Click on words to see what they mean.

युधिष्ठिर उवाच ।अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात् ।अज्ञानाद्वापि वर्णानां जायते वर्णसंकरः ॥ १ ॥
तेषामेतेन विधिना जातानां वर्णसंकरे ।को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह ॥ २ ॥
भीष्म उवाच ।चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् ।असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः ॥ ३ ॥
भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते ।आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः ॥ ४ ॥
परं शवाद्ब्राह्मणस्यैष पुत्रः शूद्रापुत्रं पारशवं तमाहुः ।शुश्रूषकः स्वस्य कुलस्य स स्यात्स्वं चारित्रं नित्यमथो न जह्यात् ॥ ५ ॥
सर्वानुपायानपि संप्रधार्य समुद्धरेत्स्वस्य कुलस्य तन्तुम् ।ज्येष्ठो यवीयानपि यो द्विजस्य शुश्रूषवान्दानपरायणः स्यात् ॥ ६ ॥
तिस्रः क्षत्रियसंबन्धाद्द्वयोरात्मास्य जायते ।हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः ॥ ७ ॥
द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते ।शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ॥ ८ ॥
अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः ।बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥ ९ ॥
अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् ।वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥ १० ॥
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् ।ब्राह्मण्यां संप्रजायन्त इत्येते कुलपांसनाः ।एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो ॥ ११ ॥
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः ।शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥ १२ ॥
शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणः ।ब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः ॥ १३ ॥
एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु ।मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु ॥ १४ ॥
यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते ।आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः ॥ १५ ॥
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु ।परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् ॥ १६ ॥
यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते ।एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते ॥ १७ ॥
प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनः ।हीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते ॥ १८ ॥
अगम्यागमनाच्चैव वर्तते वर्णसंकरः ।व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च ।प्रसाधनोपचारज्ञमदासं दासजीवनम् ॥ १९ ॥
अतश्चायोगवं सूते वागुरावनजीवनम् ।मैरेयकं च वैदेहः संप्रसूतेऽथ माधुकम् ॥ २० ॥
निषादो मुद्गरं सूते दाशं नावोपजीविनम् ।मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम् ॥ २१ ॥
चतुरो मागधी सूते क्रूरान्मायोपजीविनः ।मांसस्वादुकरं सूदं सौगन्धमिति संज्ञितम् ॥ २२ ॥
वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम् ।निषादान्मद्रनाभं च खरयानप्रयायिनम् ॥ २३ ॥
चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् ।मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ॥ २४ ॥
आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः ।क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः ॥ २५ ॥
कारावरो निषाद्यां तु चर्मकारात्प्रजायते ।चण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् ॥ २६ ॥
आहिण्डिको निषादेन वैदेह्यां संप्रजायते ।चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् ॥ २७ ॥
निषादी चापि चण्डालात्पुत्रमन्तावसायिनम् ।श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ॥ २८ ॥
इत्येताः संकरे जात्यः पितृमातृव्यतिक्रमात् ।प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ २९ ॥
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते ।वर्णानां धर्महीनेषु संज्ञा नास्तीह कस्यचित् ॥ ३० ॥
यदृच्छयोपसंपन्नैर्यज्ञसाधुबहिष्कृतैः ।बाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम् ॥ ३१ ॥
चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् ।युञ्जन्ते चाप्यलंकारांस्तथोपकरणानि च ॥ ३२ ॥
गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः ।आनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा ॥ ३३ ॥
स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् ।मनुजव्याघ्र भवति तत्र मे नास्ति संशयः ॥ ३४ ॥
यथोपदेशं परिकीर्तितासु नरः प्रजायेत विचार्य बुद्धिमान् ।विहीनयोनिर्हि सुतोऽवसादयेत्तितीर्षमाणं सलिले यथोपलम् ॥ ३५ ॥
अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।नयन्ते ह्युत्पथं नार्यः कामक्रोधवशानुगम् ॥ ३६ ॥
स्वभावश्चैव नारीणां नराणामिह दूषणम् ।इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ॥ ३७ ॥
युधिष्ठिर उवाच ।वर्णापेतमविज्ञातं नरं कलुषयोनिजम् ।आर्यरूपमिवानार्यं कथं विद्यामहे नृप ॥ ३८ ॥
भीष्म उवाच ।योनिसंकलुषे जातं नानाचारसमाहितम् ।कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता ॥ ३९ ॥
अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता ।पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ ४० ॥
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् ।न कथंचन संकीर्णः प्रकृतिं स्वां नियच्छति ॥ ४१ ॥
यथैव सदृशो रूपे मातापित्रोर्हि जायते ।व्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति ॥ ४२ ॥
कुलस्रोतसि संछन्ने यस्य स्याद्योनिसंकरः ।संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥ ४३ ॥
आर्यरूपसमाचारं चरन्तं कृतके पथि ।स्ववर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये ॥ ४४ ॥
नानावृत्तेषु भूतेषु नानाकर्मरतेषु च ।जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ॥ ४५ ॥
शरीरमिह सत्त्वेन नरस्य परिकृष्यते ।ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते ॥ ४६ ॥
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् ।अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत् ॥ ४७ ॥
आत्मानमाख्याति हि कर्मभिर्नरः स्वशीलचारित्रकृतैः शुभाशुभैः ।प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मभिः ॥ ४८ ॥
योनिष्वेतासु सर्वासु संकीर्णास्वितरासु च ।यत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत् ॥ ४९ ॥
« »