Click on words to see what they mean.

युधिष्ठिर उवाच ।तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा ।भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया ।परिश्रान्तो निववृते व्रीडितो नष्टचेतनः ॥ २ ॥
स प्रविश्य पुरीं दीनो नाभ्यभाषत किंचन ।तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ॥ ३ ॥
अथ शून्येन मनसा प्रविवेश गृहं नृपः ।ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् ॥ ४ ॥
विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च ।दर्शनात्तस्य च मुनेर्विश्रान्तौ संबभूवतुः ॥ ५ ॥
यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः ।अथापरेण पार्श्वेन सुष्वाप स महामुनिः ॥ ६ ॥
तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् ।न च तौ चक्रतुः किंचिद्विकारं भयशङ्कितौ ॥ ७ ॥
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते ।तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ॥ ८ ॥
तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ ।शतपाकेन तैलेन महार्हेणोपतस्थतुः ॥ ९ ॥
ततः सुखासीनमृषिं वाग्यतौ संववाहतुः ।न च पर्याप्तमित्याह भार्गवः सुमहातपाः ॥ १० ॥
यदा तौ निर्विकारौ तु लक्षयामास भार्गवः ।तत उत्थाय सहसा स्नानशालां विवेश ह ।कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् ॥ ११ ॥
असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत ।स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा ।नासूयां चक्रतुस्तौ च दंपती भरतर्षभ ॥ १२ ॥
अथ स्नातः स भगवान्सिंहासनगतः प्रभुः ।दर्शयामास कुशिकं सभार्यं भृगुनन्दनः ॥ १३ ॥
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् ।सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ॥ १४ ॥
आनीयतामिति मुनिस्तं चोवाच नराधिपम् ।राजा च समुपाजह्रे तदन्नं सह भार्यया ॥ १५ ॥
मांसप्रकारान्विविधाञ्शाकानि विविधानि च ।वेसवारविकारांश्च पानकानि लघूनि च ॥ १६ ॥
रसालापूपकांश्चित्रान्मोदकानथ षाडवान् ।रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ॥ १७ ॥
फलानि च विचित्राणि तथा भोज्यानि भूरिशः ।बदरेङ्गुदकाश्मर्यभल्लातकवटानि च ॥ १८ ॥
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् ।सर्वमाहारयामास राजा शापभयान्मुनेः ॥ १९ ॥
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् ।ततः सर्वं समानीय तच्च शय्यासनं मुनिः ॥ २० ॥
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह ।सर्वमादीपयामास च्यवनो भृगुनन्दनः ॥ २१ ॥
न च तौ चक्रतुः कोपं दंपती सुमहाव्रतौ ।तयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ॥ २२ ॥
तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा ।सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् ॥ २३ ॥
नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि ।शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ॥ २४ ॥
वस्त्रं च विविधाकारमभवत्समुपार्जितम् ।न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा ॥ २५ ॥
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् ।सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ॥ २६ ॥
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् ।क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः ॥ २७ ॥
इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः ।च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम् ॥ २८ ॥
सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतः ।सायुधः सपताकश्च सशक्तिः कणयष्टिमान् ॥ २९ ॥
किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः ।गदाखड्गनिबद्धश्च परमेषुशतान्वितः ॥ ३० ॥
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् ।भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ॥ ३१ ॥
त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् ।सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् ॥ ३२ ॥
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनः ।यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ॥ ३३ ॥
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् ।इतःप्रभृति यातव्यं पदकं पदकं शनैः ॥ ३४ ॥
श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ ।सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु ॥ ३५ ॥
नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु ।ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि ॥ ३६ ॥
सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हि ।क्रियतां निखिलेनैतन्मा विचारय पार्थिव ॥ ३७ ॥
तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् ।यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ॥ ३८ ॥
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् ।कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ॥ ३९ ॥
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः ।हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् ॥ ४० ॥
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ ।पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ॥ ४१ ॥
वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौ ।कथंचिदूहतुर्वीरौ दंपती तं रथोत्तमम् ॥ ४२ ॥
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् ।ददृशाते महाराज पुष्पिताविव किंशुकौ ॥ ४३ ॥
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः ।अभिशापभयात्त्रस्तो न च किंचिदुवाच ह ॥ ४४ ॥
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् ।क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः ॥ ४५ ॥
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः ।राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ॥ ४६ ॥
श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः ।न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ॥ ४७ ॥
भीष्म उवाच ।ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः ।वसु विश्राणयामास यथा वैश्रवणस्तथा ॥ ४८ ॥
तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत् ।ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ॥ ४९ ॥
अवतीर्य रथश्रेष्ठाद्दंपती तौ मुमोच ह ।विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ॥ ५० ॥
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया ।ददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत ॥ ५१ ॥
सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमः ।पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम ॥ ५२ ॥
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह ।विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव ॥ ५३ ॥
अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा ।न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ॥ ५४ ॥
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् ।कंचित्कालं व्रतपरो निवत्स्यामीह पार्थिव ॥ ५५ ॥
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि ।इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप ॥ ५६ ॥
न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम् ।यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं संभविष्यति ॥ ५७ ॥
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना ।प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ॥ ५८ ॥
न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वया ।संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ ॥ ५९ ॥
प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया ।तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया ॥ ६० ॥
इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् ।श्रिया परमया युक्तां यथादृष्टां मया पुरा ॥ ६१ ॥
तव प्रसादात्संवृत्तमिदं सर्वं महामुने ।नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ॥ ६२ ॥
इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा ।आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ॥ ६३ ॥
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् ।प्रययौ वपुषा युक्तो नगरं देवराजवत् ॥ ६४ ॥
तत एनमुपाजग्मुरमात्याः सपुरोहिताः ।बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ॥ ६५ ॥
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् ।प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः ॥ ६६ ॥
ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः ।भुक्त्वा सभार्यो रजनीमुवास स महीपतिः ॥ ६७ ॥
ततस्तु तौ नवमभिवीक्ष्य यौवनं परस्परं विगतजराविवामरौ ।ननन्दतुः शयनगतौ वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तया ॥ ६८ ॥
स चाप्यृषिर्भृगुकुलकीर्तिवर्धनस्तपोधनो वनमभिराममृद्धिमत् ।मनीषया बहुविधरत्नभूषितं ससर्ज यन्नास्ति शतक्रतोरपि ॥ ६९ ॥
« »