३।२१० महाभारतम् Click on words to see what they mean. मार्कण्डेय उवाच ।काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः ।अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः ॥ १ ॥ अचरन्त तपस्तीव्रं पुत्रार्थे बहुवार्षिकम् ।पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम् ॥ २ ॥ महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ ।जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभावनः ॥ ३ ॥ समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा ।त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ॥ ४ ॥ पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः ।पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः ॥ ५ ॥ दश वर्षसहस्राणि तपस्तप्त्वा महातपाः ।जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन् ॥ ६ ॥ बृहद्रथंतरं मूर्ध्नो वक्त्राच्च तरसाहरौ ।शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत् ॥ ७ ॥ बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह ।एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान् ॥ ८ ॥ बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः ।भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः ॥ ९ ॥ प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः ।देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान् ॥ १० ॥ अभीममतिभीमं च भीमं भीमबलाबलम् ।एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः ॥ ११ ॥ सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम् ।मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः ॥ १२ ॥ सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम् ।सुराणामपि हन्तारं पञ्चैतानसृजत्तपः ॥ १३ ॥ त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक् ।मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः ॥ १४ ॥ तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि ।स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च ॥ १५ ॥ हविर्वेद्यां तदादानं कुशलैः संप्रवर्तितम् ।तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत् ॥ १६ ॥ चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते ।मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम् ॥ १७ ॥ बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः ।अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते ॥ १८ ॥ रथंतरश्च तपसः पुत्रोऽग्निः परिपठ्यते ।मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः ।मुमुदे परमप्रीतः सह पुत्रैर्महायशाः ॥ १९ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha