Click on words to see what they mean.

शल्य उवाच ।अथ संचिन्तयानस्य देवराजस्य धीमतः ।नहुषस्य वधोपायं लोकपालैः सहैव तैः ।तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत ॥ १ ॥
सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान् ।विश्वरूपविनाशेन वृत्रासुरवधेन च ॥ २ ॥
दिष्ट्या च नहुषो भ्रष्टो देवराज्यात्पुरंदर ।दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन ॥ ३ ॥
इन्द्र उवाच ।स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तव ।पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे ॥ ४ ॥
शल्य उवाच ।पूजितं चोपविष्टं तमासने मुनिसत्तमम् ।पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम् ॥ ५ ॥
एतदिच्छामि भगवन्कथ्यमानं द्विजोत्तम ।परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः ॥ ६ ॥
अगस्त्य उवाच ।शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान् ।स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः ॥ ७ ॥
श्रमार्तास्तु वहन्तस्तं नहुषं पापकारिणम् ।देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः ।पप्रच्छुः संशयं देव नहुषं जयतां वर ॥ ८ ॥
य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम् ।एते प्रमाणं भवत उताहो नेति वासव ।नहुषो नेति तानाह तमसा मूढचेतनः ॥ ९ ॥
ऋषय ऊचुः ।अधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे ।प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः ॥ १० ॥
अगस्त्य उवाच ।ततो विवदमानः स मुनिभिः सह वासव ।अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः ॥ ११ ॥
तेनाभूद्धततेजाः स निःश्रीकश्च शचीपते ।ततस्तमहमाविग्नमवोचं भयपीडितम् ॥ १२ ॥
यस्मात्पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिरनुष्ठितम् ।अदुष्टं दूषयसि वै यच्च मूर्ध्न्यस्पृशः पदा ॥ १३ ॥
यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान् ।वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः ॥ १४ ॥
ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम् ।दश वर्षसहस्राणि सर्परूपधरो महान् ।विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि ॥ १५ ॥
एवं भ्रष्टो दुरात्मा स देवराज्यादरिंदम ।दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः ॥ १६ ॥
त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते ।जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः ॥ १७ ॥
शल्य उवाच ।ततो देवा भृशं तुष्टा महर्षिगणसंवृताः ।पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा ॥ १८ ॥
गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः ।सरांसि सरितः शैलाः सागराश्च विशां पते ॥ १९ ॥
उपगम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शत्रुहन् ।हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता ।दिष्ट्या पापसमाचारः कृतः सर्पो महीतले ॥ २० ॥
« »