१५।२५ महाभारतम् Click on words to see what they mean. वैशंपायन उवाच ।ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते ।निवासमकरोद्राजा विदुरस्य मते स्थितः ॥ १ ॥ तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः ।क्षत्रविट्शूद्रसंघाश्च बहवो भरतर्षभ ॥ २ ॥ स तैः परिवृतो राजा कथाभिरभिनन्द्य तान् ।अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च ॥ ३ ॥ सायाह्ने स महीपालस्ततो गङ्गामुपेत्य ह ।चकार विधिवच्छौचं गान्धारी च यशस्विनी ॥ ४ ॥ तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत ।चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः ॥ ५ ॥ कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा ।गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत् ॥ ६ ॥ राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः ।जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः ॥ ७ ॥ ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः ।सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः ॥ ८ ॥ तत्राश्रमपदं धीमानभिगम्य स पार्थिवः ।आससादाथ राजर्षिः शतयूपं मनीषिणम् ॥ ९ ॥ स हि राजा महानासीत्केकयेषु परंतपः ।स पुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् ॥ १० ॥ तेनासौ सहितो राजा ययौ व्यासाश्रमं तदा ।तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् ॥ ११ ॥ स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः ।शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा ॥ १२ ॥ तस्मै सर्वं विधिं राजन्राजाचख्यौ महामतिः ।आरण्यकं महाराज व्यासस्यानुमते तदा ॥ १३ ॥ एवं स तपसा राजा धृतराष्ट्रो महामनाः ।योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ॥ १४ ॥ तथैव देवी गान्धारी वल्कलाजिनवासिनी ।कुन्त्या सह महाराज समानव्रतचारिणी ॥ १५ ॥ कर्मणा मनसा वाचा चक्षुषा चापि ते नृप ।संनियम्येन्द्रियग्राममास्थिताः परमं तपः ॥ १६ ॥ त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृताङ्गः ।स पार्थिवस्तत्र तपश्चचार महर्षिवत्तीव्रमपेतदोषः ॥ १७ ॥ क्षत्ता च धर्मार्थविदग्र्यबुद्धिः ससंजयस्तं नृपतिं सदारम् ।उपाचरद्घोरतपो जितात्मा तदा कृशो वल्कलचीरवासाः ॥ १८ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha