Click on words to see what they mean.

वैशंपायन उवाच ।गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः ।चिन्तयामास राजेन्द्र देवराजरथागमम् ॥ १ ॥
ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः ।रथो मातलिसंयुक्त आजगाम महाप्रभः ॥ २ ॥
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव ।दिशः संपूरयन्नादैर्महामेघरवोपमैः ॥ ३ ॥
असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः ।दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः ॥ ४ ॥
तथैवाशनयस्तत्र चक्रयुक्ता हुडागुडाः ।वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः ॥ ५ ॥
तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः ।सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः ॥ ६ ॥
दश वाजिसहस्राणि हरीणां वातरंहसाम् ।वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् ॥ ७ ॥
तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् ।ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् ॥ ८ ॥
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् ।दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत् ॥ ९ ॥
तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः ।संनतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत् ॥ १० ॥
भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति ।आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संमतम् ॥ ११ ॥
आह माममरश्रेष्ठः पिता तव शतक्रतुः ।कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः ॥ १२ ॥
एष शक्रः परिवृतो देवैरृषिगणैस्तथा ।गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते ॥ १३ ॥
अस्माल्लोकाद्देवलोकं पाकशासनशासनात् ।आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि ॥ १४ ॥
अर्जुन उवाच ।मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् ।राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् ॥ १५ ॥
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः ।दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम् ॥ १६ ॥
नातप्ततपसा शक्य एष दिव्यो महारथः ।द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु ॥ १७ ॥
त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि ।पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा ॥ १८ ॥
वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः ।आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः ॥ १९ ॥
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः ।जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः ॥ २० ॥
ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि ।मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे ॥ २१ ॥
साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम् ।त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् ॥ २२ ॥
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः ।स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः ॥ २३ ॥
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् ।गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि ॥ २४ ॥
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च ।तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः ॥ २५ ॥
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा ।आरुरोह रथं दिव्यं द्योतयन्निव भास्करः ॥ २६ ॥
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा ।ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ॥ २७ ॥
सोऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम् ।ददर्शाद्भुतरूपाणि विमानानि सहस्रशः ॥ २८ ॥
न तत्र सूर्यः सोमो वा द्योतते न च पावकः ।स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया ॥ २९ ॥
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै ।दीपवद्विप्रकृष्टत्वादणूनि सुमहान्त्यपि ॥ ३० ॥
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः ।ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा ॥ ३१ ॥
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि ।तपसा च जितस्वर्गाः संपेतुः शतसंघशः ॥ ३२ ॥
गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम् ।गुह्यकानामृषीणां च तथैवाप्सरसां गणाः ॥ ३३ ॥
लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः ।पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह ॥ ३४ ॥
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः ।यान्दृष्टवानसि विभो तारारूपाणि भूतले ॥ ३५ ॥
ततोऽपश्यत्स्थितं द्वारि सितं वैजयिनं गजम् ।ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ॥ ३६ ॥
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः ।व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः ॥ ३७ ॥
अतिचक्राम लोकान्स राज्ञां राजीवलोचनः ।ततो ददर्श शक्रस्य पुरीं ताममरावतीम् ॥ ३८ ॥
« »