भीष्म उवाच ।ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम् ।अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम् ॥ १ ॥
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् ।विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः ॥ २ ॥
ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप ।आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया ॥ ३ ॥
सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते ।उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता ॥ ४ ॥
भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः ।श्रुत्वा च धर्म्यं वचनं मह्यं कर्तुमिहार्हसि ॥ ५ ॥
मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः ।तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः ॥ ६ ॥
कथं मामन्यकामां त्वं राजञ्शास्त्रमधीत्य वै ।वासयेथा गृहे भीष्म कौरवः सन्विशेषतः ॥ ७ ॥
एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ ।यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि ॥ ८ ॥
स मां प्रतीक्षते व्यक्तं शाल्वराजो विशां पते ।कृपां कुरु महाबाहो मयि धर्मभृतां वर ।त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम् ॥ ९ ॥