Click on words to see what they mean.

वैशंपायन उवाच ।ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवींजयः ।सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत ॥ १ ॥
स तं रुधिरसंसिक्तमनेकाग्रमनागसम् ।भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम् ॥ २ ॥
ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः ।केनायं ताडितो राजन्केन पापमिदं कृतम् ॥ ३ ॥
विराट उवाच ।मयायं ताडितो जिह्मो न चाप्येतावदर्हति ।प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति ॥ ४ ॥
उत्तर उवाच ।अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम् ।मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत् ॥ ५ ॥
वैशंपायन उवाच ।स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः ।क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम् ॥ ६ ॥
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत ।चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम ॥ ७ ॥
यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः ।सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः ॥ ८ ॥
न दूषयामि ते राजन्यच्च हन्याददूषकम् ।बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात् ॥ ९ ॥
शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा ।अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत ॥ १० ॥
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम् ।प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः ॥ ११ ॥
त्वया दायादवानस्मि कैकेयीनन्दिवर्धन ।त्वया मे सदृशः पुत्रो न भूतो न भविष्यति ॥ १२ ॥
पदं पदसहस्रेण यश्चरन्नापराध्नुयात् ।तेन कर्णेन ते तात कथमासीत्समागमः ॥ १३ ॥
मनुष्यलोके सकले यस्य तुल्यो न विद्यते ।यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः ।तेन भीष्मेण ते तात कथमासीत्समागमः ॥ १४ ॥
आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः ।सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः ।तेन द्रोणेन ते तात कथमासीत्समागमः ॥ १५ ॥
आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि ।अश्वत्थामेति विख्यातः कथं तेन समागमः ॥ १६ ॥
रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा ।कृपेण तेन ते तात कथमासीत्समागमः ॥ १७ ॥
पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः ।दुर्योधनेन ते तात कथमासीत्समागमः ॥ १८ ॥
उत्तर उवाच ।न मया निर्जिता गावो न मया निर्जिताः परे ।कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित् ॥ १९ ॥
स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत् ।स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा ॥ २० ॥
तेन ता निर्जिता गावस्तेन ते कुरवो जिताः ।तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् ॥ २१ ॥
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान् ।सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः ॥ २२ ॥
दुर्योधनं च समरे सनागमिव यूथपम् ।प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम् ॥ २३ ॥
न हास्तिनपुरे त्राणं तव पश्यामि किंचन ।व्यायामेन परीप्सस्व जीवितं कौरवात्मज ॥ २४ ॥
न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु ।पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि ॥ २५ ॥
स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान् ।सचिवैः संवृतो राजा रथे नाग इव श्वसन् ॥ २६ ॥
तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष ।यदभ्रघनसंकाशमनीकं व्यधमच्छरैः ॥ २७ ॥
तत्प्रणुद्य रथानीकं सिंहसंहननो युवा ।कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली ॥ २८ ॥
एकेन तेन वीरेण षड्रथाः परिवारिताः ।शार्दूलेनेव मत्तेन मृगास्तृणचरा वने ॥ २९ ॥
विराट उवाच ।क्व स वीरो महाबाहुर्देवपुत्रो महायशाः ।यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे ॥ ३० ॥
इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम् ।येन मे त्वं च गावश्च रक्षिता देवसूनुना ॥ ३१ ॥
उत्तर उवाच ।अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान् ।स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति ॥ ३२ ॥
वैशंपायन उवाच ।एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम् ।वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम् ॥ ३३ ॥
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना ।प्रददौ तानि वासांसि विराटदुहितुः स्वयम् ॥ ३४ ॥
उत्तरा तु महार्हाणि विविधानि तनूनि च ।प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी ॥ ३५ ॥
मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा ।इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे ॥ ३६ ॥
ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ ।सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः ॥ ३७ ॥
« »