Click on words to see what they mean.

वैशंपायन उवाच ।तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम् ।कथासंजननार्थाय चोदयामास पाण्डवः ॥ १ ॥
भवान्दैवतदैत्यानामृषीणां च महात्मनाम् ।राजर्षीणां च सर्वेषां चरितज्ञः सनातनः ॥ २ ॥
सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम् ।अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ॥ ३ ॥
भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम् ।धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः ॥ ४ ॥
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च ।स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः ॥ ५ ॥
अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर ।इह वा कृतमन्वेति परदेहेऽथ वा पुनः ॥ ६ ॥
देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः ।कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम ॥ ७ ॥
ऐहलौकिकमेवैतदुताहो पारलौकिकम् ।क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ॥ ८ ॥
मार्कण्डेय उवाच ।त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर ।विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि ॥ ९ ॥
अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु ।यथेहामुत्र च नरः सुखदुःखमुपाश्नुते ॥ १० ॥
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् ।ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ॥ ११ ॥
अमोघबलसंकल्पाः सुव्रताः सत्यवादिनः ।ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन ॥ १२ ॥
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् ।ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ॥ १३ ॥
स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः ।अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः ॥ १४ ॥
द्रष्टारो देवसंघानामृषीणां च महात्मनाम् ।प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ॥ १५ ॥
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः ॥ १६ ॥
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः ।लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ॥ १७ ॥
अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः ।संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ॥ १८ ॥
मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः ।सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः ।अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ॥ १९ ॥
दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः ।भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः ।नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः ॥ २० ॥
जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः ।प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ॥ २१ ॥
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् ।इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ॥ २२ ॥
अयमादिशरीरेण देवसृष्टेन मानवः ।शुभानामशुभानां च कुरुते संचयं महत् ॥ २३ ॥
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् ।संभवत्येव युगपद्योनौ नास्त्यन्तराभवः ॥ २४ ॥
तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा ।फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते ॥ २५ ॥
कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः ।अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ॥ २६ ॥
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर ।अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ॥ २७ ॥
मनुष्यास्तप्ततपसः सर्वागमपरायणाः ।स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ॥ २८ ॥
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः ।शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः ॥ २९ ॥
जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः ।अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः ॥ ३० ॥
च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः ।स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ।कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् ॥ ३१ ॥
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मभिः ।प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा ॥ ३२ ॥
इमामत्रोपमां चापि निबोध वदतां वर ।मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर ॥ ३३ ॥
इह वैकस्य नामुत्र अमुत्रैकस्य नो इह ।इह चामुत्र चैकस्य नामुत्रैकस्य नो इह ॥ ३४ ॥
धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताङ्गाः ।तेषामयं शत्रुवरघ्न लोको नासौ सदा देहसुखे रतानाम् ॥ ३५ ॥
ये योगयुक्तास्तपसि प्रसक्ताः स्वाध्यायशीला जरयन्ति देहान् ।जितेन्द्रिया भूतहिते निविष्टास्तेषामसौ नायमरिघ्न लोकः ॥ ३६ ॥
ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले ।दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः ॥ ३७ ॥
ये नैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते ।न चाधिगच्छन्ति सुखान्यभाग्यास्तेषामयं चैव परश्च नास्ति ॥ ३८ ॥
सर्वे भवन्तस्त्वतिवीर्यसत्त्वा दिव्यौजसः संहननोपपन्नाः ।लोकादमुष्मादवनिं प्रपन्नाः स्वधीतविद्याः सुरकार्यहेतोः ॥ ३९ ॥
कृत्वैव कर्माणि महान्ति शूरास्तपोदमाचारविहारशीलाः ।देवानृषीन्प्रेतगणांश्च सर्वान्संतर्पयित्वा विधिना परेण ॥ ४० ॥
स्वर्गं परं पुण्यकृतां निवासं क्रमेण संप्राप्स्यथ कर्मभिः स्वैः ।मा भूद्विशङ्का तव कौरवेन्द्र दृष्ट्वात्मनः क्लेशमिमं सुखार्ह ॥ ४१ ॥
« »