युधिष्ठिर उवाच ।कथंवीर्यः स राजाभूत्सोमको वदतां वर ।कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
लोमश उवाच ।युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः ।तस्य भार्याशतं राजन्सदृशीनामभूत्तदा ॥ २ ॥
स वै यत्नेन महता तासु पुत्रं महीपतिः ।कंचिन्नासादयामास कालेन महता अपि ॥ ३ ॥
कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः ।जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत ॥ ४ ॥
तं जातं मातरः सर्वाः परिवार्य समासते ।सततं पृष्ठतः कृत्वा कामभोगान्विशां पते ॥ ५ ॥
ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि ।स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः ॥ ६ ॥
ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः ।परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् ॥ ७ ॥
तमार्तनादं सहसा शुश्राव स महीपतिः ।अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः ॥ ८ ॥
ततः प्रस्थापयामास किमेतदिति पार्थिवः ।तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति ॥ ९ ॥
त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः ।प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः ॥ १० ॥
सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः ।ऋत्विजैः सहितो राजन्सहामात्य उपाविशत् ॥ ११ ॥
सोमक उवाच ।धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् ।नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता ॥ १२ ॥
इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो ।पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा ॥ १३ ॥
एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम ।यतमानस्य सर्वासु किं नु दुःखमतः परम् ॥ १४ ॥
वयश्च समतीतं मे सभार्यस्य द्विजोत्तम ।आसां प्राणाः समायत्ता मम चात्रैकपुत्रके ॥ १५ ॥
स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत् ।महता लघुना वापि कर्मणा दुष्करेण वा ॥ १६ ॥
ऋत्विगुवाच ।अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत् ।यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक ॥ १७ ॥
सोमक उवाच ।कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत् ।कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे ॥ १८ ॥
ऋत्विगुवाच ।यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ ।ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥ १९ ॥
वपायां हूयमानायां धूममाघ्राय मातरः ।ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् ॥ २० ॥
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः ।उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥ २१ ॥