लोमश उवाच ।एषा मधुविला राजन्समङ्गा संप्रकाशते ।एतत्कर्दमिलं नाम भरतस्याभिषेचनम् ॥ १ ॥
अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः ।आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत ॥ २ ॥
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ ।अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा ॥ ३ ॥
एनं पर्वतराजानमारुह्य पुरुषर्षभ ।अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ ॥ ४ ॥
एते कनखला राजनृषीणां दयिता नगाः ।एषा प्रकाशते गङ्गा युधिष्ठिर महानदी ॥ ५ ॥
सनत्कुमारो भगवानत्र सिद्धिमगात्पराम् ।आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे ॥ ६ ॥
अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् ।तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश ॥ ७ ॥
आश्रमः स्थूलशिरसो रमणीयः प्रकाशते ।अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय ॥ ८ ॥
एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते ।भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत ॥ ९ ॥
युधिष्ठिर उवाच ।कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् ।किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत ॥ १० ॥
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश ।कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे ॥ ११ ॥
लोमश उवाच ।भरद्वाजश्च रैभ्यश्च सखायौ संबभूवतुः ।तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे ॥ १२ ॥
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू ।आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत ॥ १३ ॥
रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् ।तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत ॥ १४ ॥
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् ।दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ ॥ १५ ॥
पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः ।तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव ॥ १६ ॥
सुसमिद्धे महत्यग्नौ शरीरमुपतापयन् ।जनयामास संतापमिन्द्रस्य सुमहातपाः ॥ १७ ॥
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर ।अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् ॥ १८ ॥
यवक्रीरुवाच ।द्विजानामनधीता वै वेदाः सुरगणार्चित ।प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः ॥ १९ ॥
स्वाध्यायार्थे समारम्भो ममायं पाकशासन ।तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक ॥ २० ॥
कालेन महता वेदाः शक्या गुरुमुखाद्विभो ।प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः ॥ २१ ॥
इन्द्र उवाच ।अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि ।किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् ॥ २२ ॥
लोमश उवाच ।एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत ।भूय एवाकरोद्यत्नं तपस्यमितविक्रम ॥ २३ ॥
घोरेण तपसा राजंस्तप्यमानो महातपाः ।संतापयामास भृशं देवेन्द्रमिति नः श्रुतम् ॥ २४ ॥
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् ।उपेत्य बलभिद्देवो वारयामास वै पुनः ॥ २५ ॥
अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव ।प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते ॥ २६ ॥
यवक्रीरुवाच ।न चैतदेवं क्रियते देवराज ममेप्सितम् ।महता नियमेनाहं तप्स्ये घोरतरं तपः ॥ २७ ॥
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं होष्यामि वा मघवंस्तन्निबोध ।यद्येतदेवं न करोषि कामं ममेप्सितं देवराजेह सर्वम् ॥ २८ ॥
लोमश उवाच ।निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः ।प्रतिवारणहेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान् ॥ २९ ॥
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः ।अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः ॥ ३० ॥
यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि ।भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः ॥ ३१ ॥
यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः ।वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् ॥ ३२ ॥
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् ।सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन् ॥ ३३ ॥
तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धने ।प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुंगवः ॥ ३४ ॥
किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम् ।अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः ॥ ३५ ॥
इन्द्र उवाच ।बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति ।क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः ॥ ३६ ॥
यवक्रीरुवाच ।नायं शक्यस्त्वया बद्धुं महानोघः कथंचन ।अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ ॥ ३७ ॥
इन्द्र उवाच ।यथैव भवता चेदं तपो वेदार्थमुद्यतम् ।अशक्यं तद्वदस्माभिरयं भारः समुद्यतः ॥ ३८ ॥
यवक्रीरुवाच ।यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर ।तथा यदि ममापीदं मन्यसे पाकशासन ॥ ३९ ॥
क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वर ।वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति ॥ ४० ॥
लोमश उवाच ।तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः ।प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ॥ ४१ ॥
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति ।स लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत् ॥ ४२ ॥