वैशंपायन उवाच ।रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् ।शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ॥ १ ॥
बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् ।निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ॥ २ ॥
सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक् ।विशेषात्सर्वमेवैतत्संजज्ञे राजकर्मणः ॥ ३ ॥
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् ।राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः ॥ ४ ॥
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् ।सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे ॥ ५ ॥
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् ।अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक् ॥ ६ ॥
धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान् ।कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि ॥ ७ ॥
स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः ।विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ॥ ८ ॥
सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन् ।यज्ञकालस्तव विभो क्रियतामत्र सांप्रतम् ॥ ९ ॥
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः ।ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम् ॥ १० ॥
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह ।भूतभव्यभवन्नाथः केशवः केशिसूदनः ॥ ११ ॥
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा ।बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् ॥ १२ ॥
उच्चावचमुपादाय धर्मराजाय माधवः ।धनौघं पुरुषव्याघ्रो बलेन महता वृतः ॥ १३ ॥
तं धनौघमपर्यन्तं रत्नसागरमक्षयम् ।नादयन्रथघोषेण प्रविवेश पुरोत्तमम् ॥ १४ ॥
असूर्यमिव सूर्येण निवातमिव वायुना ।कृष्णेन समुपेतेन जहृषे भारतं पुरम् ॥ १५ ॥
तं मुदाभिसमागम्य सत्कृत्य च यथाविधि ।संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः ॥ १६ ॥
धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः ।भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत् ॥ १७ ॥
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते ।धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ॥ १८ ॥
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत ।उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव ॥ १९ ॥
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया ।अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि ॥ २० ॥
स दीक्षापय गोविन्द त्वमात्मानं महाभुज ।त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥ २१ ॥
मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो ।अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ॥ २२ ॥
तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् ।त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् ।संप्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ॥ २३ ॥
यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते ।नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः ॥ २४ ॥
युधिष्ठिर उवाच ।सफलः कृष्ण संकल्पः सिद्धिश्च नियता मम ।यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः ॥ २५ ॥
वैशंपायन उवाच ।अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह ।ईहितुं राजसूयाय साधनान्युपचक्रमे ॥ २६ ॥
तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः ।सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ॥ २७ ॥
अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः ।तथोपकरणं सर्वं मङ्गलानि च सर्वशः ॥ २८ ॥
अधियज्ञांश्च संभारान्धौम्योक्तान्क्षिप्रमेव हि ।समानयन्तु पुरुषा यथायोगं यथाक्रमम् ॥ २९ ॥
इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः ।अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ॥ ३० ॥
सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः ।मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम ॥ ३१ ॥
तद्वाक्यसमकालं तु कृतं सर्वमवेदयत् ।सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि ॥ ३२ ॥
ततो द्वैपायनो राजन्नृत्विजः समुपानयत् ।वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ॥ ३३ ॥
स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः ।धनंजयानामृषभः सुसामा सामगोऽभवत् ॥ ३४ ॥
याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः ।पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ॥ ३५ ॥
एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ ।बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ॥ ३६ ॥
ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम् ।शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत् ॥ ३७ ॥
तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः ।रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् ॥ ३८ ॥
तत आज्ञापयामास स राजा राजसत्तमः ।सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः ॥ ३९ ॥
आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् ।उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा ॥ ४० ॥
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि ।विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ॥ ४१ ॥
ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात् ।आमन्त्रयां बभूवुश्च प्रेषयामास चापरान् ॥ ४२ ॥
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् ।दीक्षयां चक्रिरे विप्रा राजसूयाय भारत ॥ ४३ ॥
दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः ।जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ॥ ४४ ॥
भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा ।क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः ।अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव ॥ ४५ ॥
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः ।सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः ॥ ४६ ॥
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् ।बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक् ।सर्वर्तुगुणसंपन्नाञ्शिल्पिनोऽथ सहस्रशः ॥ ४७ ॥
तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः ।कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् ॥ ४८ ॥
भुञ्जतां चैव विप्राणां वदतां च महास्वनः ।अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् ॥ ४९ ॥
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति ।एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः ॥ ५० ॥
गवां शतसहस्राणि शयनानां च भारत ।रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ ॥ ५१ ॥
प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः ।पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ॥ ५२ ॥
ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् ।नकुलं हास्तिनपुरं भीष्माय भरतर्षभ ॥ ५३ ॥
द्रोणाय धृतराष्ट्राय विदुराय कृपाय च ।भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे ॥ ५४ ॥