Click on words to see what they mean.

देवा ऊचुः ।असुरस्तारको नाम त्वया दत्तवरः प्रभो ।सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ॥ १ ॥
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह ।परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ॥ २ ॥
ब्रह्मोवाच ।समोऽहं सर्वभूतानामधर्मं नेह रोचये ।हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः ॥ ३ ॥
वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः ।विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ॥ ४ ॥
देवा ऊचुः ।वरदानाद्भगवतो दैतेयो बलगर्वितः ।देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् ॥ ५ ॥
स हि नैव स्म देवानां नासुराणां न रक्षसाम् ।वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ॥ ६ ॥
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते ।न भविष्यति वोऽपत्यमिति सर्वजगत्पते ॥ ७ ॥
ब्रह्मोवाच ।हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः ।स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम् ॥ ८ ॥
तद्वै सर्वानतिक्रम्य देवदानवराक्षसान् ।मानुषानथ गन्धर्वान्नागानथ च पक्षिणः ॥ ९ ॥
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति ।यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः ॥ १० ॥
सनातनो हि संकल्पः काम इत्यभिधीयते ।रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत् ॥ ११ ॥
तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम् ।वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति ॥ १२ ॥
स तु नावाप तं शापं नष्टः स हुतभुक्तदा ।तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः ॥ १३ ॥
अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम् ।तारकस्य वधोपायः कथितो वै मयानघाः ॥ १४ ॥
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै ।बलान्यतिबलं प्राप्य नबलानि भवन्ति वै ॥ १५ ॥
हन्यादवध्यान्वरदानपि चैव तपस्विनः ।संकल्पाभिरुचिः कामः सनातनतमोऽनलः ॥ १६ ॥
जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः ।हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥ १७ ॥
अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः ।स वो मनोगतं कामं देवः संपादयिष्यति ॥ १८ ॥
एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः ।जग्मुः संसिद्धसंकल्पाः पर्येषन्तो विभावसुम् ॥ १९ ॥
ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह ।काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः ॥ २० ॥
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः ।लोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वह ।नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम् ॥ २१ ॥
ततः संजातसंत्रासानग्नेर्दर्शनलालसान् ।जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः ।उवाच देवान्मण्डूको रसातलतलोत्थितः ॥ २२ ॥
रसातलतले देवा वसत्यग्निरिति प्रभो ।संतापादिह संप्राप्तः पावकप्रभवादहम् ॥ २३ ॥
स संसुप्तो जले देवा भगवान्हव्यवाहनः ।अपः संसृज्य तेजोभिस्तेन संतापिता वयम् ॥ २४ ॥
तस्य दर्शनमिष्टं वो यदि देवा विभावसोः ।तत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना ॥ २५ ॥
गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः ।एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ॥ २६ ॥
हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम् ।शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ॥ २७ ॥
तं स संयुज्य शापेन मण्डूकं पावको ययौ ।अन्यत्र वासाय विभुर्न च देवानदर्शयत् ॥ २८ ॥
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह ।यत्तच्छृणु महाबाहो गदतो मम सर्वशः ॥ २९ ॥
देवा ऊचुः ।अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः ।सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ ॥ ३० ॥
बिलवासगतांश्चैव निरादानानचेतसः ।गतासूनपि वः शुष्कान्भूमिः संधारयिष्यति ।तमोगतायामपि च निशायां विचरिष्यथ ॥ ३१ ॥
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् ।परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् ॥ ३२ ॥
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः ।अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह ॥ ३३ ॥
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः ।प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह ॥ ३४ ॥
इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः ।प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ॥ ३५ ॥
अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो ।देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः ॥ ३६ ॥
देवा ऊचुः ।प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ ।वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम् ।इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः ॥ ३७ ॥
अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदा ।शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् ॥ ३८ ॥
शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि ।जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा ॥ ३९ ॥
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः ।भविता न त्वमत्यन्तं शकुने नष्टवागिति ॥ ४० ॥
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति ।बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् ॥ ४१ ॥
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः ।तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि ॥ ४२ ॥
ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते ।उत्पादने तथोपायमनुजग्मुश्च मानवाः ॥ ४३ ॥
आपो रसातले यास्तु संसृष्टाश्चित्रभानुना ।ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव ।पावकेनाधिशयता संतप्तास्तस्य तेजसा ॥ ४४ ॥
ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा ।किमागमनमित्येवं तानपृच्छत पावकः ॥ ४५ ॥
तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः ।त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति ।कृते च तस्मिन्भविता तवापि सुमहान्गुणः ॥ ४६ ॥
अग्निरुवाच ।ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः ।भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा ॥ ४७ ॥
देवा ऊचुः ।असुरस्तारको नाम ब्रह्मणो वरदर्पितः ।अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् ॥ ४८ ॥
इमान्देवगणांस्तात प्रजापतिगणांस्तथा ।ऋषींश्चापि महाभागान्परित्रायस्व पावक ॥ ४९ ॥
अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो ।यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ॥ ५० ॥
शप्तानां नो महादेव्या नान्यदस्ति परायणम् ।अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः ॥ ५१ ॥
इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक् ।जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ॥ ५२ ॥
तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा ।ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ॥ ५३ ॥
तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना ।संतापमगमत्तीव्रं सा सोढुं न शशाक ह ॥ ५४ ॥
आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते ।गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत् ॥ ५५ ॥
अबुद्धापतितेनाथ नादेन विपुलेन सा ।वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना ।विसंज्ञा नाशकद्गर्भं संधारयितुमात्मना ॥ ५६ ॥
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी ।उवाच वचनं विप्र तदा गर्भबलोद्धता ।न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे ॥ ५७ ॥
विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम् ।विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ ॥ ५८ ॥
धारणे नास्य शक्ताहं गर्भस्य तपतां वर ।उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथंचन ॥ ५९ ॥
न चेतसोऽस्ति संस्पर्शो मम देव विभावसो ।आपदर्थे हि संबन्धः सुसूक्ष्मोऽपि महाद्युते ॥ ६० ॥
यदत्र गुणसंपन्नमितरं वा हुताशन ।त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ ॥ ६१ ॥
तामुवाच ततो वह्निर्धार्यतां धार्यतामयम् ।गर्भो मत्तेजसा युक्तो महागुणफलोदयः ॥ ६२ ॥
शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा ।न हि ते किंचिदप्राप्यं मद्रेतोधारणादृते ॥ ६३ ॥
सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा ।समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा ॥ ६४ ॥
समर्था धारणे चापि रुद्रतेजःप्रधर्षिता ।नाशकत्तं तदा गर्भं संधारयितुमोजसा ॥ ६५ ॥
सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम् ।दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह ।पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः ॥ ६६ ॥
कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते ।तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे ॥ ६७ ॥
गङ्गोवाच ।जातरूपः स गर्भो वै तेजसा त्वमिवानल ।सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् ॥ ६८ ॥
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः ।गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर ॥ ६९ ॥
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः ।यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा ।तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत ॥ ७० ॥
पर्यधावत शैलांश्च नदीः प्रस्रवणानि च ।व्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम् ॥ ७१ ॥
एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन ।सूर्यवैश्वानरसमः कान्त्या सोम इवापरः ।एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ॥ ७२ ॥
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् ।जगामेष्टं ततो देशं तदा भार्गवनन्दन ॥ ७३ ॥
एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते ।हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा ।पृथिवी च तदा देवी ख्याता वसुमतीति वै ॥ ७४ ॥
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः ।दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ॥ ७५ ॥
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम् ।जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः ॥ ७६ ॥
ततः स कार्त्तिकेयत्वमवाप परमद्युतिः ।स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् ॥ ७७ ॥
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः ।तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् ॥ ७८ ॥
ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम् ।यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः ॥ ७९ ॥
पवित्राणां पवित्रं हि कनकं द्विजसत्तम ।अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् ॥ ८० ॥
रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम् ।पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥ ८१ ॥
« »