१३।२५ महाभारतम् Click on words to see what they mean. युधिष्ठिर उवाच ।इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत ।अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥ १ ॥ भीष्म उवाच ।व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम् ।तत्तेऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु ॥ २ ॥ चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने ।अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥ ३ ॥ इति पृष्टो महाराज पराशरशरीरजः ।अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् ॥ ४ ॥ ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् ।ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ॥ ५ ॥ मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत ।वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ॥ ६ ॥ गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप ।उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् ॥ ७ ॥ यः प्रवृत्तां श्रुतिं सम्यक्शास्त्रं वा मुनिभिः कृतम् ।दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥ ८ ॥ आत्मजां रूपसंपन्नां महतीं सदृशे वरे ।न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम् ॥ ९ ॥ अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु ।दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ॥ १० ॥ चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा ।हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् ॥ ११ ॥ आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे ।अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् ॥ १२ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha