थधर्मातिगस्य ।दुर्भाषिणो मन्युवशानुगस्य कामात्मनो दुर्हृदो भावनस्य ॥ १३ ॥
अनेयस्याश्रेयसो दीर्घमन्योर्मित्रद्रुहः संजय पापबुद्धेः ।सुतस्य राजा धृतराष्ट्रः प्रियैषी प्रपश्यमानः प्रजहाद्धर्मकामौ ॥ १४ ॥
तदैव मे संजय दीव्यतोऽभून्नो चेत्कुरूनागतः स्यादभावः ।काव्यां वाचं विदुरो भाषमाणो न विन्दते धृतराष्ट्रात्प्रशंसाम् ॥ १५ ॥
क्षत्तुर्यदा अन्ववर्तन्त बुद्धिं कृच्छ्रं कुरून्न तदाभ्याजगाम ।यावत्प्रज्ञामन्ववर्तन्त तस्य तावत्तेषां राष्ट्रवृद्धिर्बभूव ॥ १६ ॥
तदर्थलुब्धस्य निबोध मेऽद्य ये मन्त्रिणो धार्तराष्ट्रस्य सूत ।दुःशासनः शकुनिः सूतपुत्रो गावल्गणे पश्य संमोहमस्य ॥ १७ ॥
सोऽहं न पश्यामि परीक्षमाणः कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् ।आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः प्रव्राजिते विदुरे दीर्घदृष्टौ ॥ १८ ॥
आशंसते वै धृतराष्ट्रः सपुत्रो महाराज्यमसपत्नं पृथिव्याम् ।तस्मिञ्शमः केवलं नोपलभ्यो अत्यासन्नं मद्गतं मन्यतेऽर्थम् ॥ १९ ॥
यत्तत्कर्णो मन्यते पारणीयं युद्धे गृहीतायुधमर्जुनेन ।आसंश्च युद्धानि पुरा महान्ति कथं कर्णो नाभवद्द्वीप एषाम् ॥ २० ॥
कर्णश्च जानाति सुयोधनश्च द्रोणश्च जानाति पितामहश्च ।अन्ये च ये कुरवस्तत्र सन्ति यथार्जुनान्नास्त्यपरो धनुर्धरः ॥ २१ ॥
जानन्त्येते कुरवः सर्व एव ये चाप्यन्ये भूमिपालाः समेताः ।दुर्योधनं चापराधे चरन्तमरिंदमे फल्गुनेऽविद्यमाने ॥ २२ ॥
तेनार्थबद्धं मन्यते धार्तराष्ट्रः शक्यं हर्तुं पाण्डवानां ममत्वम् ।किरीटिना तालमात्रायुधेन तद्वेदिना संयुगं तत्र गत्वा ॥ २३ ॥
गाण्डीवविस्फारितशब्दमाजावशृण्वाना धार्तराष्ट्रा ध्रियन्ते ।क्रुद्धस्य चेद्भीमसेनस्य वेगात्सुयोधनो मन्यते सिद्धमर्थम् ॥ २४ ॥
इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तुमैश्वर्यं नो जीवति भीमसेने ।धनंजये नकुले चैव सूत तथा वीरे सहदेवे मदीये ॥ २५ ॥
स चेदेतां प्रतिपद्येत बुद्धिं वृद्धो राजा सह पुत्रेण सूत ।एवं रणे पाण्डवकोपदग्धा न नश्येयुः संजय धार्तराष्ट्राः ॥ २६ ॥
जानासि त्वं क्लेशमस्मासु वृत्तं त्वां पूजयन्संजयाहं क्षमेयम् ।यच्चास्माकं कौरवैर्भूतपूर्वं या नो वृत्तिर्धार्तराष्ट्रे तदासीत् ॥ २७ ॥
अद्यापि तत्तत्र तथैव वर्ततां शान्तिं गमिष्यामि यथा त्वमात्थ ।इन्द्रप्रस्थे भवतु ममैव राज्यं सुयोधनो यच्छतु भारताग्र्यः ॥ २८ ॥