ब्राह्मण उवाच ।न तद्दुर्योधनकृतं न च तद्भवता कृतम् ।न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः ॥ १ ॥
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम् ।दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ २ ॥
अक्षौहिण्यो महाराज दशाष्टौ च समागताः ।अष्टादशाहेन हता दशभिर्योधपुंगवैः ॥ ३ ॥
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना ।युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह ॥ ४ ॥
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैर्नृप ।जनक्षयोऽयं नृपते कृतो दैवबलात्कृतैः ॥ ५ ॥
अवश्यमेव संग्रामे क्षत्रियेण विशेषतः ।कर्तव्यं निधनं लोके शस्त्रेण क्षत्रबन्धुना ॥ ६ ॥
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः ।पृथिवी निहता सर्वा सहया सरथद्विपा ॥ ७ ॥
न स राजापराध्नोति पुत्रस्तव महामनाः ।न भवान्न च ते भृत्या न कर्णो न च सौबलः ॥ ८ ॥
यद्विनष्टाः कुरुश्रेष्ठा राजानश्च सहस्रशः ।सर्वं दैवकृतं तद्वै कोऽत्र किं वक्तुमर्हति ॥ ९ ॥
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः ।धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् ॥ १० ॥
लभतां वीरलोकान्स ससहायो नराधिपः ।द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखी ॥ ११ ॥
प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम् ।वेद पुण्यं च कार्त्स्न्येन सम्यग्भरतसत्तम ॥ १२ ॥
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः ।समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः ॥ १३ ॥
अनुवत्स्यन्ति चापीमाः समेषु विषमेषु च ।प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् ॥ १४ ॥
ब्रह्मदेयाग्रहारांश्च परिहारांश्च पार्थिव ।पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः ॥ १५ ॥
दीर्घदर्शी कृतप्रज्ञः सदा वैश्रवणो यथा ।अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः ॥ १६ ॥
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभ ।ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा ॥ १७ ॥
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै ।न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः ॥ १८ ॥
मन्दा मृदुषु कौरव्यास्तीक्ष्णेष्वाशीविषोपमाः ।वीर्यवन्तो महात्मानः पौराणां च हिते रताः ॥ १९ ॥
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती ।अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित् ॥ २० ॥
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम् ।न पृष्ठतः करिष्यन्ति पौरजानपदा जनाः ॥ २१ ॥
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः ।मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः ॥ २२ ॥
स राजन्मानसं दुःखमपनीय युधिष्ठिरात् ।कुरु कार्याणि धर्म्याणि नमस्ते भरतर्षभ ॥ २३ ॥
वैशंपायन उवाच ।तस्य तद्वचनं धर्म्यमनुबन्धगुणोत्तरम् ।साधु साध्विति सर्वः स जनः प्रतिगृहीतवान् ॥ २४ ॥
धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः ।विसर्जयामास तदा सर्वास्तु प्रकृतीः शनैः ॥ २५ ॥
स तैः संपूजितो राजा शिवेनावेक्षितस्तदा ।प्राञ्जलिः पूजयामास तं जनं भरतर्षभ ॥ २६ ॥
ततो विवेश भुवनं गान्धार्या सहितो नृपः ।व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत् ॥ २७ ॥