वैशंपायन उवाच ।भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः ॥ १ ॥
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् ।भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् ॥ २ ॥
एवमेतन्महाबाहो यथा वदसि भारत ।इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद ॥ ३ ॥
महापापानि कर्माणि यानि केवलसाहसात् ।आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत ॥ ४ ॥
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते ।सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ॥ ५ ॥
त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम् ।आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे ॥ ६ ॥
भूरिश्रवाः शलश्चैव जलसंधश्च वीर्यवान् ।भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् ॥ ७ ॥
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः ।सर्व एव कृतास्त्राश्च सततं चाततायिनः ॥ ८ ॥
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः ।संश्रिताः कौरवं पक्षं जातस्नेहाश्च सांप्रतम् ॥ ९ ॥
दुर्योधनहिते युक्ता न तथास्मासु भारत ।पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ॥ १० ॥
सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः ।संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ॥ ११ ॥
दुर्योधनेन ते वीरा मानिताश्च विशेषतः ।प्राणांस्त्यक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः ॥ १२ ॥
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च ।द्रोणस्य च महाबाहो कृपस्य च महात्मनः ॥ १३ ॥
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः ।तस्मात्त्यक्ष्यन्ति संग्रामे प्राणानपि सुदुस्त्यजान् ॥ १४ ॥
सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः ।अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ॥ १५ ॥
अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः ।सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः ॥ १६ ॥
अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् ।अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ॥ १७ ॥
न निद्रामधिगच्छामि चिन्तयानो वृकोदर ।अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ॥ १८ ॥
एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः ।बभूव विमनास्त्रस्तो न चैवोवाच किंचन ॥ १९ ॥
तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः ।आजगाम महायोगी व्यासः सत्यवतीसुतः ॥ २० ॥
सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः ।युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः ॥ २१ ॥
युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम् ।मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ ॥ २२ ॥
भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत ।यत्ते भयममित्रघ्न हृदि संपरिवर्तते ॥ २३ ॥
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना ।तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय ॥ २४ ॥
तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम् ।अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ॥ २५ ॥
श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम ।येनाभिभविता शत्रून्रणे पार्थो धनंजयः ॥ २६ ॥
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव ।विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ।यामवाप्य महाबाहुरर्जुनः साधयिष्यति ॥ २७ ॥
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु ।वरुणं च धनेशं च धर्मराजं च पाण्डव ।शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ॥ २८ ॥
ऋषिरेष महातेजा नारायणसहायवान् ।पुराणः शाश्वतो देवो विष्णोरंशः सनातनः ॥ २९ ॥
अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च ।समादाय महाबाहुर्महत्कर्म करिष्यति ॥ ३० ॥
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् ।निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते ॥ ३१ ॥
एकत्र चिरवासो हि न प्रीतिजननो भवेत् ।तापसानां च शान्तानां भवेदुद्वेगकारकः ॥ ३२ ॥
मृगाणामुपयोगश्च वीरुदोषधिसंक्षयः ।बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान् ॥ ३३ ॥
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः ।प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् ॥ ३४ ॥
धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः ।अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ॥ ३५ ॥
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः ।धारयामास मेधावी काले काले समभ्यसन् ॥ ३६ ॥
स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः ।ययौ सरस्वतीतीरे काम्यकं नाम काननम् ॥ ३७ ॥
तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा ।ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ॥ ३८ ॥
ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः ।न्यविशन्त महात्मानः सामात्याः सपदानुगाः ॥ ३९ ॥
तत्र ते न्यवसन्राजन्कंचित्कालं मनस्विनः ।धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम् ॥ ४० ॥
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः ।पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ॥ ४१ ॥