जनमेजय उवाच ।अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः ॥ १ ॥
वैशंपायन उवाच ।अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि ।न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः ॥ २ ॥
ततः कदाचिदेकान्ते विविक्त इव शाद्वले ।दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ।धनंजयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ॥ ३ ॥
तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे ।धनंजयवियोगाच्च राज्यनाशाच्च दुःखिताः ॥ ४ ॥
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत ।निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः ।अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ॥ ५ ॥
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् ।सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम् ॥ ६ ॥
योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन् ।भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ॥ ७ ॥
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः ।मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥ ८ ॥
यस्य प्रभावान्न मया सभामध्ये धनुष्मतः ।नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ॥ ९ ॥
ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः ।सहामहे भवन्मूलं वासुदेवेन पालिताः ॥ १० ॥
वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान् ।स्वबाहुविजितां कृत्स्नां प्रशासेम वसुंधराम् ॥ ११ ॥
भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः ।अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः ॥ १२ ॥
क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि ।न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः ।राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः ॥ १३ ॥
स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः ।प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि ॥ १४ ॥
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् ।व्यूढानीकान्महाराज जवेनैव महाहवे ।धार्तराष्ट्रानमुं लोकं गमयामि विशां पते ॥ १५ ॥
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् ।दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते ॥ १६ ॥
मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः ।एवं कृते न ते दोषो भविष्यति विशां पते ॥ १७ ॥
यज्ञैश्च विविधैस्तात कृतं पापमरिंदम ।अवधूय महाराज गच्छेम स्वर्गमुत्तमम् ॥ १८ ॥
एवमेतद्भवेद्राजन्यदि राजा न बालिशः ।अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ॥ १९ ॥
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः ।न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते ॥ २० ॥
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते ।अहोरात्रं महाराज तुल्यं संवत्सरेण हि ॥ २१ ॥
तथैव वेदवचनं श्रूयते नित्यदा विभो ।संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ॥ २२ ॥
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत ।त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः ॥ २३ ॥
कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम ।एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ॥ २४ ॥
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः ।उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम् ॥ २५ ॥
असंशयं महाबाहो हनिष्यसि सुयोधनम् ।वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ॥ २६ ॥
यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो ।अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते ॥ २७ ॥
अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् ।हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ॥ २८ ॥
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे ।आजगाम महाभागो बृहदश्वो महानृषिः ॥ २९ ॥
तमभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम् ।शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ॥ ३० ॥
आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः ।अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ॥ ३१ ॥
अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम् ।आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ॥ ३२ ॥
अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः ।भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी ॥ ३३ ॥
अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि ।भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ।न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ॥ ३४ ॥
बृहदश्व उवाच ।यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् ।अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ॥ ३५ ॥
अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ ।यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ॥ ३६ ॥
वैशंपायन उवाच ।अथैनमब्रवीद्राजा ब्रवीतु भगवानिति ।इमामवस्थां संप्राप्तं श्रोतुमिच्छामि पार्थिवम् ॥ ३७ ॥
बृहदश्व उवाच ।शृणु राजन्नवहितः सह भ्रातृभिरच्युत ।यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ॥ ३८ ॥
निषधेषु महीपालो वीरसेन इति स्म ह ।तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् ॥ ३९ ॥
स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् ।वनवासमदुःखार्हो भार्यया न्यवसत्सह ॥ ४० ॥
न तस्याश्वो न च रथो न भ्राता न च बान्धवाः ।वने निवसतो राजञ्शिष्यन्ते स्म कदाचन ॥ ४१ ॥
भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः ।ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ॥ ४२ ॥
युधिष्ठिर उवाच ।विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः ।चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि ॥ ४३ ॥