उमोवाच ।भगवन्भगनेत्रघ्न पूष्णो दशनपातन ।दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् ॥ १ ॥
चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा ।केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥ २ ॥
वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् ।प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् ॥ ३ ॥
केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते ।क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥ ४ ॥
एतं मे संशयं देव वद भूतपतेऽनघ ।त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥ ५ ॥
महेश्वर उवाच ।ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे ।क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः ॥ ६ ॥
कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः ।ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः ॥ ७ ॥
स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति ।क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति ॥ ८ ॥
यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते ।ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ ९ ॥
वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः ।ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥ १० ॥
स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् ।स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते ॥ ११ ॥
तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः ।ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते ॥ १२ ॥
क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि ।स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते ॥ १३ ॥
स्वस्थानात्स परिभ्रष्टो वर्णसंकरतां गतः ।ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥ १४ ॥
यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः ।धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥ १५ ॥
इदं चैवापरं देवि ब्रह्मणा समुदीरितम् ।अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते ॥ १६ ॥
उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् ।घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित् ॥ १७ ॥
शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः ।पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ॥ १८ ॥
शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै ।आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥ १९ ॥
तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः ।ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥ २० ॥
यस्यान्नेनावशेषेण जठरे यो म्रियेत वै ।तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति ॥ २१ ॥
ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते ।अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै ॥ २२ ॥
सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः ।स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥ २३ ॥
अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी ।निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः ॥ २४ ॥
गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः ।ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः ॥ २५ ॥
एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा ।शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् ॥ २६ ॥
शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि ।शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः ।कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः ॥ २७ ॥
दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः ।ऋतुकालाभिगामी च नियतो नियताशनः ॥ २८ ॥
चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः ।वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति ॥ २९ ॥
ऋतवागनहंवादी निर्द्वंद्वः शमकोविदः ।यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ॥ ३० ॥
दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः ।गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः ॥ ३१ ॥
शेषाशी विजिताहारो निष्कामो निरहंवदः ।अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि ॥ ३२ ॥
सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः ।त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि ।स वैश्यः क्षत्रियकुले शुचौ महति जायते ॥ ३३ ॥
स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः ।उपनीतो व्रतपरो द्विजो भवति सत्कृतः ॥ ३४ ॥
ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः ।अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ॥ ३५ ॥
आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् ।सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः ॥ ३६ ॥
धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः ।यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः ॥ ३७ ॥
ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः ।ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा ॥ ३८ ॥
सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः ।बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा ॥ ३९ ॥
सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा ।शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् ॥ ४० ॥
स्वार्थाद्वा यदि वा कामान्न किंचिदुपलक्षयेत् ।पितृदेवातिथिकृते साधनं कुरुते च यः ॥ ४१ ॥
स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव च ।त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि ॥ ४२ ॥
गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः ।त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् ॥ ४३ ॥
ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः ।विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ॥ ४४ ॥
एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः ।शूद्रोऽप्यागमसंपन्नो द्विजो भवति संस्कृतः ॥ ४५ ॥
ब्राह्मणो वाप्यसद्वृत्तः सर्वसंकरभोजनः ।ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः ॥ ४६ ॥
कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः ।शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् ॥ ४७ ॥
स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति ।विशुद्धः स द्विजातिर्वै विज्ञेय इति मे मतिः ॥ ४८ ॥
न योनिर्नापि संस्कारो न श्रुतं न च संनतिः ।कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥ ४९ ॥
सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते ।वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति ॥ ५० ॥
ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः ।निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ॥ ५१ ॥
एते योनिफला देवि स्थानभागनिदर्शकाः ।स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ॥ ५२ ॥
ब्राह्मणो हि महत्क्षेत्रं लोके चरति पादवत् ।यत्तत्र बीजं वपति सा कृषिः पारलौकिकी ॥ ५३ ॥
मिताशिना सदा भाव्यं सत्पथालम्बिना सदा ।ब्राह्ममार्गमतिक्रम्य वर्तितव्यं बुभूषता ॥ ५४ ॥
संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना ।नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना ॥ ५५ ॥
एवंभूतो हि यो विप्रः सततं सत्पथे स्थितः ।आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते ॥ ५६ ॥
ब्राह्मण्यमेव संप्राप्य रक्षितव्यं यतात्मभिः ।योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते ॥ ५७ ॥
एतत्ते सर्वमाख्यातं यथा शूद्रो भवेद्द्विजः ।ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते ॥ ५८ ॥