Click on words to see what they mean.

राक्षस्युवाच ।जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी ।तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् ॥ १ ॥
साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप ।तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक ॥ २ ॥
संश्लेषिते मया दैवात्कुमारः समपद्यत ।तव भाग्यैर्महाराज हेतुमात्रमहं त्विह ॥ ३ ॥
कृष्ण उवाच ।एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत ।स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः ॥ ४ ॥
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा ।आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम् ॥ ५ ॥
तस्य नामाकरोत्तत्र प्रजापतिसमः पिता ।जरया संधितो यस्माज्जरासंधस्ततोऽभवत् ॥ ६ ॥
सोऽवर्धत महातेजा मगधाधिपतेः सुतः ।प्रमाणबलसंपन्नो हुताहुतिरिवानलः ॥ ७ ॥
कस्यचित्त्वथ कालस्य पुनरेव महातपाः ।मगधानुपचक्राम भगवांश्चण्डकौशिकः ॥ ८ ॥
तस्यागमनसंहृष्टः सामात्यः सपुरःसरः ।सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः ॥ ९ ॥
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत ।स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत् ॥ १० ॥
प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः ।उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना ॥ ११ ॥
सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा ।पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति ॥ १२ ॥
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः ।देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते ।न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः ॥ १३ ॥
सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति ।सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः ॥ १४ ॥
एनमासाद्य राजानः समृद्धबलवाहनाः ।विनाशमुपयास्यन्ति शलभा इव पावकम् ॥ १५ ॥
एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति ।वर्षास्विवोद्धतजला नदीर्नदनदीपतिः ॥ १६ ॥
एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः ।शुभाशुभमिव स्फीता सर्वसस्यधरा धरा ॥ १७ ॥
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः ।सर्वभूतात्मभूतस्य वायोरिव शरीरिणः ॥ १८ ॥
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् ।सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः ॥ १९ ॥
एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन् ।विसर्जयामास नृपं बृहद्रथमथारिहन् ॥ २० ॥
प्रविश्य नगरं चैव ज्ञातिसंबन्धिभिर्वृतः ।अभिषिच्य जरासंधं मगधाधिपतिस्तदा ।बृहद्रथो नरपतिः परां निर्वृतिमाययौ ॥ २१ ॥
अभिषिक्ते जरासंधे तदा राजा बृहद्रथः ।पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत् ॥ २२ ॥
तपोवनस्थे पितरि मातृभ्यां सह भारत ।जरासंधः स्ववीर्येण पार्थिवानकरोद्वशे ॥ २३ ॥
अथ दीर्घस्य कालस्य तपोवनगतो नृपः ।सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः ॥ २४ ॥
तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ ।मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ ॥ २५ ॥
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ ।त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥ २६ ॥
एवमेष तदा वीर बलिभिः कुकुरान्धकैः ।वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः ॥ २७ ॥
« »