३।१७९ महाभारतम् Click on words to see what they mean. वैशंपायन उवाच ।निदाघान्तकरः कालः सर्वभूतसुखावहः ।तत्रैव वसतां तेषां प्रावृट्समभिपद्यत ॥ १ ॥ छादयन्तो महाघोषाः खं दिशश्च बलाहकाः ।प्रववर्षुर्दिवारात्रमसिताः सततं तदा ॥ २ ॥ तपात्ययनिकेताश्च शतशोऽथ सहस्रशः ।अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः ॥ ३ ॥ विरूढशष्पा पृथिवी मत्तदंशसरीसृपा ।बभूव पयसा सिक्ता शान्तधूमरजोऽरुणा ॥ ४ ॥ न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते ।समं वा विषमं वापि नद्यो वा स्थावराणि वा ॥ ५ ॥ क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः ।सिन्धवः शोभयां चक्रुः काननानि तपात्यये ॥ ६ ॥ नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः ।वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ॥ ७ ॥ स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह ।मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः ॥ ८ ॥ तथा बहुविधाकारा प्रावृण्मेघानुनादिता ।अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ॥ ९ ॥ क्रौञ्चहंसगणाकीर्णा शरत्प्रणिहिताभवत् ।रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ॥ १० ॥ विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत् ।मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ॥ ११ ॥ पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः ।ग्रहनक्षत्रसंघैश्च सोमेन च विराजिताः ॥ १२ ॥ कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः ।नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः ॥ १३ ॥ आकाशनीकाशतटां नीपनीवारसंकुलाम् ।बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् ॥ १४ ॥ ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् ।पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ॥ १५ ॥ तेषां पुण्यतमा रात्रिः पर्वसंधौ स्म शारदी ।तत्रैव वसतामासीत्कार्त्तिकी जनमेजय ॥ १६ ॥ पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः ।तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम् ॥ १७ ॥ तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः ।सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम् ॥ १८ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha