Click on words to see what they mean.

युधिष्ठिर उवाच ।ब्राह्मणानर्चसे राजन्सततं संशितव्रतान् ।कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप ॥ १ ॥
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत ।तानर्चसि महाबाहो सर्वमेतद्वदस्व मे ॥ २ ॥
भीष्म उवाच ।एष ते केशवः सर्वमाख्यास्यति महामतिः ।व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः ॥ ३ ॥
बलं श्रोत्रे वाङ्मनश्चक्षुषी च ज्ञानं तथा न विशुद्धं ममाद्य ।देहन्यासो नातिचिरान्मतो मे न चातितूर्णं सविताद्य याति ॥ ४ ॥
उक्ता धर्मा ये पुराणे महान्तो ब्राह्मणानां क्षत्रियाणां विशां च ।पौराणं ये दण्डमुपासते च शेषं कृष्णादुपशिक्षस्व पार्थ ॥ ५ ॥
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं योऽयं हि यच्चास्य बलं पुराणम् ।अमेयात्मा केशवः कौरवेन्द्र सोऽयं धर्मं वक्ष्यति संशयेषु ॥ ६ ॥
कृष्णः पृथ्वीमसृजत्खं दिवं च वराहोऽयं भीमबलः पुराणः ।अस्य चाधोऽथान्तरिक्षं दिवं च दिशश्चतस्रः प्रदिशश्चतस्रः ।सृष्टिस्तथैवेयमनुप्रसूता स निर्ममे विश्वमिदं पुराणम् ॥ ७ ॥
अस्य नाभ्यां पुष्करं संप्रसूतं यत्रोत्पन्नः स्वयमेवामितौजाः ।येनाच्छिन्नं तत्तमः पार्थ घोरं यत्तत्तिष्ठत्यर्णवं तर्जयानम् ॥ ८ ॥
कृते युगे धर्म आसीत्समग्रस्त्रेताकाले ज्ञानमनुप्रपन्नः ।बलं त्वासीद्द्वापरे पार्थ कृष्णः कलावधर्मः क्षितिमाजगाम ॥ ९ ॥
स पूर्वदेवो निजघान दैत्यान्स पूर्वदेवश्च बभूव सम्राट् ।स भूतानां भावनो भूतभव्यः स विश्वस्यास्य जगतश्चापि गोप्ता ॥ १० ॥
यदा धर्मो ग्लायति वै सुराणां तदा कृष्णो जायते मानुषेषु ।धर्मे स्थित्वा स तु वै भावितात्मा परांश्च लोकानपरांश्च याति ॥ ११ ॥
त्याज्यांस्त्यक्त्वाथासुराणां वधाय कार्याकार्ये कारणं चैव पार्थ ।कृतं करिष्यत्क्रियते च देवो मुहुः सोमं विद्धि च शक्रमेतम् ॥ १२ ॥
स विश्वकर्मा स च विश्वरूपः स विश्वभृद्विश्वसृग्विश्वजिच्च ।स शूलभृच्छोणितभृत्करालस्तं कर्मभिर्विदितं वै स्तुवन्ति ॥ १३ ॥
तं गन्धर्वा अप्सरसश्च नित्यमुपतिष्ठन्ते विबुधानां शतानि ।तं राक्षसाश्च परिसंवहन्ते रायस्पोषः स विजिगीषुरेकः ॥ १४ ॥
तमध्वरे शंसितारः स्तुवन्ति रथंतरे सामगाश्च स्तुवन्ति ।तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति तस्मै हविरध्वर्यवः कल्पयन्ति ॥ १५ ॥
स पौराणीं ब्रह्मगुहां प्रविष्टो महीसत्रं भारताग्रे ददर्श ।स चैव गामुद्दधाराग्र्यकर्मा विक्षोभ्य दैत्यानुरगान्दानवांश्च ॥ १६ ॥
तस्य भक्षान्विविधान्वेदयन्ति तमेवाजौ वाहनं वेदयन्ति ।तस्यान्तरिक्षं पृथिवी दिवं च सर्वं वशे तिष्ठति शाश्वतस्य ॥ १७ ॥
स कुम्भरेताः ससृजे पुराणं यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् ।स मातरिश्वा विभुरश्ववाजी स रश्मिमान्सविता चादिदेवः ॥ १८ ॥
तेनासुरा विजिताः सर्व एव तस्य विक्रान्तैर्विजितानीह त्रीणि ।स देवानां मानुषाणां पितॄणां तमेवाहुर्यज्ञविदां वितानम् ॥ १९ ॥
स एव कालं विभजन्नुदेति तस्योत्तरं दक्षिणं चायने द्वे ।तस्यैवोर्ध्वं तिर्यगधश्चरन्ति गभस्तयो मेदिनीं तापयन्तः ॥ २० ॥
तं ब्राह्मणा वेदविदो जुषन्ति तस्यादित्यो भामुपयुज्य भाति ।स मासि मास्यध्वरकृद्विधत्ते तमध्वरे वेदविदः पठन्ति ॥ २१ ॥
स एकयुक्चक्रमिदं त्रिनाभि सप्ताश्वयुक्तं वहते वै त्रिधामा ।महातेजाः सर्वगः सर्वसिंहः कृष्णो लोकान्धारयते तथैकः ।अश्नन्ननश्नंश्च तथैव धीरः कृष्णं सदा पार्थ कर्तारमेहि ॥ २२ ॥
स एकदा कक्षगतो महात्मा तृप्तो विभुः खाण्डवे धूमकेतुः ।स राक्षसानुरगांश्चावजित्य सर्वत्रगः सर्वमग्नौ जुहोति ॥ २३ ॥
स एवाश्वः श्वेतमश्वं प्रयच्छत्स एवाश्वानथ सर्वांश्चकार ।त्रिवन्धुरस्तस्य रथस्त्रिचक्रस्त्रिवृच्छिराश्चतुरस्रश्च तस्य ॥ २४ ॥
स विहायो व्यदधात्पञ्चनाभिः स निर्ममे गां दिवमन्तरिक्षम् ।एवं रम्यानसृजत्पर्वतांश्च हृषीकेशोऽमितदीप्ताग्नितेजाः ॥ २५ ॥
स लङ्घयन्वै सरितो जिघांसन्स तं वज्रं प्रहरन्तं निरास ।स महेन्द्रः स्तूयते वै महाध्वरे विप्रैरेको ऋक्सहस्रैः पुराणैः ॥ २६ ॥
दुर्वासा वै तेन नान्येन शक्यो गृहे राजन्वासयितुं महौजाः ।तमेवाहुरृषिमेकं पुराणं स विश्वकृद्विदधात्यात्मभावान् ॥ २७ ॥
वेदांश्च यो वेदयतेऽधिदेवो विधींश्च यश्चाश्रयते पुराणान् ।कामे वेदे लौकिके यत्फलं च विष्वक्सेने सर्वमेतत्प्रतीहि ॥ २८ ॥
ज्योतींषि शुक्लानि च सर्वलोके त्रयो लोका लोकपालास्त्रयश्च ।त्रयोऽग्नयो व्याहृतयश्च तिस्रः सर्वे देवा देवकीपुत्र एव ॥ २९ ॥
संवत्सरः स ऋतुः सोऽर्धमासः सोऽहोरात्रः स कला वै स काष्ठाः ।मात्रा मुहूर्ताश्च लवाः क्षणाश्च विष्वक्सेने सर्वमेतत्प्रतीहि ॥ ३० ॥
चन्द्रादित्यौ ग्रहनक्षत्रताराः सर्वाणि दर्शान्यथ पौर्णमास्यः ।नक्षत्रयोगा ऋतवश्च पार्थ विष्वक्सेनात्सर्वमेतत्प्रसूतम् ॥ ३१ ॥
रुद्रादित्या वसवोऽथाश्विनौ च साध्या विश्वे मरुतां षड्गणाश्च ।प्रजापतिर्देवमातादितिश्च सर्वे कृष्णादृषयश्चैव सप्त ॥ ३२ ॥
वायुर्भूत्वा विक्षिपते च विश्वमग्निर्भूत्वा दहते विश्वरूपः ।आपो भूत्वा मज्जयते च सर्वं ब्रह्मा भूत्वा सृजते विश्वसंघान् ॥ ३३ ॥
वेद्यं च यद्वेदयते च वेदान्विधिश्च यश्चाश्रयते विधेयान् ।धर्मे च वेदे च बले च सर्वं चराचरं केशवं त्वं प्रतीहि ॥ ३४ ॥
ज्योतिर्भूतः परमोऽसौ पुरस्तात्प्रकाशयन्प्रभया विश्वरूपः ।अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः पुराकरोत्सर्वमेवाथ विश्वम् ॥ ३५ ॥
ऋतूनुत्पातान्विविधान्यद्भुतानि मेघान्विद्युत्सर्वमैरावतं च ।सर्वं कृष्णात्स्थावरं जङ्गमं च विश्वाख्याताद्विष्णुमेनं प्रतीहि ॥ ३६ ॥
विश्वावासं निर्गुणं वासुदेवं संकर्षणं जीवभूतं वदन्ति ।ततः प्रद्युम्नमनिरुद्धं चतुर्थमाज्ञापयत्यात्मयोनिर्महात्मा ॥ ३७ ॥
स पञ्चधा पञ्चजनोपपन्नं संचोदयन्विश्वमिदं सिसृक्षुः ।ततश्चकारावनिमारुतौ च खं ज्योतिरापश्च तथैव पार्थ ॥ ३८ ॥
स स्थावरं जङ्गमं चैवमेतच्चतुर्विधं लोकमिमं च कृत्वा ।ततो भूमिं व्यदधात्पञ्चबीजां द्यौः पृथिव्यां धास्यति भूरि वारि ।तेन विश्वं कृतमेतद्धि राजन्स जीवयत्यात्मनैवात्मयोनिः ॥ ३९ ॥
ततो देवानसुरान्मानुषांश्च लोकानृषींश्चाथ पितॄन्प्रजाश्च ।समासेन विविधान्प्राणिलोकान्सर्वान्सदा भूतपतिः सिसृक्षुः ॥ ४० ॥
शुभाशुभं स्थावरं जङ्गमं च विष्वक्सेनात्सर्वमेतत्प्रतीहि ।यद्वर्तते यच्च भविष्यतीह सर्वमेतत्केशवं त्वं प्रतीहि ॥ ४१ ॥
मृत्युश्चैव प्राणिनामन्तकाले साक्षात्कृष्णः शाश्वतो धर्मवाहः ।भूतं च यच्चेह न विद्म किंचिद्विष्वक्सेनात्सर्वमेतत्प्रतीहि ॥ ४२ ॥
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् ।तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत् ॥ ४३ ॥
एतादृशः केशवोऽयं स्वयंभूर्नारायणः परमश्चाव्ययश्च ।मध्यं चास्य जगतस्तस्थुषश्च सर्वेषां भूतानां प्रभवश्चाप्ययश्च ॥ ४४ ॥
« »