१५।२८ महाभारतम् Click on words to see what they mean. वैशंपायन उवाच ।वनं गते कौरवेन्द्रे दुःखशोकसमाहताः ।बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः ॥ १ ॥ तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् ।कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति ॥ २ ॥ कथं नु राजा वृद्धः स वने वसति निर्जने ।गान्धारी च महाभागा सा च कुन्ती पृथा कथम् ॥ ३ ॥ सुखार्हः स हि राजर्षिर्न सुखं तन्महावनम् ।किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः ॥ ४ ॥ सुदुष्करं कृतवती कुन्ती पुत्रानपश्यती ।राज्यश्रियं परित्यज्य वनवासमरोचयत् ॥ ५ ॥ विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान् ।स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः ॥ ६ ॥ आकुमारं च पौरास्ते चिन्ताशोकसमाहताः ।तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम् ॥ ७ ॥ पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः ।शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे ॥ ८ ॥ तथैव पितरं वृद्धं हतपुत्रं जनेश्वरम् ।गान्धारीं च महाभागां विदुरं च महामतिम् ॥ ९ ॥ नैषां बभूव संप्रीतिस्तान्विचिन्तयतां तदा ।न राज्ये न च नारीषु न वेदाध्ययने तथा ॥ १० ॥ परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम् ।तच्च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः ॥ ११ ॥ अभिमन्योश्च बालस्य विनाशं रणमूर्धनि ।कर्णस्य च महाबाहोः संग्रामेष्वपलायिनः ॥ १२ ॥ तथैव द्रौपदेयानामन्येषां सुहृदामपि ।वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् ॥ १३ ॥ हतप्रवीरां पृथिवीं हतरत्नां च भारत ।सदैव चिन्तयन्तस्ते न निद्रामुपलेभिरे ॥ १४ ॥ द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी ।नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् ॥ १५ ॥ वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम् ।धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः ॥ १६ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha