Click on words to see what they mean.

मार्कण्डेय उवाच ।एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत ।कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् ॥ १ ॥
ब्राह्मण ।महाभूतानि यान्याहुः पञ्च धर्मविदां वर ।एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ॥ २ ॥
व्याध उवाच ।भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च ।गुणोत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान् ॥ ३ ॥
भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम् ।गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः ॥ ४ ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ॥ ५ ॥
शब्दः स्पर्शश्च रूपं च रसश्चापि द्विजोत्तम ।अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत ॥ ६ ॥
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ।शब्दः स्पर्शश्च वायौ तु शब्द आकाश एव च ॥ ७ ॥
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु ।वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः ।अन्योन्यं नातिवर्तन्ते संपच्च भवति द्विज ॥ ८ ॥
यदा तु विषमीभावमाचरन्ति चराचराः ।तदा देही देहमन्यं व्यतिरोहति कालतः ॥ ९ ॥
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः ।तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ।यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १० ॥
इन्द्रियैः सृज्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् ।अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ ११ ॥
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु ।इन्द्रियाणि यदा देही धारयन्निह तप्यते ॥ १२ ॥
लोके विततमात्मानं लोकं चात्मनि पश्यति ।परावरज्ञः सक्तः सन्सर्वभूतानि पश्यति ॥ १३ ॥
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ।ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ॥ १४ ॥
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् ।लोको बुद्धिप्रकाशेन ज्ञेयमार्गेण दृश्यते ॥ १५ ॥
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् ।अनौपम्यममूर्तं च भगवानाह बुद्धिमान् ।तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि ॥ १६ ॥
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ ।निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ १७ ॥
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् ।एतन्मूलं हि तपसः कृत्स्नस्य नरकस्य च ॥ १८ ॥
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।संनियम्य तु तान्येव ततः सिद्धिमवाप्नुते ॥ १९ ॥
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति ।न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ २० ॥
रथः शरीरं पुरुषस्य दृष्टमात्मा नियन्तेन्द्रियाण्याहुरश्वान् ।तैरप्रमत्तः कुशली सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥ २१ ॥
षण्णामात्मनि नित्यानामिन्द्रियाणां प्रमाथिनाम् ।यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥ २२ ॥
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु ।धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ॥ २३ ॥
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।तदस्य हरते बुद्धिं नावं वायुरिवाम्भसि ॥ २४ ॥
येषु विप्रतिपद्यन्ते षट्सु मोहात्फलागमे ।तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् ॥ २५ ॥
« »