Click on words to see what they mean.

वैशंपायन उवाच ।ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं पतन्तः ।अथापश्यन्राममनन्तवीर्यं वृक्षे स्थितं चिन्तयानं विविक्ते ॥ १ ॥
ततः समासाद्य महानुभावः कृष्णस्तदा दारुकमन्वशासत् ।गत्वा कुरूञ्शीघ्रमिमं महान्तं पार्थाय शंसस्व वधं यदूनाम् ॥ २ ॥
ततोऽर्जुनः क्षिप्रमिहोपयातु श्रुत्वा मृतान्यादवान्ब्रह्मशापात् ।इत्येवमुक्तः स ययौ रथेन कुरूंस्तदा दारुको नष्टचेताः ॥ ३ ॥
ततो गते दारुके केशवोऽथ दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् ।स्त्रियो भवान्रक्षतु यातु शीघ्रं नैता हिंस्युर्दस्यवो वित्तलोभात् ॥ ४ ॥
स प्रस्थितः केशवेनानुशिष्टो मदातुरो ज्ञातिवधार्दितश्च ।तं वै यान्तं संनिधौ केशवस्य त्वरन्तमेकं सहसैव बभ्रुम् ।ब्रह्मानुशप्तमवधीन्महद्वै कूटोन्मुक्तं मुसलं लुब्धकस्य ॥ ५ ॥
ततो दृष्ट्वा निहतं बभ्रुमाह कृष्णो वाक्यं भ्रातरमग्रजं तु ।इहैव त्वं मां प्रतीक्षस्व राम यावत्स्त्रियो ज्ञातिवशाः करोमि ॥ ६ ॥
ततः पुरीं द्वारवतीं प्रविश्य जनार्दनः पितरं प्राह वाक्यम् ।स्त्रियो भवान्रक्षतु नः समग्रा धनंजयस्यागमनं प्रतीक्षन् ।रामो वनान्ते प्रतिपालयन्मामास्तेऽद्याहं तेन समागमिष्ये ॥ ७ ॥
दृष्टं मयेदं निधनं यदूनां राज्ञां च पूर्वं कुरुपुंगवानाम् ।नाहं विना यदुभिर्यादवानां पुरीमिमां द्रष्टुमिहाद्य शक्तः ॥ ८ ॥
तपश्चरिष्यामि निबोध तन्मे रामेण सार्धं वनमभ्युपेत्य ।इतीदमुक्त्वा शिरसास्य पादौ संस्पृश्य कृष्णस्त्वरितो जगाम ॥ ९ ॥
ततो महान्निनदः प्रादुरासीत्सस्त्रीकुमारस्य पुरस्य तस्य ।अथाब्रवीत्केशवः संनिवर्त्य शब्दं श्रुत्वा योषितां क्रोशतीनाम् ॥ १० ॥
पुरीमिमामेष्यति सव्यसाची स वो दुःखान्मोचयिता नराग्र्यः ।ततो गत्वा केशवस्तं ददर्श रामं वने स्थितमेकं विविक्ते ॥ ११ ॥
अथापश्यद्योगयुक्तस्य तस्य नागं मुखान्निःसरन्तं महान्तम् ।श्वेतं ययौ स ततः प्रेक्ष्यमाणो महार्णवो येन महानुभावः ॥ १२ ॥
सहस्रशीर्षः पर्वताभोगवर्ष्मा रक्ताननः स्वां तनुं तां विमुच्य ।सम्यक्च तं सागरः प्रत्यगृह्णान्नागा दिव्याः सरितश्चैव पुण्याः ॥ १३ ॥
कर्कोटको वासुकिस्तक्षकश्च पृथुश्रवा वरुणः कुञ्जरश्च ।मिश्री शङ्खः कुमुदः पुण्डरीकस्तथा नागो धृतराष्ट्रो महात्मा ॥ १४ ॥
ह्रादः क्राथः शितिकण्ठोऽग्रतेजास्तथा नागौ चक्रमन्दातिषण्डौ ।नागश्रेष्ठो दुर्मुखश्चाम्बरीषः स्वयं राजा वरुणश्चापि राजन् ।प्रत्युद्गम्य स्वागतेनाभ्यनन्दंस्तेऽपूजयंश्चार्घ्यपाद्यक्रियाभिः ॥ १५ ॥
ततो गते भ्रातरि वासुदेवो जानन्सर्वा गतयो दिव्यदृष्टिः ।वने शून्ये विचरंश्चिन्तयानो भूमौ ततः संविवेशाग्र्यतेजाः ॥ १६ ॥
सर्वं हि तेन प्राक्तदा वित्तमासीद्गान्धार्या यद्वाक्यमुक्तः स पूर्वम् ।दुर्वाससा पायसोच्छिष्टलिप्ते यच्चाप्युक्तं तच्च सस्मार कृष्णः ॥ १७ ॥
स चिन्तयानोऽन्धकवृष्णिनाशं कुरुक्षयं चैव महानुभावः ।मेने ततः संक्रमणस्य कालं ततश्चकारेन्द्रियसंनिरोधम् ॥ १८ ॥
स संनिरुद्धेन्द्रियवाङ्मनास्तु शिश्ये महायोगमुपेत्य कृष्णः ।जराथ तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः ॥ १९ ॥
स केशवं योगयुक्तं शयानं मृगाशङ्की लुब्धकः सायकेन ।जराविध्यत्पादतले त्वरावांस्तं चाभितस्तज्जिघृक्षुर्जगाम ।अथापश्यत्पुरुषं योगयुक्तं पीताम्बरं लुब्धकोऽनेकबाहुम् ॥ २० ॥
मत्वात्मानमपराद्धं स तस्य जग्राह पादौ शिरसा चार्तरूपः ।आश्वासयत्तं महात्मा तदानीं गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या ॥ २१ ॥
दिवं प्राप्तं वासवोऽथाश्विनौ च रुद्रादित्या वसवश्चाथ विश्वे ।प्रत्युद्ययुर्मुनयश्चापि सिद्धा गन्धर्वमुख्याश्च सहाप्सरोभिः ॥ २२ ॥
ततो राजन्भगवानुग्रतेजा नारायणः प्रभवश्चाव्ययश्च ।योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थानं प्राप स्वं महात्माप्रमेयम् ॥ २३ ॥
ततो देवैरृषिभिश्चापि कृष्णः समागतश्चारणैश्चैव राजन् ।गन्धर्वाग्र्यैरप्सरोभिर्वराभिः सिद्धैः साध्यैश्चानतैः पूज्यमानः ॥ २४ ॥
ते वै देवाः प्रत्यनन्दन्त राजन्मुनिश्रेष्ठा वाग्भिरानर्चुरीशम् ।गन्धर्वाश्चाप्युपतस्थुः स्तुवन्तः प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत् ॥ २५ ॥
« »