३।२३७ महाभारतम् Click on words to see what they mean. दुर्योधन उवाच ।अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः ।जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया ॥ १ ॥ आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम ।मया सह महाबाहो कृतश्चोभयतः क्षयः ॥ २ ॥ मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः ।तदा नो नसमं युद्धमभवत्सह खेचरैः ॥ ३ ॥ पराजयं च प्राप्ताः स्म रणे बन्धनमेव च ।सभृत्यामात्यपुत्राश्च सदारधनवाहनाः ।उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः ॥ ४ ॥ अथ नः सैनिकाः केचिदमात्याश्च महारथान् ।उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान् ॥ ५ ॥ एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः ।सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः ॥ ६ ॥ तं मोक्षयत भद्रं वः सहदारं नराधिपम् ।परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः ॥ ७ ॥ एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा ।प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे ॥ ८ ॥ अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः ।सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः ॥ ९ ॥ यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि ।ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ ।मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः ॥ १० ॥ अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम् ।अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः ॥ ११ ॥ ततः समन्तात्पश्यामि शरजालेन वेष्टितम् ।अमानुषाणि चास्त्राणि प्रयुञ्जानं धनंजयम् ॥ १२ ॥ समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः ।धनंजयसखात्मानं दर्शयामास वै तदा ॥ १३ ॥ चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः ।कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम् ॥ १४ ॥ ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च ।एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः ।अपूजयेतामन्योन्यं चित्रसेनधनंजयौ ॥ १५ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha